________________
उद्देशक : १, मूलं-१, [भा. ८३८]
२२९ गीयतेन तूपकरमादिधारणमात्रम्, “मुच्छा परिग्गहोवुत्तो'इति ज्ञातव्यः । तदुक्तं परमगुरुभिः
___ अज्झत्थविसोहीए, उवगरणं बाहिरंपरिहरंतो ।
अपरिग्गहो त्ति भणिओ, जिणेहि तेलोक्कदंसीहिं ।। गतं ग्रन्थपदम् । अथाऽऽमपदं विवरीषुराह[भा.८३९] नामं ठवणा आमं, दव्वामंचेव होइ भावामं ।
उस्सेइम संसेइम, उवक्खडं चेव पलियामं॥ वृ-आमंचतुर्धा, तद्यथा-नामामं स्थापनामं द्रव्यामभावामम् । तत्र नाम-स्थापने गतार्थे। द्रव्यामं पुनश्चतुर्धा, तदेव दर्शयति-“उस्सेइम" इत्यादि । उत्-ऊर्द्ध निर्गच्छता बाप्पेण यः स्वेदः स उत्स्वेदः, उत्स्वेदेन निवृत्तमुत्स्वेदिमम्, "भावादिमः" इति सूत्रेण इमप्रत्ययः, उत्स्वेदिमंच तदामं च उत्स्वेदिमामम्१ । मम्-एकीभावेन स्वेदः संस्वेदः, तेन निर्वृत्तं संस्वेदिमम् तदेवामं संस्वेदिमामम् २ । तथोपस्कृता-राद्धा ये वल्ल-चणकादयः, तेषां मध्ये यदामं तदुषस्कृतामम् ३ । पर्यायः-स्वाभाविक औषाधिको वाफलानांपाकपरिणामः, तस्मिन्प्राप्तेऽपियदामंतत्पर्यायामम् ४॥ अथोत्स्वेदिमादिचतुष्टयमेव व्याचष्टे[भा.८४०] उस्सेइम पिट्ठाई, तिलाइ संसेइमंतुणेगविहं ।
कंकडुयाइ उवक्खड, अविपक्करसंतु पलियामं ।। वृ-उत्स्वेदिमं 'पिष्टादि' पिष्टं-सूक्ष्मतन्दुलादिचूर्णिनिष्पन्नम्, तद्धि वस्त्रन्तरितमधःस्थितस्योष्णोदकस्य बाप्पेणोत्स्विद्यमानं पच्यते, तत्र यदामं तद् उत्स्वेदिमामम्, आदिग्रहणाद् भरोलादिपरिग्रहः । संस्वेदिमं पुनस्तिलादिकमनेकविधम्, इह क्वचिपिठरादौपानीयंतापयित्वा पिठरिकायां प्रक्षिप्तास्तिलास्तेनोष्णोदकेन सिच्यन्ते ततस्ते तिलाः संस्विद्यन्ते, तेषां संस्विन्नानां मध्ये ये आमास्तत् संस्वेदिमामम्, आदिग्रहणेन यदन्यदप्येतेन क्रमेण संस्विद्यते तत् संस्वेदिमामम् । तथा चणक-मुद्गादीनामुपस्कृतानां ये कङ्कटुकादय आमास्ते उपस्कृतामम् । पर्यायाम पुनरविपक्करसंफलादिकमुच्यते ॥ तच्चतुर्विधम्, तद्यथा[भा.८४१] इंधन धूमे गंधे, वच्छप्पलियामए अआमविही ।
एसो खलु आमविही, नेयव्वो आनुपुव्वीए । वृ-इन्धनपर्यायामधूमपर्यायामंगन्धपर्यायामवृक्षपर्यायाममित्येवं पर्यायामेआमविधिश्चतुःप्रकारः । एष खलु आमविधितिव्यः ‘आनुपूर्व्या' यथोक्तया परिपाट्या । यद्वा आनुपूर्वी नाम वक्ष्यमाणलक्षणा पलालवेष्टन-गखिनन-करीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना तया ज्ञातव्य आमविधिरिति । अथेन्धन-धूमपर्यायामे विवृणोति[भा.८४२] कोद्दवपलालमाई, धूमेणं तिंदुगाइ पच्चंते।
मज्झऽगडाऽगणि पेरंत तिंदुया छिद्दधूमेणं ॥ वृ-कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपलालपरिग्रहः, तेन चाऽऽम्रफलादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तद् इन्धनपर्यायामम् । तथा धूमेन तिन्दुकादीनि फलानि पाच्यन्ते, कथं पाच्यन्ते ? इत्याह-“मज्झऽगडाइ"त्ति प्रथमतो गळ्या मध्ये करीषः प्रक्षिप्यते, तस्याश्च गर्तायाः पार्श्वेष्वपरा गर्ताः खन्यन्ते, तासु च गर्तासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org