________________
बृहत्कल्प-छेदसूत्रम् - १-१/१
उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ । पजवसाणे सो वा, होइ पमत्तो अविरओ वा ।। अविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतमः प्रतिपद्यते इत्येके । प्रतिपत्तिक्रमश्चायम्- “अण"त्ति प्रथमतो युगपदन्तर्मुहूर्त्तेनानन्तानुबन्धिनः क्रोध-मान-माया लोभानुपशमयति। ततः ‘दर्शनं’ मिथ्यात्व - सम्यग्मिथ्यात्व- सम्यग्दर्शनभेदात् त्रिविधमपि युगपदुपशमयति । सर्वत्र युगपदुपशमनकालोऽन्तर्मुहूर्त्तप्रमाणो द्रष्टव्यः । ततो यदि पुरुषः प्रारम्भकस्ततः प्रथमं नपुंसकवेदम्, पश्चात् स्त्रीवेदम्, ततो हास्य- रत्य ऽरति-शोक-भय-जुगुप्साषट्कम्, ततः पुरुषवेदम्; अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदम्, पश्चात् पुरुषवेदम्, ततो हास्यादिषट्कम्, ततः स्त्रीवेदम्; अथ नपुंसक एव प्रारम्भकस्ततः प्रथमं स्त्रीवेदम्, पश्चात् पुरुषवेदम्, ततः षट्कम्, ततो नपुंसकवेदम् । तथा 'द्वौ द्वौ' अप्रत्याख्यान - प्रत्यख्यानरूपी क्रोधादिकौ 'एकान्तरितौ' सञ्जवलनक्रोधाद्यन्तरितौ 'सशौ' तुल्यावुपशमय्य सदृशमेवोपशमयति । इयमत्र भावनाअप्रत्याख्यान-प्रत्याख्यानौक्रोधौ क्रोधत्वेन परस्परं सध्शौ युगपदुपशमयति, ततः सञ्जवलनक्रोधमेकाकिनमेव; ततोऽप्रत्याख्यान- प्रत्याख्यानौ मानौ, ततः सञ्जवलनमानम्; ततोऽप्रत्याख्यानप्रत्याख्याने माये, ततः सञ्जवलनमायाम्; ततोऽप्यप्रत्याख्यान-प्रयाख्यानौ लोभौ, ततः सञ्जवलनलोभम् । तं चोपशमयँस्त्रिधा करोति, आद्यौ द्वौ भागौ युगपदुपशमयति, तृतीयं भागं सङ्ख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः सङ्घयेयखण्डानां चरमखण्डमसङ्घयेयानि खण्डानि करोति, ततः समये समये एकेक मुपशमयति । इह च दर्शनसप्तके उपशान्ते सति निवृत्तिवादरः, तत ऊर्ध्वमनिवृत्तिबादरो यावद् लोभस्य द्विचरम सङ्घयेयखण्डम्, चरमसङ्ख्येयखण्डस्य पुनरसङ्घयेयखण्डान्युपशमयत् सूक्ष्मसम्पराय उच्यते ।
एवं समापितोपशम श्रेणीक उपशान्तमोहवीतरागगुणस्थानकमनुभवन् यथाख्यातचारित्री भवति । स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते ततो नियमादनुत्तरविमानवासिषूपपद्यते, श्रेणिप्रच्युतस्य पुनरनियमः अथाबद्धायुस्ततो जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्त्तमुपशमकनिर्ग्रन्थो भूत्वा नियमतः कापि वस्तुनि लुब्धः पुनरप्युदितकषायः श्रेणिप्रतिलोममावर्त्तय देशप्रतिपातेन सर्वप्रतिपात्तेन वा प्रतिपतति, यतो नासौ जघन्यतोऽपि तद्भव एव निश्रेयसपदमश्नुते, उत्कर्षतः पुनर्देशोनापार्द्धपुद्गलपरावर्त्य संसारं संसरति । यत उक्तम्
तम्मि भवे निव्वाणं, न लहइ उक्कोसओ वि संसारं । पोग्गलपरियट्टद्धं, देसूणं कोइ हिंडेज्जा ।।
२२६
अस्यां चोपशमश्रेण्यां प्रविष्टेन येन यद् अनन्तानुबन्ध्यादिकमुपशमितं स उपशमनां प्रतीत्य तेन विप्रमुक्त उच्यते ।। प्ररूपिता उपशमश्रेणि । क्षपक श्रेणिमाह
[भा.८३५] अण ४ मिच्छ ५ मीस ६ सम्म ७, अट्ठ १५ नपुंसि १६ त्थिवेय १७ छक्कं च २३ । पुमवेयं च २४ खवेई, कोहईए अ संजलणे २८ ॥
वृ- इह क्षपकश्रेणिमविरत-देशविरत-प्रमत्ता ऽप्रमत्तसंयतानामन्यतम उत्तमसंहननः प्रशस्तध्यानोपगतमानसः प्रतिपद्यते । तदुक्तं क्षपक श्रेणिप्रक्रमे
पडिवत्तीए अविरय-देस - पमत्ता - ऽपमत्तविरयाणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org