________________
पीठिका - [भा. ५४ ]
इति । एवं शेषेन्द्रियेष्वपि भावनीयम् । संज्ञिनां पुनः 'अर्थ एवाक्षरं' अर्थोपलम्भकाल एवाक्षरलाभः, यथा शङ्खशब्दश्रवणकाल एव 'शङ्खशब्दः' इति । 'निश्चये पुनः भजना' 'शङ्खशब्द एवायम्, शार्ङ्गशब्द एवायम्' इति वा निश्चयगमनं स्याद्वा न वा । एवं शेषेन्द्रिययेष्वपि भावनीयम् ॥ गतं लब्ध्यक्षरम्, अधुना व्यञ्जनाक्षरमाह
[भा. ५५]
अत्थाभिवंजगं वंजणक्खरं इच्छितेतरं वदतो । रूवं व पगासेणं, वंजति अत्थो जओ तेणं ।।
वृ- इह यद् विवक्षितं तदेव यदि वदति, यथा 'अश्वं भणिष्यामि' इति तदेव ब्रूते, तदा तद् ईप्सितम् । अन्यद् विवक्षित्वाऽन्यच्चेदुच्चरति तदा तद् 'इतरद्' अनीप्सितम् । ईप्सितमितरद्वा वदतो यद् अर्थाभिव्यञ्जकमभिधानं तद् व्यञ्जनाक्षरम् । अथ कस्मादम व्यञ्जनाक्षरमुच्यते ? नाऽभिधानाक्षरम्? अत आह- 'रूपमिव' घटादिकमिव 'प्रकाशेन' दीपादिना तमसि वर्त्तमानम् 'अर्थ' घटादि 'यतः' यस्माद् 'व्यज्यते' प्रकटीक्रियते 'तेन' कारणेन व्यञ्जनाक्षरमिव्युच्यते ॥ [ भा. ५६ ] तं पुन जहत्थनियतं, अजहत्थं वा वि वंजणं दुविहं । एगमगपरिययं, एमेव य अक्खरेसुं पि ॥
वृ- 'तत् पुनः' व्यञ्जनं द्विविधम्-यथार्थनियमयथार्थं वा । यथार्थनियतं नाम अन्वर्थयुक्तम्, यथा-क्षपयतीति क्षपणः, तपतीति तपन इत्यादि । अयथार्थं यथा-नेन्द्रं गोपयति तथापीन्द्रगोपकः, न पलमश्राति तथापि पलाश इत्यादि । अथवा तद् व्यञ्जनं द्विधा-एकपर्यायमनेकपर्यायं च । एकः पर्यायः - अभिधेयो यस्य तदेकपर्यायम्, यथा-अलोकः स्थण्डिलमित्यादि, अलोकशब्देन ह्यलोकत्वलक्ष एक एव पर्यायोऽभिधीयते, कण्डिलशब्देन स्थण्डिलत्वेमेकमित। अनेके पर्यायाःअभिधेया यस्य तदनेकपर्यायम्, यथा- जीव इति, जीवशब्देन हि जीवोऽप्युच्यते सत्त्वोऽपि प्राण्यपि भूतोऽपि च, जीवादयश्च प्रतिनियतविशेषाः । तथा चोक्तम्
१९
प्राणाद्वि- त्रि- चतुः प्रोक्ताः, भूताश्च तरवः स्मृताः ।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥
ततो भति सामान्येन जीवशब्दस्यानेकपर्यायाभिधायकत्वमिति । एवमेव' एकाSनेकभेदेनाक्षरेष्वपि द्रष्टव्यम् । तद्यथा- द्विविधं व्यञ्जनम्, एकाक्षरमनेकाक्षरं च । एकाक्षरं धीः श्रीरित्यादि, अनेकाक्षरं वीणा लता माला इत्यादि ॥
[भा. ५७]
सक्कय-पाययभासाविनियुत्तं देसतो अनेगविहं । अभिहाणं अभिधेयातो होइ भिन्नं अभिन्नं च ॥
Jain Education International
वृ. अथवा द्विप्रकराम्-संस्कृतभाषाविनिर्युक्तम्, यथा- वक्ष इति, प्राकृतभाषाविनिर्युक्तं च यथा- रोक्खो इति। ‘देशतः' नानादेशानाश्रित्यानेकविधम्, यथा-मगधानाम् ओदनः, लाटानां कूरः, द्रमिलानां चौरः, अन्ध्राणाम् दडाकुरिति । तथा तद् 'अभिधानं' व्यञ्जनाक्षरम् अभिधेयाद् भिन्नमभिन्नं च । तत्र भिन्नं प्रतीतम्, तादात्म्याभावात् । तमेव तादात्म्याभावमाह
भा ९५८] खुर-अग्गि-मोयगोच्चारणम्मि जम्हा उ वयण-सवणाणं । न वि छेदो न वि दाहो, न वि पूरण तेन भिन्नं तु ॥
वृ-यस्मात् क्षुरशब्दोच्चारणेऽग्निशब्दोचारणे मोदकशब्दोच्चारणे च यथाक्रमं वदतो वदनस्य
For Private & Personal Use Only
www.jainelibrary.org