________________
उद्देशक : १, मूलं-१, [भा. ९०६]]
२४५
वृ. इहाऽऽरामः कश्चिदादित एवाऽऽत्मीयो वा भवेद् मूल्येन क्रीतो वा । यो मूल्येन क्रीतः स केन क्रीतो भवेत् ? उच्यते-परतीर्थिकेन वा १ भोगिकेन वा २ ग्रामेण वा ३ वणिजा वा ४ घट्या वा गोष्ठयेत्यर्थः ५ कौटुम्बिकेन वा ६ आरक्षिकेण वा ७ राज्ञा वा ८ एतद् द्वयमपि राजकुलशब्देनगृहीतम् । एतेषां परिग्रहे वर्तमानादारमात् प्रलम्बानि गृह्णतो यथाक्रमं प्रायश्चित्तं चतुर्लघु १ चतुर्गुरु २ षड्लघु ३ षड्गुरु ४ छेदः ५ मूलं ६ अनवस्थाप्यं ७ पाराञ्चिकम् ८। अत्रापि त एव ‘भद्रेतराः' भद्रक-प्रान्तकृता अनुग्रह-प्रतिषेधादयो दोषा वक्तव्याः । एतत् सर्वमयाचितेप्रलम्बे द्रष्टव्यम्।याचितेतुग्रहणा-ऽऽकर्षणादिदोषान् विना शेषमिति । एतावता वृक्षस्याधःप्रपतितमचित्तं व्याख्यातम् । अथ सचित्तादिद्वारचतुष्टयमभिधित्सुराह[भा.९०७] एमेवय सच्चित्ते, छुभणा आरोहणा य पडणा य ।
___ जंइत्थं नाणत्तं, तमहं वोच्छं समासेणं ।। वृ-यथा अचित्ते "दिढे संका भोइय" इत आरभ्य "आराम मोल्लकीए" इति पर्यन्तं भणितम् एवमेव सचित्तेऽपि द्रष्टव्यम् । प्रक्षेपणमारोहणं पतनमित्येतान्यपि द्वाराणि तथैव वक्तव्यानि । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन ॥ तत्र सचित्ते तावद् विशेषमाह[भा.९०८] तं सच्चित्तंदुविहं, पडियाऽपडियं पुणो परित्तियरं ।
पडितऽसति अपावंते, छुभई कट्ठाइए उवरिं ।। वृ-तत्पुनःसचित्तं द्विविधम्-पतितमपतितंच। पुनरेकैकं द्विधा-'परित्तं प्रत्येकम् ‘इतरद्' अनन्तं च । तत्र पतितस्य 'असति' अभावे वृक्षप्रतिष्ठितेऽपि हस्तादिना अप्राप्यमाणे ततः प्रलम्बपातनार्थं काष्ठादीन्युपरि क्षिपति ।। तत्र यद् वृक्षोपरिस्थितं भूमिस्थितो हस्तेन गृह्णाति तत्र प्रायश्चित्तमाह[भा.९०९] सजियपयट्ठिए लहुगो, सजिए लहुगा य जत्तिया गाहा ।
गुरुगा होति अनंते, हत्थप्पत्तं तु गेण्हते ॥ वृ-सजीववृक्षप्रतिष्ठितमचित्तफलं गृह्णाति मासलघु । अत्र च यावतो ग्राहान् करोति तावन्तिमासलघुकानि ।अथ सजीवंसचित्तवृक्षप्रतिष्ठितं गृह्णातिचतुर्लघु, सच्चित्तप्रतिष्ठितप्रत्ययं च मासलघु, तत्रापि यावतो ग्राहान् करोति तावन्ति चतुर्लघूनि मासलघूनि च । एतत् प्रत्येके भणितम् । अनन्ते पुनरेतान्येवप्रायश्चित्तानि 'गुरुकाणि' मासगुरु-चतुर्गुरुस्वरूपाणि भवन्ति । एवं भूमिस्थितस्य वृक्षस्थितं हस्तप्राप्तं प्रलम्बं गृह्णतः प्रायश्चित्तमुक्तम् ।। अथ यदुक्तम् “छुभई कट्ठाइए उवरिं" ति तदेतद् विवरीषुराह[भा.९१०] छुभमाण पंचकिरिए, पुढवीमाई तसेसु तिसु चरिमं ।
तं काय परिचयई, आवडणे अप्पगं चेव ।। वृ-प्रलम्बपातनार्थं काष्ठ-लेष्ठु-शुष्कगोमयादिकं गवेषयति चतुर्लघु । काष्ठादिकं लब्ध्वा वृक्षाभिमुखं क्षिपति चतुर्लघव एव । स च क्षिपन्नेव ‘पञ्चक्रियः' पञ्चभि क्रियाभि स्पृष्टः, तद्यथाकायिक्या १ आधिकरणिक्या२ प्राद्वेषिक्या ३ पारितापनिक्या ४प्राणातिपातक्रियया ५ चेति। पृथिव्यादिषुचजीवेषु सङ्घटना-परितापना-ऽपद्रावणैर्ल घुमासादिकंप्रायश्चित्तंयथास्थानं ज्ञातव्यम्। "तसेसु तिसु चरिमं" ति त्रिषु पञ्चेन्द्रियरूपेषु त्रसेषु व्यपरोपितेषु 'चरमं' पाराञ्चिकम् । तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org