________________
२५२
बृहत्कल्प-छेदसूत्रम् - १-१/१
गता संयमविराधना । अथाऽऽत्मविराधनामाह
[भा.९३५]तं चेव अभिहणेज्जा, आवडियं अहव जीहलोलुयता (यया) । बहुगाई भुंजित्ता, विसूचिकाईहि आववहो ।
वृ-तद् लगुडादिकं क्षिप्तं पुनरापतितं सत् 'तमेव' साधुमभिहन्यात् । इदं च प्रागुक्तमपि स्थानाशून्यार्थमत्रोपात्तमिति न पुनरुक्तदोषः । अथवा जिह्वालोलुपतया बहुकानि प्रलम्बानि मुक्त्वा विसूचिकादिभिः आदिशब्दाद् ज्वरा ऽतीसारादिभी रोगैरुत्पन्नैरात्मवधो भवति ॥ उक्ताऽऽत्मविराधना । तदुक्तौ च व्याख्याता आज्ञादयश्चत्वारोऽपि दोषाः । अथ “कस्स अगीयत्थे” त्ति पदं व्याचिख्यासुराह
[भा. ९३६ ] कस्सेयं पच्छित्तं, गणिणो गच्छं असारविंतस्स । अहवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स ॥
वृ-शिष्यः प्रश्नयति-यद् 'एतद्' अन्यत्रग्रहणादावनेकधा प्रायश्चित्तमुक्तं तत् कस्य भवति ? सूरिराह- 'गणिनः' आचार्यस्य गच्छम् असारयतः सतः । असारणा नाम अगवेषणा- कः कुत्र गतः ? को वा मामापृच्छय गतः ? कोवा अनापृच्छया ? यद्वा प्रलम्बं गृहीत्वा आगत्यालोचितेऽन्येन वा निवेदिते यत् प्रायश्चित्तं तन्न ददाति, दत्त्वा वा न कारयति, न वा नोदनादिना खरण्टयति; एषा सर्वाऽप्यसारणाऽभिधीयते । आह किं कारणमाचार्यस्य षट्कायानविराधयतोऽपि प्रायश्चित्तम् ? उच्यते-स्वसाधूनुत्पथे प्रवर्त्तमानानसारयन्नसौ गच्छस्य विराधनायां वर्त्तते । तथा चोक्तमिदमेव सहेतुकं बृहदुभाष्ये
किं कारणं तु गणिणो, असारवेंतस्स होइ पच्छित्तं ? । वट्टति जेम गणहरो, विराधनाए उ गच्छस्स ॥ किह पुन विराधनाए, गच्छस्स गणी उ वट्टती स खलु ? | भन्नइ सुसु जहगणी, विराहओ होइ गच्छस्स ॥ जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणइ । एवं सारणियाणं, आयरिओ असारओ गच्छे ।। किह सरणमुवगया पुन ?, पक्खे पक्खम्मि जं उवट्टंति । इच्छामि खमासमणो !, कतकितिकम्मा उ जं अम्हे ॥
अत आचार्यस्य सर्वमेतत् प्रायश्चित्तम् । अथवा यो भिक्षुरगीतार्थ अपिशब्दाद् गीतार्थोऽपि विषयलोलः-सुखादुरसास्वादलम्पटो भूत्वा प्रलम्बानि गृह्णाति तस्यैतत् प्रायश्चित्तम् । अत्र चाऽऽचार्यविषया अष्टौ भङ्गाः - अगीतार्थ आचार्यो गच्छं न सारयति विषयलोलश्च १ अगीतार्थ आचार्यो गच्छं न सारयति विषयनिस्पृहश्च २ इत्यादि । अत्र चान्तिमो भङ्गः शुद्धः, शेषाः सप्त परित्यक्तव्याः ॥ यत आह
[भा. ९३७] देसो व सोवसग्गो, वसणी व जहा अजानगनरिंदो । रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो ॥
वृ-भङ्गसप्तकवर्ती आचार्यो देश इव सोपसर्गो व्यसनी वा यथा अज्ञायकनरेन्द्रः परित्यज्यते तथा परित्याज्यः । यथा च राज्ञा अचिन्त्यमानं राज्यं विलुप्तसारं भवति तथा गच्छोऽप्याचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org