________________
२३०
बृहत्कल्प-छेदसूत्रम् - १-१/१ तिन्दुकादीनि फलानि प्रक्षिप्य मध्यमायां करीषगर्त्तायां " अगनि"त्ति अग्निर्दीयते, तासां च " पेरंत "त्ति पर्यन्तगर्त्तानां श्रोतांसि मध्यमगर्त्तया सह मीलितानि क्रियन्ते, ततस्तस्याः करीषगर्त्तायाः सकाशाद् धूमस्तैः श्रोतोभि पर्यन्तगर्त्तासु प्रविशति, ततस्तच्छिद्रसम्बन्धिना धूमेन प्रसरता तानि फलानि पाच्यन्त इति, तेषां मध्ये यदामं तद् धूमपर्यायामम् ।। अथ गन्ध-वृक्षपर्यायामे भावयति[भा. ८४३] अंबग - चिब्भिडमाई, गंधेणं जं च उवरि रुक्खस्स । कालप्पत्त न पच्चइ, वत्थप्पलियामगं तं तु ॥
वृ-आम्रक-चिर्भटादीनि आदिशब्दाद् बीजपुरकादीनि यान्यपक्वानि फलानि तेषां मध्ये पक्वानि प्रक्षिप्यन्ते, तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते, तत्र यद् अपक्वं फल तद् गन्धपर्यायामम् । तथा "जं च "त्ति चशब्दस्य पुनरर्थत्वाद् यत् पुनर्वृक्षस्योपरि शाखायां वर्त्तमानं काले-वसन्तादिलक्षणे पाकगसमये प्राप्तेऽपि परिपक्केष्वप्यपरफलेषुन पच्यते तद् वृक्षपर्यायामम् ॥ व्याख्यातं चतुर्विधमपि पर्यायामम् । तध्याख्याने च समर्थितं द्रव्यामम् । अथ भावामस्वरूपं निरूपयति
[भा.८४४] भावामं पिय दुविहं, वयणामं चेव नो य वयणामं । वयणाम अणुमयत्थे, आमं ति हि जो वदे वक्कं ।।
वृ- भावाममपि द्विविधम्-वचनामं चैव नोवचनामं च । वचनरूपमामं वचनामम्, अनुमतार्थे ‘आमम्' इति यः ‘वाक्यं' वचनं वदेत् तद्वचनामम् । यथा- कोऽपि साधुर्गुरूणां कार्येण गच्छन्नपरेण पृष्टः-आर्य ! किं गुरुकार्येण गम्यते ?, स प्रत्याह- आमम्, एवमेतदित्यर्थः ॥
[भा. ८४५] नोवयणामं दुविहं, आगमतो चेव नो अ आगमतो । आगमे नाणुवउत्तो, नोआगमओ इमं होइ ॥
वृ-नोवचनामं द्विविधम्-आगमतश्चैव नोआगमतश्च । तत्रागमत आमपदार्थज्ञानयुक्तस्तत्र चोपयुक्तः, उपयोगस्य भावरूपत्वाद् ज्ञानस्य चागमरूपतवात् । नोआगमतो भावाममिदं भवति ।। तदेवाह
[भा. ८४६ ] उग्गमदोसाईया, भावतो अस्संजमो अ आमविही। अन्नो वि य आएसो, जो वरिससयं न पूरेइ ॥
वृ- उद्गमदोषाः- आधाकर्मादयः, आदिग्रहणाद् उत्पादनादोषा एषणादोषाश्च, एतद् भावामं प्रतिपत्तव्यम् । तथाच आचाराङ्गसूत्रम् - सव्वामगंधं परिन्नाय निरामगंधो परिव्वए 'असंयमश्च' पृथिव्याद्युपमर्दलक्षणो भावतः आमविधिरेव ज्ञातव्यः, चारित्रापक्वताकरणात् । यद्वाऽन्योऽपि 'आदेश' प्रकारो भण्यते - यो वर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमपूरयित्वा म्रियते सोऽपि भावत आमः, आयुषः परिपाकमन्तरेण मरणात् । अत्र च द्रव्यामेणाधिकारः, तत्रापि वृक्षपर्यायामेण, शेषाणामुच्चारितसद्दशतया विनेयव्युत्पादनार्थं प्रसङ्गतः प्ररूपितत्वात् ।। व्याख्यातमामपदम् ।
अथ तालपदं विवृणोति
[भा. ८४७] नामं ठवणा दविए, तालो भावे य होइ नायव्वो । जो भविओ सो तालो, दव्वे मूलुत्तरगुणेसु ॥
वृ- नामतालः स्थापनातालो द्रव्यतालो भावतालश्च भवति ज्ञातव्यः । तत्र नाम-स्थापने
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International