SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ बृहत्कल्प-छेदसूत्रम् -१-१/१ सम्बद्धं तद् भवेत् 'उभयं' खातोच्छ्रितम् ।। [भा.८२८] घडिएयरंखलु धणं, सणसत्तरसा बिया भवे धन्नं । तण-कट्ठ-तेल्ल-घय-मधु-वत्थाई संचओ बहुहा ।। वृ-यद् घटितम् ‘इतरद् वा' अघटितं सुवर्णादिकं तद् धनमुच्यते । तथा शणं सप्तदशं येषां तानि शणसप्तदशानि बीजानि धान्यं भवेदिति । तानि चामूनि व्रीहिर्यवो मसूरो, गोधूमो मुद्ग-माष-तिल-चणकाः । ___ अणवः प्रियङ्गु-कोद्रवमकुष्ठकाः शालिराढक्यः॥ किञ्चकलाय-कुलत्थौ, शणसप्तदशानि बीजानि । इति । तथातृण-काष्ठतैल-घृत-मधु-वस्त्रादीनाम्आदिशब्दाबुस-पलालादीनांसङ्गहरूपः सञ्चयो बहुधा द्रष्टव्य इति॥ [भा.८२९] सहजायगाइ मित्ता, नाई माया-पिईहि संबद्धा । ससुरकुलं संजोगो, तिन्नि वि मित्तादयो छट्ठो । वृ-सहजातकादयः सुहृदो मित्राणि, आदिग्रहणात् सहवर्द्धितकाः सहपांसुक्रीडितकाः सहदारदर्शिनश्चेति । ज्ञातयो मातृपितृसम्बद्धा-, मातृकुलसम्बद्धाः पितृकुलसम्बद्धाश्चेत्यर्थः । तत्रमातृकुलसम्बद्धाःमातुल-मातामहादयः, पितृकुलसम्बद्धाः पितृव्य-पितामहादयः । श्वसुरकुलं संयोगोऽभिधीयते, किमुक्तं भवति ? -श्वसुरकुलपाक्षिका ये केचित् श्वसुर-श्वसुर-श्वश्रूशालकादयस्तेषां सम्बन्धः संयोग उच्यते । एते मित्रादयस्त्रयोऽपि पक्षाः षष्ठो ग्रन्थः ।। [भा.८३०] जाणं तु आसमाई, पल्लंकग-पीढिगाइ अट्ठमओ। दासाइ नवम दसमो, लोहाइउवक्खरो कुप्पं ॥ वृ- यानमिति जातावेकवचनम्, ततोऽयमर्थ-यानानि पुनरश्चादीनि, आदिशब्दाद् गजवृषभ-रथ-शिबिकादीनि । तथा पल्यङ्कादीनि शयनानि, पीठिकादीनि च आसनानि, एष शयना-ऽऽसनरूपोऽष्टमो ग्रन्थः ।दासादिकः सर्वोऽप्यनुजीविवर्गोनवमो ग्रन्थः । तथालोहादिक उपस्करः कुप्यमुच्यते । तत्र लोहोपस्करो लोहमयकवल्ली-कुद्दालिका-कुठारादिकः ।आदिशब्दाद् मार्तिकोपस्करोघटादिकः, कांस्योपस्करः स्थाल-कच्चोलकादिक इत्यादिकःसर्वोऽपिपरिगृह्यते। एष दशमो ग्रन्थः।।प्ररूपितो दशविधोऽपि बाह्यग्रन्थः, सम्प्रति चतुर्दशविधमभ्यन्तरं ग्रन्थमाह [भा.८३१]कोहो १ माणो २ माया ३, लोभो ४ पेजं ५ तहेव दोसो अ६। मिच्छत्त७ वेद ८ अरइ ९, रइ १० हास ११ सोगो १२ भय १३ दुगुंछा १४॥ वृ-क्रोधो मानो माया लोभश्चेति चत्वारोऽपि प्रतीताः ४ । प्रमेशब्देनाभिष्वङ्गलक्षणो रागोऽभिधीयते ५।दोषशब्देन त्वप्रीतिकलक्षणो द्वेषः ६ । 'मिथ्यात्वम्' अर्हप्रणीततत्वविपरीतावबोधरूपम्। तच्च द्विविधंवा त्रिषष्टयधिकशतत्रयभेदंवाअपरिमितभेदंवा।तत्रानाभिग्रहिकमाभिग्रहिकं चेति द्विविधम् । अनाभिग्रहिकं पृथिव्यादीनाम् । आभिग्रहिकंतुषड्विधम् नत्थि न निच्चो न कुणइ, कयं न वेएइ नत्थि निव्वाणं । नत्थि य मोक्खोवाओ, छब्विह मिच्छत्तऽभिग्गहियं ॥ - त्रिषष्टयधिकशतत्यविधं पुनरिदम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy