________________
२३१
उद्देशक : १, मूलं-१, [भा. ८४७] क्षुण्णे । द्रव्यतालः पुनरयम्-"जो भविउ"त्ति यः खलु 'भव्यः' भावितालपर्यायः । स च त्रिधाएकभविको बद्धायुष्कोऽभिमुखनाम-गोत्रश्च । तत्रैकंभविको नाम यो विवक्षितभवानन्तरं तालत्वेनोत्पत्स्यते, बद्धायुष्को येन तालोत्पत्तिप्रायोग्यमायुः कर्म बद्धम्, अभिमुखनाम-गोत्रः पुनर्विपाकोदयाभिमुखतालसम्बन्धिनाम-गोत्रकर्मातालत्वेनोत्पित्सया विक्षिप्तजीवप्रदेशः । यद्वा द्रव्यतालो द्विविधः-मूलगुणनिर्विर्तित उत्तरगुणनिवर्तितश्च। तत्रस्वायुषः परिक्षयादपगतजीवो यः स्कन्धादिरूपस्तालः स मूलगुणनिर्वर्तितः, यस्तु काष्ठ-चित्रकर्मादिष्वालिखितः स उत्तरगुणनिर्वर्तितः । एष द्रव्यातालः ।। सम्प्रति भावतालमाह[भा.८४८] भावम्मि होंति जीवा, जे तस्स परिग्गहे समक्खाया।
बिइओ विय आदेसो, जो तस्स विजाणओ पुरिसो॥ . वृ-'भावे' भावविषयस्तालोयेजीवाः 'तस्य तालस्यपरिग्रहेमूल-कन्दादिगतास्ते सर्वेऽपि समुदिताः सन्तो भावताल इति समाख्याताः, नोआगमत इति भावः । द्वितीयोऽप्यत्देशोऽस्तियः ‘तस्य' तालस्य विज्ञायकः' उपयुक्तः पुरुषः सोऽपि भावताल उच्यते, आगमत इत्यर्थः । अत्रचनोआगमतभावतालेनाधिकारः, तस्य सम्बन्धियत्फलं तदिह तालशब्देन प्रत्येतव्यम्।। गतं तालपदम् । अथ प्रलम्बपदं विवृणोति[भा.८४९] नामं ठवण पलंबं, दव्वे भावे अहोइ बोधव्वं ।
अट्ठविह कम्मगंठी, जीवो उ पलंबए जेणं॥ वृ-नामप्रलम्ब स्थापनाप्रलम्बं द्रव्यप्रलम्बंभावप्रलम्बंच भवति बोद्धव्यम् । नाम-स्थापने सुगमे । द्रव्यप्रलम्बमेकभविक-बद्धायुष्का-ऽभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च द्रव्यतालवद्भावप्रलम्बंच भावतालवद्वक्तव्यम्।यद्वाअष्टविधः कर्मग्रन्थिर्भावप्रलम्बमुच्यते। कुतः ? इत्याह-येन कर्मणा जीवः तुशब्दः संसारीति विशेषणार्थ 'प्रलम्बते' नैरयिकादिकां गति गतिं प्रति लम्बत इति तद् भावतः प्रलम्बम् ।। अत्र परः प्राह[भा.८५०] तालं तलो पलंब, तालं तु फलं तलो हवइ रुक्खो ।
पलंबं च होइ मूलं, झिझिरिमाई मुनेयव्वं ॥ वृ-किमिदं तालम् ? को वा तलः? किं वा प्रलम्बम् ? । अत्र सूरिराह-तालं तावत् फलं तलवृक्षसम्बन्धि, तच्चाग्रप्रलम्बमुच्यते । तलः पुनस्तदाधारभूतो वृक्षः । प्रलम्ब पुनर्मूलं भवति, प्रलम्बशब्देनेह मूलप्रलम्बंगृहीतमिति भावः। तच्च 'झिज्झिर्यादिकं झिझिरिप्रभृतिवृक्षसम्बन्धि "मुनेयव्वं" ज्ञातव्यम् । तदेव मूलप्रलम्बमाह[भा.८५१] झिझिरि-सुरभिपलंबे, तालपलंबे असल्लइपलंबे ।
एतं मूलपलंब, नेयव्वं आनुपुवीए। वृ-झिझिरी-वल्लीपलाशकः सुरभि-सिग्गुकः तयोः प्रलम्ब-मूलम् । एवं तालप्रलम्बं च सल्लकीप्रलम्बम्, चशब्दादन्यदपिमूलं यद् लोकस्योपभोगमायाति तदेतद्मूलप्रलम्बं ज्ञातव्यमानुपूर्व्या ॥अथाग्रप्रलम्ब विवृणोति[भा.८५२] तल नालिएर लउए, कविट्ठ अंबाड अंबए चेव ।
एअंअग्गपलंबं, नेयव्वं आनुपुब्बीए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org