________________
बृहत्कल्प-छेदसूत्रम् -१शृण्वतः श्रवणस्य न च्छदो नाऽपि दाहो नाऽपि पूनम्, अतो ज्ञायतेऽभिधेयादभिधानं भिन्नम्, अन्यथा तादात्यसम्बन्धात् क्षुरादयोऽपि तत्र सन्तीति वदनस्य श्रवणस्य च च्छेदादिप्रसङ्गः।। अभिन्नत्वंनामसम्बद्धत्वम्, तथाच लोकेऽप्यभिन्नशब्दः सम्बद्धवाची व्यवह्रियते, यथा-अयमस्माकं खादन-पानेनाऽभिन्नः, सम्बद्ध इत्यर्थः। ततस्तदेव सम्बद्धत्वं भावयति[भा.५९] जम्हा उ मोयगे अभिहियम्मितत्थेव पच्चओ होइ।
न य होइ सो अणत्ते, तेन अभिन्नं तदत्थातो।। तृ-यस्मान्मोदकेऽभिहिते 'तत्रैव' मोदके प्रत्ययो भवति नाऽन्यत्र । न च 'सः' नियमेन तत्र प्रत्ययः 'अन्यत्वे' असम्बद्धत्वे सति भवति, सम्बन्धाभावतो नियामकाभावेनाऽन्यत्रापि तत्प्रत्यय प्रसक्तेः । तेन' कारणेन ज्ञायते 'तद्' अभिधानम् ‘अर्थादभिन्नम्' अर्थेन सह वाच्यवाचकभावसम्बद्धम् ।। [भा.६०] एक्केक्कमक्खरस्स उ, सप्पज्जाया हवंती इयरे य ।
संबद्धमसंबद्धा, एक्केक्का ते भवे दुविहा ।। वृ-व्यञ्जनस्य यान्यवरामि तस्याक्षरस्यैकैकस्य द्विविधाः पर्यायाः, तद्यथा-स्वपर्यायाः 'इतरे च' परपर्यायाः । तत्र अवर्णस्त्रिधा-ह्रस्वो दीर्घ प्लतश्च, पुनरेकैकस्त्रधा-उदातोऽनुदात्तः स्वरितश्च, पुनरेकैको द्विधा-सानुनासिको निरनुनासिकश्च, एवमष्टादशप्रकारोअवर्ण। उक्तञ्च
ह्रस्व-दीर्घ-प्लुतत्वाच्च, त्रैस्वर्योपनयेन च ।
अनुनासिकभेदाच्च, सङ्ख्यातोऽष्टादशात्मकः ।। एते अवर्णस्य स्वपर्यायाः । तथा ये एकैकाक्षरसंयोगतो द्विद्यक्षरसंयोगत एवं यावन्तो घटन्ते संयोगास्तावत्संयोगवशतो येऽवस्थाविशेषा ये च तत्तदर्थाभिधायकत्वस्वभावस्तेऽपि तस्य स्वपर्यायाः। इतरेच तत्रासन्तः परपर्यायाः। एवमिवर्णादीनामपि स्वपर्यायाः परपर्यायाश्च वक्तव्याः।येऽपिपरपर्यायास्तेऽपि तस्येतिव्यपदिश्यन्ते, व्यवच्छेद्यतया तेषांतद्विशेषकत्वात्, यथा-अयं मे पर इति । 'तेच स्वपर्यायाः परपर्यायायाश्च एकैके द्विविधा भवन्ति तद्यथा-सम्बद्धा असम्बद्धाश्च ॥ एतदेव भावयति[भा.६१] अस्थित्ते संबद्धा, होति अकारस्स पज्जया जे उ।
तेचेव असंबद्धा, नत्थित्तेणं तु सव्वे वि॥ वृ-ये अकारस्य पर्यायाः' स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धा भवन्ति। नास्तित्वेन पुनस्त एव सर्वेऽप्यसम्बद्धाः, तत्र तेषां नास्तित्वाभावात् ॥ [भा.६२] एमेव असंता वि उ, नत्थित्तेणं तु होति संबद्धा।
तेचेव असंबद्धा, अत्थित्तेणं अभावत्ता ।। वृ- “एवमेव' अनेनैव प्रकारेण असन्तः परपर्याया अपि नास्तित्वेन भवन्ति सम्बद्धाः, ते चैव परपर्याया अस्तित्वेनासम्बद्धाः, तेषामस्तित्वस्य तत्राभावत्वात् ।।अत्रैव निदर्शनमाह[भा.६३] घडसद्दे घ-ड-ऽकारा, हवंति संबद्धपज्जया एते।
तेचेव असंबद्धा, हवंति रहसद्दमादीसु ।। वृ-घटशब्देयेधकार-टकारा-ऽकारास्तेषांये पर्यायास्तएतेभवन्तितत्रास्तित्वेनसम्बद्धाः,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only