________________
उद्देशक ः १, मूलं-१, [भा. ९१४]
२४७ निबिडं कर्म चीयते न तथा द्रव्यप्राणातिपातेन । आह यदुक्तं “पञ्चभिः क्रियाभिः स्पृष्टः" तत् कथंसंवादमश्रनते? यावता यदिन विराधयति तदाकायिकी आधिकरणिकी चक्रियेसम्भवतः पारितापनिक-प्राणातिपातिकक्रिययोस्तु कुतः सम्भवः ?, अथ विराधयति तदेताश्चतस्रऽपि भवेयुः प्राद्वेषिकी पुनः कथं भवेत् ? । सूरिराह-क्रियाग्रहणं भयनिमित्तं' भयजननार्थं क्रियते, येन साधवः क्रियापञ्चकापत्तिदोषभीता मूलत एव प्रलम्बग्रहणे न प्रवर्तन्ते; यद्वा दृष्टिवादनयाभिप्रायनैपुण्याद् यत्रैका क्रिया तत्र पञ्चापि क्रियाः सम्भवन्तीति न दोषः ।
यदाह निशीथचूर्णिकृत्-अहवा जत्थ एगा किरिया तत्थ दिठिवायनयसुहुमत्तणतो पञ्च किरियाओ भवंति, अतो पंचकिरियग्गहणे न दोसो॥
एवं तावत् संयमविराधना भाविता । अथाऽऽत्मविराधनांभावयति[भा.९१५] कुवणय पत्थर ले, पुव्वछूढे फले व पवडते ।
पञ्चुप्फिडणे आया, अच्चायामे य हत्थाई॥ वृ-अन्येन केनचित्प्रलम्बार्थिना पूर्वं "कुवणउ" तिलगुडःक्षिप्तः, सतत्रैव वृक्षशाखायां विलग्नः सन् वायुप्रयोगेण विवक्षितसाधुक्षिप्तकाष्ठादिप्रयोगेणवा सञ्चालितस्तस्यैव साधोरुपरि निपत विराधनां कुर्यात् । एवं प्रस्तरः' पाषाणः ‘लेष्टु' इष्टकाशकलं मृत्तिकापिण्डोवापूर्वक्षिप्तः पतेत्, फलं वृन्तच्युतं वृक्षात् प्रपतेत् । तस्यैव काष्ठादेः प्रतिनिवृत्य स्वसम्मुखं प्रत्यास्फलने आत्मविराधना भवेत् । 'अत्यायामेन च' अतीहस्तसमुच्छ्रयणेन काष्ठादौ क्षिप्यमाणे हस्तादेः परितापना भवेदिति ।। गतं क्षेपणाद्वारम् । अथाऽऽरोहणद्वारमाह[भा.९१६]खिवणे वि अपावंतो, दुरुहइ तहि कंट-विच्छु-अहिमाई।
पक्खि-तरच्छाइवहो, देवयखेत्ताइकरणंच॥ वृ-काष्ठादेः क्षेपणे कृतेऽपियदा प्रलम्बानि न पतन्ति तदाऽधःस्थितस्तानि 'अप्राप्नुवन्' अलभमानस्तं वृक्षं “दुरुहइ"त्तिआरोहति।सच यावद्भिर्बाहुक्षेपकैरारोहततावन्ति चतुर्लघुकानि, अनन्ते पुनश्चतुर्गुरुकाणि । 'तत्र' वृक्षे आरोहन् यत् कण्टकैर्विध्यते, यच्च वृश्चिकेनाऽहिना वा आदिशब्दाद् नकुलादिना वा दश्यते, यच्च पक्षिभि-श्येनादिभिः तरक्षादिभिश्च-आटव्यजीवैर्वधो भवति, यया वा देवतया अधिष्ठितोऽसौ वृक्षस्तया यदसौ साधुः क्षिप्तचित्तः क्रियते, आदिग्रहणेनापरया कयाचिद् विडम्बनया विडम्ब्यते ।। [भा.९१७] तत्थेवय निट्ठवणं, अंगेहि समोहएहि छक्काया।
आरोवण सच्चेव य, गिलाणपरितावणाईया॥ वृ-यद्वा सा देवता स्वाधिष्ठितवृक्षारोहणकुपिता तत्रैव 'निष्ठापनम्' आयुषः समापनं तस्य यत् कुर्यात्, अथवा तं साधुमारोहन्तमे यत् पातयेद् एषा सर्वाऽप्यात्मविराधना । पातितस्य चतयाङ्गानि ‘समवहन्यन्ते' भज्यन्त इत्यर्थः, तैरङ्गैर्हस्त-पादादिभि समवहतैर्यत्र भूमावसौ पतति तत्र षट् काया विराध्यन्ते । तेषां च सङ्घट्टनादिभिरारोपणा सैव द्रष्टव्या या “छक्काय चउसु लहुगा" इत्यादि गाथायामुक्ता । आत्मविराधनायां च ग्लानविषया परितापनादिनिष्पन्ना या आरोपणा साऽपि प्राग्वदवसातव्या॥गतमारोहणद्वारम् । अथ पतनद्वारमाह
[भा.९१८] मरण-गिलाणाईया, जे दोसा होंति दूहमाणस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org