SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उद्देश : १, मूलं-१, [भा. ८७०] अथ बहिर्ग्रहणे प्रायश्चित्तमतिदिशन्नाह[भा. ८७१] २३७ अंतो आवणमाईगहणे जा वन्निया सवित्थारा । बहिया उ अन्नगहणे, पडियम्मि उ होइ स च्चेव ॥ वृ-ग्रामादीनाम् ‘अन्तः’ मध्ये आपणादी- आपणे आपणवर्जे वा जुगुप्सितेऽगुप्सिते वा सपरिग्रहेऽपरिग्रहे वा ग्रहणे वा सविस्तरा "दिट्ठे संका भोइय" इत्यादिलक्षणप्रपञ्चसहिता वर्णिता शोधिरित्युपस्कारः सैव ग्रामादीनां बहि पतितप्रलम्बविषयेऽन्यत्रग्रहणे निरवशेषा द्रष्टव्या ॥ उक्तं बहिर्ग्रहणम्, तद्भणे च समर्थितं वसप्रदेशविषयं ग्रहणम् । अथाटवीविषयमाहकोट्टगमाई रन्ने, एमेव जणो उ जत्थ पुंजेइ । तहियं पुण वच्चंते, चउपयभयणा उ छद्दसिया ॥ [भा. ८७२] वृ-‘जनः' लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति, पश्चाद् गन्त्री-पोट्टलकादिभिरानीय नगरादौ विक्रीणाति तत् कोट्टकमुच्यते । ततश्चारण्ये कोट्टकादी प्रदेशे यत्र जनः फलानि शोषणार्थं 'पुञ्जयति' पुञ्जीकरोति तत्र प्रलम्बग्रहणे 'एवमेव' यथा वसिमे "दिट्ठे संका भोइय" इत्यादिकमुक्तं तथैव प्रायश्चित्तमवसातव्यम् । विशेषः पुनरयम्“तहियं पुण” इत्यादि । 'तत्र पुनः ' कोट्टकादी व्रजतः चतुर्भिपदैः 'भजना' भङ्गकरचना 'षड्दशिका' षोडशभङ्गप्रमाणा कर्त्तव्या ॥ कथम् ? इति चेद् उच्यते [भा. ८७३] वच्चंतस्स य दोसा, दिया य रातो य पंथ उप्पंथे । उवउत्त अणुवउत्ते, सालंब तहा निरालंबे ॥ वृ-तत्र व्रजतो बहवो दोषा भवन्ति, ते चोपरिष्टाद् भणिष्यन्ते । दिवा च रात्रिश्च पन्था उत्पथश्च उपयुक्त अनुपयुक्तः सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना । अथ भावार्थ उच्यतेदिवा गच्छति पथा उपयुक्तः सालम्बः १ दिवा गच्छति पथा उपयुक्तो निरालम्बः ४, एवमुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते, जाता अष्टौ भङ्गाः ८, एते दिवापदममुञ्चता लब्धाः, एवं रात्रिपदममुञ्चताऽप्यष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया षोडश भङ्गाः ॥ अमीषां रचनोपायमाह[भा.८७४] अट्ठग चउक्क दुग एक्कगं च लहुगा य होंति गुरुगा य । सुद्धा एगंतरिया, पढमरहिय सेसगा तिन्नि ॥ वृ- इहाक्षाणां चतस्रः पङ्क्त्यः स्थाप्यन्ते । तत्र प्रथमपङ्क्तौ प्रथममष्टौ लघुकास्ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षेपणीयाः, द्वितीयपङ्कौ चत्वारः प्रथमं लघुकास्ततश्चत्वारो गुरुकाः पुनश्चत्वारो लघुकास्तदनु चत्वारो गुरुकाः, तृतीयपङ्कावपि षोडशाक्षा द्वौ लघुकौ द्वौ गुरुकावित्यनेन क्रमेण निक्षेप्याः, चतुर्थपङ्कावेको लघुक एको गुरुक इत्येकान्तरितलघु-गुरुरूपाः षोडशैवाक्षाः स्थापयितव्याः । एवमन्यत्रापि भङ्गकप्रस्तारे यत्र यावन्तो भङ्गकास्तत्र तावदायामः चरमपङ्कावेकान्तरितानाम् अर्वाक्तनपङ्किषु पुनर्द्विगुणद्विगुणानां लघु-गुरूणामक्षाणां निक्षेपः कर्त्तव्यः । उक्तञ्च गमाणायाम, लहुओ गुरुओ य अक्खनिक्खेवो । आरओ दुगुणा दुगुणो, पत्थारे होइ निक्खेवो ॥ एतेष्वेव शुद्धाशुद्धस्वरूपं दर्शयति- “सुद्धा एगंतरिया " इत्यादि । प्रथमे भङ्गकाष्टके For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy