________________
२४८८
बृहत्कल्प-छेदसूत्रम् -१-१/१
__ तेचेव य सारुवणा, पवडते होंति दोसा उ॥ वृ. कदाचिदसौ तं वृक्षमारोहन् पतेत्, ततश्च मरण-ग्लानत्वादिका ये दोषा आरोहतो भवन्ति प्रपततोऽपि त एव दोषाः ‘सारोपणाः' सप्रायश्चित्ता निरवशेषा वक्तव्याः । “पवडते होंति सविसेसा" इति निशीथचूर्णिलिखितः पाठः, तत्रायमर्थ-आरोहतो दोषाणां सम्भव एव भणितः, पततः पुनरवश्यमभाविनो गात्रभङ्गादयो दोषा इति सविशेषग्रहणम् ॥
गतं पतनद्वारम् । अथोपधिद्वारं विवृणोति[भा.९१९] तंमूल उवहिगहणं, पंतो साहूण कोइ सव्वेसिं।
तण-अग्गिगहण परितावणा य गेलन्न पडिगमणं ॥ वृ-यस्य परिग्रहे तानिप्रलम्बानिसः 'तन्मूलं प्रलम्वग्रहणनिमित्तं तस्यैवसाधोरुपधिग्रहणं कुर्यात्, यद्वा कश्चित् प्रान्तः सर्वेषां साधूनामुपधिं गृह्णीयात् । तत्र यथाजाते रजोहरणादिके उपधौ हृते मूलम्, शेषे पुनरुत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् । उपधिं विना तृणानि गृह्णीयात्, अग्निग्रहणं वा कुर्यात्, अग्नि सेवेतेति भावः, अथाग्निं न सेवते ततः शीतेन परितापना तस्य भवेत्, शीतेन वा भुक्ते अजीर्यमाणे ग्लानत्वं भवेत्, शीताभिभूता वा साधवः पार्श्वस्थादिषु प्रतिगमनं कुर्युः ॥सम्प्रत्यत्रैव प्रायश्चित्तमाह[भा.९२०] तणगहण अग्गिसेवण, लहुगा गेलने होइ तं चेव ।
मूलं अणवठ्ठप्पो, दुग तिग पारंचिओ होइ॥ वृ-अशुषिरतृणानि गृह्णाति मासलघु, शुषिरतृणानि गृह्णातिचतुर्लघु। परकृतमग्नि सेवते चतुर्लघु, अभिनवमग्निं जनयति मूलम्, अग्निशकटिकायां वा तापयन्यावतो वारान् हस्तं वा पादं वा सञ्चालयति तावन्ति चतुर्लघूनि । यस्तु धर्मश्रद्धालुरग्नि न सेवते स शीतेन ग्लानः सञ्जायते, ग्लानत्वे चानागाढपरितापनादौ तदेव प्रायश्चित्तम् । अथ शीतपरीषहमसहिष्णुः पार्श्वस्थादिषु व्रजति चतुर्लघु, यथाच्छन्देषु व्रजति चतुर्गुरु । यद्येकोऽवधावतो अन्यतीर्थिकेषु वा याति ततो मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम्॥
गतमुपधिद्वारम् । अथोड्डाहद्वारं विवृणोति[भ.९२१] अपरिग्गहिय पलंबे, अलभंतो समणजोगमुक्धुरो ।
रसगेहीपिबद्धो, इतरे गिण्हंतो गहिओ य॥ वृ-अपरिगृहीतानिप्रलम्बान्यलभमानः श्रमणयोगमुक्तधुरः' परित्यक्तश्रमणव्यापारभार इतिभावः, रसगृद्धिप्रतिबद्धः ‘इतराणि परिगृहीतप्रलम्बानिगृह्णन्प्रलम्बस्वामिना दृष्ट्वा गृहीतः।। ततश्च- ।
[भा.९२२] महजनजाननया पुण, सिंघाडग-तिग-चउक्क-गामेसु । -
उड्डहिऊण विसज्जिते, महजननाए एतो मूलं ॥ वृ-तेन प्रलम्बस्वामिना गृहीत्वा शृङ्गाटक-त्रिक-चतुष्कस्थानेषु ग्रामेषु वा बहुषु नीत्वा महाजनस्य- पौर-जानपदरूपस्य ज्ञापना कृता, यथा “एतेन मदीयानि प्रलम्बानि चोरितानि' इत्यादि महाजनस्यपुरतउद्दह्य "विसर्जितः मुक्तः ततएवं महाजनज्ञातेसतिमूलंनामप्रायश्चित्तम्।। कथमुद्दग्धः? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org