________________
२२७
उद्देशकः १, मूलं-१, [भा. ८३६]
अन्नयरो पडिवाइ, सुद्धज्झाणोवगयचित्तो॥ तत्रपूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, शेषास्तु धर्मध्यानोपगता एवेति। प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेनानन्तानुबन्धिनः क्रोधादींश्चत्वारोऽपि युगपत् क्षपयति । तदनन्तभागंतु मिथ्यात्वेप्रक्षिप्य तेन सह मिथ्यात्वं क्षपयति । तस्याप्यनन्तभागं सम्यग्मिथ्यात्वे प्रक्षिप्य तदपि सावशेष क्षपयति । आह किं पुनः कारणंसावशेष क्षपयति? इति, उच्यते-यथा खल्वतिसम्भृतो दावानलो दरदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति एवमसावपि क्षपकस्तीव्रशुभपरिणामत्वात् प्राक्तने कर्मण्यनि-शेषित एवापरं क्षपयितुमारभते । एवं सम्यग्मिथ्यात्वस्यावशेषं सम्यकत्वे प्रक्षिप्य तेन सह सम्यक्त्वं निरवशेषमेव क्षपयति । यदाह चूर्णिकृत्-जंतं सेसं तंसम्मत्ते छुभित्ता निरवसेसंखवेइत्ति।" एतच्च बद्धायुष्कापेक्षं सम्भाव्यते, आवश्यकादौ तमेवाधिकृत्य सम्यक्त्वनिरवशेषक्षपणस्योक्तत्वात् । इह च यदिबद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमते ततो मिथ्यादर्शनोदयतस्तान् पुनरप्यनुचिनोति, मिथ्यात्वे तद्वीजसम्भवात्; क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्; तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूपपद्यते । क्षीणदर्शनसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपद्यते । प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति । तथा चोक्तम्
बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भुञ्जो न खीणम्मि॥ तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे।
उवरयपरिणामो पुण, पच्छा नाणामइ-गईओ ।। सच यदिबद्धायुःप्रतिपद्यते ततो नियमाद्दर्शनसप्तके क्षीणे सत्युपरमते।अबद्धायुष्कः पुनरनुपरत एव समस्तां श्रेणिं समापयति । स च स्वल्पसम्यग्दर्शनावशेष एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं क्षपयितुं युगपदारभते । एतेषां च सङ्कयेयतमं भागंक्षपयन् एताः षोडश प्रकृतीः क्षपयति । तद्यथा-नैरयिकगतिनाम तिर्यग्गतिनाम एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम नरकानुपूर्वीनाम तिर्यगानुपूर्वीनाम अप्रशस्तविहायोगतिनाम स्थावरनाम सूक्ष्नमनाम अपर्याप्तनाम साधारणनाम निद्रानिद्रां प्रचलाप्रचलां सत्यानगृद्धिमिति । ततोऽष्टानां कषायाणामवशेष क्षपयति । ततो नपुंसकवेदम्। ततः स्त्रवेदम् । ततो हास्यादिषट्कम् । ततः पुरुषवेदं त्रिधा कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तुखण्डं सञ्जवलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययंक्रमः । स्त्री-नपुंसकयोः प्तिपत्रोरुपशमश्रेणिन्यायोवक्तव्यः । क्रोधादींश्च सञ्जवलनान्प्रत्येकमन्तर्मुहूर्तेनानेनैव खण्डत्रयरचनान्यायेन क्षपयति । श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तप्रमाण एव द्रष्टव्यः । केवलं बृहत्तरमत्रान्तर्मुहूर्तम्, अन्तर्मुहूर्तानामसङ्खयेयभेदत्वात् । लोभचरमखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथक् पृथक् क्षपयति।इहच क्षीणदर्शनसप्तको निवृत्तिबादरसम्पराय उच्यते, ततऊर्ध्वंमनिवृत्तिबादरसम्परायो यावत् सञ्जवलनलोभस्य द्विचरमसङ्खयेयखण्डम्, चरमसङ्ख्येयखण्डस्यपुनरसङ्ख्येयानिखण्डानि क्षपयन् सूक्ष्मसम्पराय उच्यते, तत ऊर्द्ध क्षीणमोहच्छद्मस्थवीतरागो यथाख्ताचारित्री भवति । ततो यथा कश्चिद् महापुरुथो बाहुभ्यानपारगम्भीरां महानदीं तीर्खा स्ताधमासाद्य क्षणमेकं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org