________________
पीठिका - [भा.७८७]
२११
मिथ्यादृष्टयस्तत्वा-ऽतत्वव्यतिकरविवेकविकला ऐहिकफलार्थमर्थशास्त्र-धनुर्वेदादि यस्य सकाशे शिक्षितवन्तस्तं यावज्जीवं गुरुंप्रतिपद्यमानाः सर्वस्यापिलोकस्य पुरतः श्लाघन्ते, न पुनः कदापि कस्यापिपुरतो निहुवते; सपुनः सर्वज्ञशासनप्रतिपन्नोऽप्यचिन्त्यचिन्तामणिकल्पश्रुतदायकानपि परमगुरून निकुतेइत्यतोऽसौ तेभ्योऽप्यधमत्वादुपहतमति-विज्ञानोऽभिधीयते । एवंविधेशिष्ये न कथयितव्यं श्रुतंवा' सूत्रम् ‘अर्थो वा' तदभिधेयः ।अमुमेवार्थं प्रतिवस्तूपमया द्रढयति- “न मणी" इत्यादि । “कोत्थु"त्ति आर्षस्वात् कौस्तुभो नाम मणि 'शतसहस्र' लक्षमूल्यः ‘भासस्य' शकुन्तोख्यस्य पक्षिणो गलकेनाऽऽविध्यते, अयोग्यत्वात; एवमस्यापि गुरुनिहोतुरत्यन्तापात्रभूतस्य श्रुतरत्नप्रदानमनुचितमिति न विधेयम् ॥गतं निह्नवद्वारम्।अत्रच तिन्तिणिक-चलचित्तगाणङ्गणिक-दुर्बलचारित्रा-ऽऽचार्यपरिभाषि-वामावर्त्त-पिशुना-ऽकृतसामाचारीक-गर्वित-प्रकीर्णनिहविनः एकादशाऽपात्रभूताः शिष्याः, आदिमादृष्टभावोऽप्राप्तः, तरुणधर्मा पुनरव्यक्तः । अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह[भा.७८८] अव्वत्ते अअपत्ते, लहुगा लहुगा य होंति अप्पत्ते ।
लहुगा य दव्वतितिणि, रसतितिणि होति चतुगुरुगा। वृ-अव्यक्तः-तरुणधर्मा तस्य तथा "अपत्ते"त्तिअपात्राणामेकादशसङ्ख्याकानां सूत्रार्थों यदि ददाति तदा चत्वारो लघुकाः । “लहुगा य होति अप्पत्ते" त्ति अप्राप्त-आद्यद्दष्टभावस्तस्य ददातिचत्वारो लघवः । रसतिन्तिणिकस्य' आहारतिन्तिणिकस्य ददाति चत्वारो गुरवः । उपधिशय्यातिन्तिणिकयोर्ददानस्य चत्वारोलघव इत्यनुक्तमप्यत्रावसातव्यम्, निशीथचूर्णावुक्तत्वात्।। [भा.७८९]अंतो बहिं च गुरुगा, आयरिय-गिलाण-बाल बिइअपयं ।
____ आयरियपारिभासिस्स होंतिःचउरो अनुग्घाया। वृ-आहारोपधि-शय्याविषयामन्तर्बहिर्वा संयोजनांकुर्वतश्चत्वारो गुरवः । आचार्य-ग्लानबालादीनामर्थाय द्वितीयपदं भवति, एतदर्थं संयोजनामपि कुर्वन् शुद्ध इत्यर्थः ।आचार्यपरिभाषिणः पुनश्चत्वारोऽनुद्धाताः प्रायश्चित्तम् ।। अथोपसंहरन्नाह[भा.७९०] तम्हा न कहेयव्वं, आयरिएणं तुपवयणरहस्सं।
खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ।। वृ- यस्मादेवं प्रायश्चित्तमभिहितं तस्मात् तिन्तिणिकादीनामाचार्येण 'प्रवचनरहस्यम्' अपवादपदं 'न कथयितव्यम्' न प्ररूपणीयमिति । कथं पुनः कथयितव्यम् ? इत्याह-'क्षेत्रम्' अध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथमतोऽध्वकल्पादिकं प्रवचनरहस्यभूतमपरिणतानामपि कथयितव्यम्, अन्यथा तेषां मार्गे गच्छतां संयमा-ऽऽत्मविराधना स्यात् । एवं 'कालमपि' दुर्भिक्षादिकमागमिष्यन्तमागतंवा ज्ञात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थं प्रकाशयेत्। 'पुरुषं वा' परिणामकलक्षणम् उपलक्षणत्वाद् भावं वा-ग्लान-बाल-वृद्धा-ऽसहिष्णुप्रभृतीनामुपग्रहकरणादिलक्षणं ज्ञात्वा प्रकाशयेद् ‘गुह्यं' छेदश्रुतरहस्यभूतमपवादपदमिति॥
व्याख्यातं “पत्ते अ"त्ति द्वारम् । अथानुज्ञातद्वारमाह[भा.७९१] चउभंगो अणुन्नाए, अननुन्नाए अपढमतो सुद्धो ।
सेसाणं मासलहू, अविनयमाई भवे दोसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org