________________
उद्देशक : १, मूलं-१, [ भा. ८७९]
परितापयति मासगुरु, अपद्रावयति चुतर्लघुः एवमप्काये तेजः काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम्; अनन्तवनस्पतिं यदि सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु अपद्रावयति चतुर्गुरु; द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघुः त्रीन्द्रियं सङ्घट्टयतश्चतुर्गुरु, परितापयतः षड्लघु, जीविताद् व्यपरोपयतः षड्गुरु; चतुरिन्द्रियं सङ्घट्टयतः षड्लघु, परितापयतः षड्गुरु, जीविताद् व्यपरोपयतः छेदः; पञ्चेन्द्रियं सङ्घट्टयतः षड्गुरु, परितापयतो लघुमासिकच्छेदः, अपद्रावयतो मूलम् ॥
अथैतदेव प्रायश्चित्तं रात्रौ विशेषयन्नाह
[भा.८८०] जहिं लहुगा तहिं गुरुगा, जहि गुरुगा कालगुरुग तहि ठाणे । छेद लहु गुरुओ, कासाऽऽ रोवणा रत्तिं ॥
२३९
वृ- यत्र दिवसतः 'लघुकानि' मासलघु-चतुर्लघु-षड्लघुरूपाणि तत् रात्रावेतान्येव 'गुरुकाणि' मासगुरु- चतुर्गुरु षड्गुरुरूपाणि कर्त्तव्यानि । यत्र पुनरग्रेऽपि गुरुकाणि मासादीनि तत्र स्थाने तान्येव कालगुरुकाणि दातव्यानि । यत्र च च्छेदो लघुकस्तत्र स एव गुरुकः कर्त्तव्यः । 'काये' कायविषया एषा आरोपणा रात्रौ ज्ञातव्या ।। अथाऽऽत्मविराधनामाह
[भा.८८१] कंट-ऽट्ठि खाणु विज्जल, विसम दरी निन्न मुच्छ-सूल-विसे । वाल- ऽच्छभल्ल-कोले, सीह - विग - वराह - मेच्छित्थी ॥
वृ- स साधुः कोट्टकादौ व्रजन् कण्टकेन वा अस्था वा स्थाणुना वा पदयोः परिताप्येत । 'विज्जलं' पङ्किलम् 'विषमं' निम्नोन्नतम् 'दरी' कुसारादिका 'निम्नं' गम्भीरा गर्त्ता; एतेषु पतितस्य मूर्च्छा वा भवेत्, शूलं वा अनुधावेत्, "विसं" ति विषकण्टकेन वा विध्येत, विषफलं वा भक्षयेत्, तथा व्यालेन-सर्पादिना अच्छभल्लेन वा ऋक्षेण कालेन वा महाशूकरेण सिंहेन वा वृकेण वा वाहेण वा उपद्रूयेत, म्लेच्छः पुरुष- प्रान्ततया प्रहारादिकं दद्यात्, स्त्री वा तं साधुमुपसर्गयेत्, अथवा म्लेच्छस्त्री- पुलिन्दीप्रभृतिका तमुपसर्गयेत्, तन्निमित्तं म्लेच्छः कुपितो वध-बन्धादि कुर्यात् ।। तेने देव-मनुस्से, पडिनीए एवमाइ आयाए । मास च छच्च लहु गुरु छेदो मूलं तह दुगं च ॥
[भा. ८८२]
वृ- स्तेनो द्विविधः शरीरस्तेन उपधिस्तेनश्च तेनोपद्रवः क्रियेत, देवता वा प्रान्ता तं साधुं प्रमत्तं दृष्ट्वा च्छलयेत्, अपरो वा कोऽपि प्रत्यनीको मनुष्यो विजनमरण्यं मत्वा मारणादि कुर्यात्, एवमादिका आत्मनि विराधना भवति । तत्रेदं प्रायश्चित्तम्- "मास चउ" इत्यादि पश्चार्द्धम् । कण्टकादिभिरनागाढं परिताप्यते चतुर्लघु, आगाढं परिताप्यते चतुर्गुरु, अथ महादुःखमुत्पद्यते ततः षड्लघु, मूर्च्छामूर्च्छषड्गुरु, कृच्छ्रप्राणेच्छेदः, कृच्छ्रोच्छ्वासे मूलम्, मारणान्तिकसमुद्धातेऽनवस्थाप्यम्, कालगते पाराञ्चिकम् ॥ अथाऽऽत्मविराधनायामेव सामान्यतः प्रायश्चित्तमाह[भा. ८८३] कंट-ऽट्ठिमाइएहिं, दिवसतो सव्वत्थ चउगुरू होंति ।
रत्तिं पुण कालगुरू, जत्थव अन्नत्थ आयवहो ।
वृ- कण्टका-ऽस्थिकादिभिः परितापनायां सर्वत्र दिवसतश्चतुर्गुरवो भवन्ति । रात्रौ पुनस्त एव चतुर्गुरवः कालगुरवो ज्ञातव्याः । अन्यत्रापि यत्र 'आत्मवधः' आत्मविराधना भवति तत्र सर्वत्रापि चतुर्गुरवः प्रायश्चित्तम् ॥ तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org