________________
२३२
बृहत्कल्प-छेदसूत्रम् -१-१/१ वृ- तलफलं नालिकेरफलं लकुचफलं कपित्थफलम् आम्रातकफलम् आम्रफलं चशब्दस्यानुक्तसमुच्चयार्थत्वाद् अन्यदपि कदलीफल-बीजपूरादिकम् एतदग्रप्रलम्ब ज्ञातव्यमानुपूर्व्या ॥अथ परः प्राह[भा.८५३] जइ मूल-ऽग्गपलंबा, पडिसिद्धा न हु इदानि कंदाई।
कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥ वृ- यदि मूलप्रलम्बा-ऽग्रप्रलम्बे प्रतिषिद्धे न पुनः ‘इदानीम्' अस्मिन् सूत्रे 'कन्दादयः' कन्दस्कन्ध-त्वक्-शाखा-प्रवाल-प्र-पुष्प-बीजानिप्रतिषिद्धनि, यतश्चैतेषांप्रतिषेधंन करोतिसूत्रं ततो मदीयायां मतौ प्रतिभासते-अवश्यमेते कन्दादयः कल्पन्ते प्रतिग्रहीतुं जीवा अपि सन्तः, अथवा तत्त्वतो नाऽमीजीवा भवन्ति, यदि हि जीवाभवेयुस्ततः प्रतिषेधोऽप्यमीषामस्मिन् सूत्रे कृतः स्यात्; अथेत्थं भणिष्यन्ति भवन्तः-जीवा एवामी न च कल्पन्ते ततः सूत्रं दुर्बद्धम् अथ ब्रवीध्वम्-जीवाअमीनचकल्पन्तेसूत्रंचसुद्धम्, ततः को वा विशेषहेतुस्तेषां-कन्दादीनामग्रहणे येन तेन गृहीताः ? इति ॥अत्र सूरि प्रतिवचनमाह[भा.८५४] चोयग! कन्नसुहेहिं, सद्देहि समुच्छितो विसह फासे।
मज्झम्मि अट्ठ विसया, गहिया एवऽट्ट कंदाई। वृ-हे नोदक ! यथा दशवकालिके
कन्नसोक्खेहि सद्देहि, पेमं नाभिनिवेसए।
दारुणं कक्कसं फासं, काएण अहियासए॥ इत्यस्मिन् श्लोके “कर्णसुखैः' सुश्रवैः शब्दैरमूर्छितो भवेत्" इति शब्दविषयोरागः प्रतिषिद्धः, “विषहेत स्पर्श दारुणम्" इत्यनेन तु स्पर्शविषयो द्वेष इति शब्द-रूप-रस-गन्ध-स्पर्शानामिष्टानिष्टरूपतया दशविधानां मध्यादिष्टशब्दा-ऽनिष्टस्पर्शयोराद्यन्तयोरेव सूत्रलाघवार्थं ग्रहणं कृतम्, अन्यथा ह्येवमभिघातव्यं स्यात्
कन्नसोक्खेहि सद्देहि, पेमं नाभिनिवेसए। दारुणं कक्कसं सदं, सोएण अहियासए। चक्खुसोक्खेहि रूवेहिं, पेमं नाभिनिवेसए।
दारुणं कक्कसं रूवं, चक्खुणा अहियासए॥ परम् “आद्यन्तग्रहणेमध्यस्यापि ग्रहणम्" इति न्यायादष्टावपिमध्यवर्त्तिनोऽनिष्टशब्दाद्या इष्टस्पर्शान्ता विषया गृहीता भवन्ति; एवमत्रापि सूत्रंबृहत्तरंमा भूत्' इति हेतोराद्यान्त्ययोरग्रमूलप्रलम्बयोर्ग्रहणेमध्यवर्तिनः कन्दादयोऽष्टावपिगृहीताद्रष्टव्याः। एतेषांमूल-कन्दादीनांदशानामपि मेदानां सुखप्रतिपत्त्यर्थमियं गाथा लिख्यते
__ मूले कंदे खंधे, तया य साले पवाल पत्ते य ।
पुफेफले यबीए, पलंबसुत्तम्मि दस भेया ।। -प्रकारान्तरेण प्रतिवचनमाह - [भा.८५५] अहवा एगग्गहणे, गहणं तज्जातियाण सव्वेसिं ।
तेनऽग्गपलंबेणं, तु सूइया सेसगपलंबा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org