________________
बृहत्कल्प-छेदसूत्रम् -१-१/१ प्रथमभङ्गरहिताः शेषास्त्रयो भङ्गका एकान्तरिताः शुद्धाः । इदमुक्तं भवति-प्रथमो भङ्गकश्चतुर्ष्वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न काचित् तदीया विचारणा, तं मुक्त्वा ये प्रथमाष्टके शेषा भङ्गकास्ते एकान्तरितास्तृतीय- पञ्चम- सप्तमरूपास्त्रयः क्वचिदुत्पथादी पदेऽशुद्धा अपि सालम्बनत्वाच्छुद्धाः प्रतिपत्तव्याः । अर्थादापन्नं द्वितीय चतुर्थ षष्ठाऽष्टमा भङ्गका दिवादी पदे शुद्धा अपि निरालम्बनत्वादशुद्धाः । एवंद्वितीयाष्टकेऽपि प्रथमो भङ्गः शुद्धः शेषास्त्रयः एकान्तरिताः शुद्धाः, सालम्बनत्वात् ।। अत एवाह
[भा.८७५] पढमो एत्थ उ सुद्धो, चरिमो पुण सव्वहा असुद्धो उ । अवसेसा वि य चउदस, भंगा भइयव्वगा होंति ॥
२३८
वृ- प्रथमो भङ्गः 'अत्र' एषां षोडशानां मध्ये 'शुद्धः' सर्वथा निर्दोषः, चरमश्च भङ्गः सर्वथा अशुद्धः, अवशेषाश्चतुर्दश भङ्गाः 'भक्तव्याः' विकल्पयितव्या भवन्ति, केचित् शुद्धाः केचित् पुनरशुद्धा इति भावः । कथम् ? इति चेद् उच्यते
[भा.८७६ ] आगाढम्मि उ कज्जे, सेस असुद्दो वि सुज्झए भंगो । न विसुज्झे अनागाढे, सेसपदेहिं जइ वि सुद्धो ॥
वृ- 'आगाढे कार्ये' पुष्टे आलम्बने गच्छतः 'शेषैः ' रात्र्यत्पथानुपयुक्तलक्षणैः पदैरशुद्धोऽपि भङ्गः शुध्यति।‘अनागाढे' आलम्बनाभावे शेषैः- दिवापथोपयुक्तलक्षणैः पदैर्यद्यपि शुद्धस्तथापि न विशुध्यति ॥ अथ किं कुत्र प्रायश्चित्तं भवति ? इत्युच्यते
[भा.८७७] लहुगा य निरालंबे, दिवसतो रत्तिं हवंति चउगुरुगा । लहुगो य उप्पहेणं, रीयादी चेवऽनुवउत्ते ॥
वृ-यत्र यत्र निरालम्बस्तत्र तत्र दिवसतो गच्छतः चत्वारो लघुकाः, रात्रौ चत्वारो गुरुकाः । यत्र यत्र दिवसत उत्पथेन तत्र तत्र मासलघु । यत्र यत्र दिवसत ईर्याप्रभृतिसमितिष्वनपयुक्तो गच्छति तत्र तत्र मासलघु । रात्रावुत्पथगमेऽनुपयुक्तगमने च मासगुरु ॥
अथ प्रकारान्तरेण प्रायश्चित्तमाह
[भा.८७८] दिय-राओ लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगा य । संजम - आयविराधन, संजमे आरोवणा इणमो ॥
वृ- अशुद्धेषु भङ्गेषु सर्वेषवपि दिवसतो गच्छतश्चत्वारो लघुकाः, रात्रौ पुनश्चत्वारो गुरुकाः । तीर्थकराणामाज्ञाभङ्गे चतुर्गुरुकाः । अनवस्थायां चत्वारो लघुकाः । मिथ्यात्वेऽपि चत्वारो लघुकाः । अत्र चानवस्था-मिथ्यात्वे प्रक्रमाद् द्रष्टव्ये । विराधना द्विविधा संयमे आत्मनि च । तत्र संयमविराधनायाम् 'इयं' वक्ष्यमाणा 'आरोपणा' प्रायश्चित्तम् ॥ तामेवाह
[भा.८७९] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परितावण, लहु गुरुगऽतिवायणे मूलं ॥
वृ- 'षट्कायाः' पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुर्षु' पृथिव्यप्तेजोवायुषु सङ्घट्टनादौ लघुकपर्यन्तं प्रायश्चित्तम् । 'परीत्ते' प्रत्येकवनस्पतिकायेऽपि लघुकान्तम् । 'साधारणे' अनन्तवनस्पतौ गुरुकान्तम् । तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम्, 'अतिपातने' विनाशने मूलम् । इयमत्र भावना पृथिवीकायं सङ्घट्टयति मासलघु,
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org