________________
२४४
बृहत्कल्प-छेदसूत्रम् -१-१/१ परितापनाभिभूतः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थं नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु, प्रत्येकस्थापने चतुर्लघु, अनन्तस्थापने चतुर्गुरु इत्यादि प्राग्वद् वक्तव्यम् । “महय" त्तिमहादुखेषड्लघु, मूर्छयांषड्गुरु, कृच्छ्रपाणेच्छेदः, कृच्छ्रोच्छ्वासे मूलम्, समवहतेऽनवस्थाप्यम्, कालगते पाराञ्चिकम् ॥अथ “यच्च तृणग्रहणादिकमुपधिना विना भवेत्" इति पदं विवृणोति[भा.९०३] तणगहणे झुसिरेतर, अग्गी सट्ठाण अभिनवेजंच।
एसणपेल्लण गहणे, काया सुत मरण ओहाणे॥ ___-वर्षाकल्पादावुपकरणेहतेशीताभिभूतास्तृणानि गृह्णन्ति-सेवन्ते।तत्रशुषिरतृणसेवने चतुर्लघु, अशुषिरतृणसेवने मासलघु । अग् िसेवन्ते तत्र स्वस्थानप्रायश्चित्तम्, चतुर्लघु इत्यर्थः। अथाभिनवमग्नि जनयनति मूलम्, यच्चाग्निसमारम्भेऽन्येषां जीवानां विराधनं तन्निष्पन्नमपि प्रायश्चित्तम् । अथोपकरणाभावेउद्गमादिदोषदुष्टं वस्त्रादि गृह्णन्त एषणांप्रेरयन्ति ततस्तन्नष्पन्नम्। “गहणे" त्ति शीतादिभिः परिताप्यमाना गृहस्थैरदत्तमपि वस्त्रादि गृह्णीयुस्तनियुस्तनिष्पन्नम् । निशीथचूर्णिकृता तु "गणे" त्ति पाठो गृहीतः, तत्र चोपधिं विना शीतादिपरीषहमविषहमाणो यद्यन्यतीर्थिकेष्वेकः साधुर्गच्छतिमूलम्, द्वयोर्गच्छतोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् । “काय" त्ति अग्नि सेवमाना एषणांप्रेरयन्तो वा यत्पृथिव्यादिकायान् विराधयन्ति तन्निष्पन्नम् । “सुत" त्ति 'श्रुतं' सूत्रं तस्य पौरुषीं न कुर्वन्ति, उपलक्षणत्वाद् अर्थपौरुषीं न कुर्वन्ति सूत्रं नाशयन्ति अर्थ नाशयन्ति तनिष्पन्नम्। “मरण"त्ति उपकरणं विना योकोऽपि म्रियते तथापि पाराञ्चिकम्, "ओहाण"त्ति यद्येकः साधुरवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् ॥
अथ ग्रहणाकर्षणादिरूपंषष्ठं प्रकारं भावयति[भा.९०४] गेण्हण गुरुगा छम्मास कड्डमे छेदो होइ ववहारे ।
पच्छाकडम्मि मूलं, उड्डहण विरुंगणे नवमं ।। वृ-प्रलम्बानि गृह्णानो यदि प्रलम्बस्वामिना द्दष्टवा गृहीतस्ततो ग्रहणे चतुर्गुरुकाः । अथ तेनोपकणेहस्तेवागृहीत्वा राजकुलाभिमुखमाकृष्टस्ततआकर्षणेषण्मासागुरवः ।अथकारणिकानं समीपे व्यवहारे कारयितुमारब्धततश्छेदः । व्यवहारे विधीयमाने यदि पश्चात्कृतः पराजितस्ततो मूलम् । अथ चतुष्क-चत्वरादिषु 'एष प्रलम्बचौरः' इतिघोषणापुरस्करमुद्गग्धः हस्त-पादादौ वा अवयवे व्यङ्गितस्तत एवमुद्दहने "विरुंगणे"त्तिव्यङ्गने वा 'नवमम्' अनवस्थाप्यम् ॥ [भा.९०५] उद्दवणे निव्विसए, एगमनेगे पदोस पारंची।
अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ॥ वृ-अथान्यायोदीर्णकोपानलेन राजादिनाअपद्रावितो निर्विषयोवाआज्ञप्तस्ततोऽपद्रावणे निर्विषये वा कृते पाराञ्चिकम् । अथवा एकस्यानेकेषां वा साधूनामुपरि प्रद्वेषं यदि व्रजति तदा पाराञ्चिकम्।अत्रच 'द्वयोः' उद्दहन-व्यङ्गनयोरनवस्थाप्यो भवति, 'द्वयोश्च' अपद्रावण-निर्विषययोः पाराञ्चिक इति॥अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमाह[भा.९०६] आराम मोल्लकीए, परतित्थिय भोइएण गामेण ।
वणि-घड-कुडुबि-राउलपरिग्गहे चेव भद्दितरा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org