________________
१८
बृहत्कल्प-छेदसूत्रम् -१
पुव्वोवलद्धमत्थे, जस्स उ नामं न संभरति ॥
वृ- अर्थस्य पूर्वं पश्चाञ्चोपलम्भेऽपि सर्वस्य 'अक्षरलब्धि' तद्विषयाऽक्षरलब्धिर्न सम्भवति । कस्य न भवति ? इत्यत आह-यस्याऽर्थे विवक्षितार्थविषयं पूर्वोपलब्धं नाम न संस्मरति ॥ तदेवमुक्ता त्रिविधाऽप्यनुपलब्धि । अधुना साध्क्षतो विपक्षतश्चोपलब्धिमाह[भा. ५०] सारिक्ख-विवक्खेहि य, लभति परोक्खे वि अक्खरं कोइ । सबलेर - बाहुलेरा, जह अहि-नउला य अनुमाणे ।।
वृ- कश्चित् परोक्षेऽप्यर्थे दृश्यमानार्थसाध्श्यादक्षरं लभते, यथा 'शाबलेय- बाहुलेयाः ' शाबलेयबाहुलेयाक्षराणि । तथाहि कश्चित् शाबलेयं दृष्ट्वा तत्साध्श्यात् परोक्षेऽपि बाहुलेये तदक्षराणि लभते 'ईशो बाहुलेयः' इति । तथा कश्चिद्वैपक्ष्येण परोक्षेऽर्थे तदक्षरं लभते, यथाअहिदर्शनान्नकुलानुमाने नुकलदर्शनाद्वा सर्पानुमाने ॥
सम्प्रत्युबयधर्मदर्शनत उभयाक्षरलब्धिमाह
[भा. ५१] एगत्थे उवलद्धे, कम्मि उभयत्थ पच्चओ होइ । अस्सतरि खर-ऽस्साणं, गुल- दहियाणं सिहरिणीए ।
वृ-‘कस्मिंश्चिद्’ उभयधर्मयोगिनि उभयावयवयोगिनि वा एकस्मिन्नर्थे उपलब्धे उभयत्र परोक्षे 'प्रत्ययः' तदक्षरलाभो भवति । यथा 'अश्वतरे' वेगसरे द्दष्टे खरस्याऽश्वस्य च प्रत्ययःतदक्षरलाभः । यथा वा शिखरिण्यामुपलब्धायां गुड - दध्नोः प्रत्ययः-गुड-दध्यक्षरलाभः ।। औपम्यत उपलब्धिमाह
[भा. ५२] पुव्वं पि अनुवलद्धो, घिप्पइ अत्थो उ कोइ ओवम्मा । जह गोरेवं गवयो, किंचिविसेसेण परिहीनो ।।
वृ-पूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते, यथा गौरेवं गवयः, नवरं किञ्चिद्विशेषेण परिहीनः, कम्बलकविरहत इत्यर्थः । अत्रेयं भावना-'यथा गौस्तथा गवयः' इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा 'गवयोऽयम्' इति यदक्षरजातं लभते एषा औपम्योपलब्धिः ॥ इदानीमागमत उपलब्धिमाह
[भा. ५३ ]
अत्तगमाप्पमानेन अक्खरं किंचि अविसयत्थे वि । भवियाऽभविया कुरवो, नारग दियलोय मोक्खो य ॥
वृ- आप्ताः सर्वज्ञाः तव्प्रणीत आगम आप्तागमः, स एव प्रमाणमाप्तागमप्रमाणम्, तेन अविषयेऽप्यर्थे किञ्चिदक्षरं लभते । यथा भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः, चशब्दादन्ये च भावाः । इयमत्र भावना - आप्तागमप्रामाण्यवशात् तस्मिंस्तस्मिन् वस्तुनि योऽक्षरलाभः, यथा भव्य इति अभव्य इति देवकुरव इत्यादि, सा आगमोपलब्धिः ॥ एषा सर्वाऽप्युपलब्धि संज्ञिनां भवति, असंज्ञिनां तु का वार्त्ता ? इत्यत आह
[भा. ५४]
ओसत्रेण असन्नीण अत्थलंभे वि अक्खरं नत्थि ।
अत्थोचिय सन्नीणं, तु अक्खरं निच्छए भयणा ।।
वृ- असंज्ञिनाम् 'अर्थलाभेऽपि' अर्थदर्शनेऽपि 'उत्सन्नेन' एकान्तेन 'नास्त्यक्षरं ' नैवाक्षरलाभः । तथाहि शङ्खशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजायते, यथा 'अयं शङ्खशब्दः’
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org