________________
उद्देश : १, मूलं-१, [भा. ८३१]
२२५
असियसयं करियाणं, अकिरियवाईण होइ चुलसीई । अन्नाणी सत्तट्ठी, वेणइयाणं च बत्तीसा ॥ - अपरिमितभेदं तु -
जावइया नयवाया, तावइया चेव होंति परसमया । जावया परसमया, तावइया चेव मिच्छत्ता ॥ एवमनेकविकल्पमपि सामान्यतो मिथ्यात्वशब्देन गृह्यते इति सप्तमो भेदः ७ । वेदस्त्रिविधः स्त्री-पुं- नपुंसकभेदात् । तत्र यत् स्त्रियाः पित्तोदये मधुराभिलाष इव पुंस्यभिलाषो जायते स स्त्रिवेदः, यत् पुनः पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति स पुंवेदः, यत्तु पण्डकस्य पित्त - श्लेष्मोदये मज्जिकाभिलाषवदुभयोरपि स्त्रि- पुंसयोरभिलाषः समुदेति स नपुंसकवेद इति त्रयो ऽप्येक एव भेदः ८ । तथा यदमनोज्ञेषु शब्दादिविषयेषु संयमे वा जीवस्यचित्तोद्वेगः सा अरति ९ । यत् पुनस्तेष्वेव मनोज्ञेषु असंयमे वा रमणं सा रति १० । यत्तु सनिमित्तमनिमित्तं वा हसति तद् हास्यम् ११ । प्रियविप्रयोदिविह्वलचेतोवृत्तिराक्रन्दनादिकं यत् करोति स शोकः १२ । सनिमित्तमनिमित्तं वा यद् बिभेति तद् भयम् १३ । यत् पुनरस्नाना-ऽदन्तपवन मण्डलीभोजना -दिकमपरं वा मृतकलेवर-विष्टादिकं जुगुप्सते सा जुगुप्सा १४ । एष चतुर्दशविधोऽप्याभ्यन्तरग्रन्थ उच्यते । प्रस्तुतयोजनामाह
[भा. ८३२] सावज्रेण विमुक्का, सब्भितर - बाहिरेण गंथेण । निग्गहपरमा य विदू, तेनेव य होंति निग्गंथा ॥
वृ-सावद्यः-सपापः कर्मोपादाननिबन्धनत्वाद् यो ग्रन्थस्तेन साभ्यन्तर- बाह्येन ये मुक्तास्ते निर्ग्रन्था उच्यन्ते, येऽपि चाऽऽन्तरग्रन्थेन न सर्वथा मुक्तास्तेऽपि येन विद्वांसः क्रोधादिदोषवेदिनस्तथा 'निग्रहपरमाः' तन्निर्जयप्रधानाः, तेनैव कारणेन ते निर्ग्रन्था भवन्ति ॥ ISSन्तरग्रन्थमधिकृत्य ये मुक्ता ये चामुक्तास्तदेतदभिधित्सुराह[भा.८३३] केई सव्वविमुक्का, कोहाईएहि केइ भइयव्वा । सेढिदुगं विरएत्ता, जाणसु जो निग्गओ जत्तो ॥
वृ-‘क्रोधादिभिः’ आन्तरग्रन्थैः केचित् 'सर्वविमुक्ताः' सर्वैरपि विप्रमुक्ताः, केचित् पुनः ‘भक्तव्याः’ विकल्पनीयाः, कैश्चिद् मुक्ताः कैश्चिदपि न मुक्ता इत्यभिप्रायः । अत्र शिष्यः प्राहकथं नु नामेदं ज्ञास्यते 'अमी सर्वथा मुक्ता अमी च न मुक्ताः' ? इति उच्यते- 'श्रेणिद्विकम्' उपशमश्रेणि-क्षपकश्रेणिलक्षणं 'विरचय्य' यथोक्तपरिपाट्या स्थापयित्वा ततो जानीहि यः ‘यतः’ क्रोधादेर्निर्गतो अनिर्गतो वेति ।। अथ केयमुपशमश्रेणि ? का वा क्षपक श्रेणि? इत्याशङ्कपनोदाय प्रथमत उपशमश्रेणिमाह
[भा. ८३४]
अण दंस नपुंसि-त्थीवेय च्छक्कं च पुरिसवेयं च ।
दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥
वृ- इहोपशमश्रेणेः प्रारम्भकोऽप्रमत्तसंयतः, समाप्तौ पुनः प्रमत्तसंयतोऽविरतसम्यग्दृष्टिर्वा
भवेत् । यत उक्तम्
18 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org