________________
पीठिका - [भा. ६३ ]
तेषां तत्र विद्यमानत्वात् । त एव घकार-टकारा ऽकारपर्याया रथशब्दादिषु भवन्त्यस्तित्वेनाऽसम्बद्धाः, तेषां तत्राऽभावात् । तदेवमस्तित्वेन स्वपर्यायास्तत्र सम्बद्धाः अन्यत्र चाऽसम्बद्धा उपदर्शिताः । एतदुपदर्शने चैतदर्थादापन्नम्-ते स्वपर्यायास्तत्र नास्तित्वेनाऽसम्बद्धाः, अन्यत्र तु सम्बद्धा । तथा ते रथशब्दस्य स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात्, घटशब्देनाऽसम्बद्धाः, तेषां तत्रासत्त्वात् । त एव च रथशब्दे नास्तित्वेनाऽसम्बद्धाः, घटशब्दे तु सम्बद्धा इति । तदेवं स्वपर्यायाः परपर्यायाश्च प्रत्येकं सम्बद्धा असम्ब असम्बद्धाश्च निदर्शिताः । अधुना स्वपर्यायान दर्शयति[भा. ६४]
२१
संजुत्ता-संजुत्तं, इयं लभते जेसु जेसु अत्थेसु । विनिओगमक्खरं ते, सि होंति सम्भावपज्जाया ॥
वृ- 'इति' एवं घटशब्द - रथशब्दादिगतेन प्रकारेण संयुक्तमसंयुक्तं वा 'अक्षरम्' अकारादिकं यषु येष्वर्थेषु विनियोगं लभते ते तेषां 'सद्भावपर्यायाः' स्वपर्याया भवन्ति । अर्थादिदमायातम्अपरे परपर्याया इति ।। तदेवमभिहितं व्यञ्जनाक्षरम्, तदभिधानाच्चाभिहितं त्रिविधमप्यक्षरम् । तत्र न केवलमप्यक्षरं संज्ञाक्षराद्युच्यते किन्तु ज्ञानमपि । तत्र शिष्यः प्रश्नयति-कियत्प्रमाणं तदक्षरम् ? उच्यते, सर्वाकाशप्रदेशेभ्योऽनन्तगुणम् । कथमेतावत्प्रमाणम् ? उच्यते- इहैकैक आकाशप्रदेशः स्वल्वनन्तैरगुरुलघुपर्यायैः संयुक्तः, ते च सर्वेऽप्यगुरुलघुपर्याया ज्ञानेन ज्ञायन्ते; न च येन स्वभावेनैको ज्ञायते तेनापरोऽपि तयोरेकत्वप्रसङ्गात् किन्त्वन्येन स्वभावेन, ततो यावन्तोऽगुरुलघुपर्यायास्तावन्तो ज्ञानस्वभावाः; उक्तञ्च - जावइय पज्जवा ते, तावइया तेसु नाणभेया वि । इति भवति सर्वाकाशप्रदेशेभ्योऽनन्तगुणम् । आह च बृहद्भाष्यम्अक्खरमुच्चइ नाणं, तं पुन होजाहि किंपमाणं तु ? । भण्णइ अनंतगुणियं, सव्वागासप्पएसेहिं ।। किह होइ अनंतगुणं, सव्वागासप्पदेसरासीतो ? । भन्नइ जं एक्केको, आगासस्सा पदेसो उ ॥ संजुत्तोऽनंतेहिं, अगुरुलघुपज्जवेहिं नियमेण । तेन उ अनंतगुणियं सव्वागासप्पएसेहिं ॥
पुनरपि शिष्यः प्राह- कथमेतदवसीयते 'एकैक आकशप्रदेशोऽनन्तैरगुरुलघुपर्यायैरुपेतः '? उच्यते-इह द्विविधं वस्तु, रूपिद्रव्यमरूपिद्रव्यं च । तत्र रूपिद्रव्यं चतुर्द्धा, तद्यथा-गुरु लघु गुरुलघु अगुरुलघु च । एतदप्युच्यते व्यवहारतः, निश्चयतः पुनर्द्विविधमेव गुरुलघु अगुरुलघु च ।
तथा चाह
।
[ भा. ६५ ] निच्छयतो सव्वगुरुं, सव्वलहुं वा न विज्जते दव्वं । ववहारतो तु जुज्जति, बादरखंधेसु नऽन्नेसु ॥
वृ- 'निश्चयतः' निश्चयनयमतेन नि किञ्चिद् द्रव्यं ‘सर्वगुरु' एकान्तगुरु, यदि स्यादेकान्तगुरु तत एकान्तेनैव पतनधर्मि स्यात्, न च पतति, तस्मान् नविद्यते सर्वगुरु; नाऽपि 'सर्वलघु' एकान्तलघु, यदि स्यादेकान्तलघु ततो न कदाचित् पतति, अथ कदाचित् पतति तस्मात्र सर्वलघ्वपि । 'व्यवहारतः' व्यवहारनयमतेन पुनर्युज्यते सर्वगुरु सर्वलघु च । केषु ? इत्याह- 'बादरस्कन्धेषु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org