________________
२१०
बृहत्कल्प-छेदसूत्रम् -१. प्रकीर्णविद्यस्तु सर्वमप्यादेरारभ्य पर्यन्तंयावत्छेदश्रुतमुत्सर्गाऽपवादसहितमपरिणतानांकथयति। विद्याशब्देन चात्राऽखण्डं छेदश्रुतमभिधीयते, प्रकीर्णां विद्या येन स प्रकीर्णविद्य इति ॥अथ द्विविधस्यापि प्रकीर्णव्याकर्तुदोषानाह[भा.७८५] अप्पच्चओ अकित्ती, जिनान ओहाव मइलणा चेव।
दुल्लहबोहीअत्तं, पावंति पइन्नवागरणा।। वृ-अपरिणतादीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु 'अप्रत्ययः' अविश्वासो भवति; पूर्वापरविरुद्धमिदं शास्त्रम्, यत पूर्वं “न कल्पते तालप्रलम्बं प्रतिग्रहीतुम्" इति प्ररूप्य पश्चात् "कल्पते" इत्यनुज्ञायाः प्रतिपादनात; यथा चैतदलीकंतथा सर्वमपि जिनवचनमीद्दशमेवेति। ते चैवं विपरिणताः सन्तः 'जिनानां' तीर्थकृतामकीर्तिं कुर्यु, कुत एषां सर्वज्ञत्वम् ? यैरीशं पूर्वापरव्याहतं भाषितमिति । ततश्च ते “ओहाव"त्ति ‘अवधावनम्' उत्प्रव्रजनं कुर्वीरन् । अथ नोप्रव्रजेयुस्तथापि “मइलण"त्तितेषामद्याप्यपरिणतत्वादपवादपदंश्रुत्वाऽपरिणामकत्वेनातिपरिणामकत्वेन वा शङ्कादिदोषतोज्ञानादीनां मलिनता' मालिन्यस्यादिति।ततश्चैवमप्रत्ययादिकं जनयन्तो दुर्लभबोधिकत्वं प्राप्नुवन्ति, क एते ? इत्याह-'प्रकीर्णव्याकरणाः' प्रविस्तारितच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः प्रकीर्णविद्याश्चेत्यर्थः ।।
व्याख्यातं प्रकीर्णद्वारम् । अथ निह्नवद्वारं विवृणोति[भा.७८६] सुत्त-ऽत्थ-तदुभयाई, जो घेत्तुं निण्हवे तमायरियं ।
लहुया गुरुया अत्थे, गेरुयनायं अबोही य॥ वृ-यः सूत्रा-ऽर्थ-तदुभयानि कस्यचित् पार्श्वे गृहीत्वा तमाचार्य 'निलुते' अपलपति, अपरंकमपि विख्यातगुणमाचार्यमुद्दिशति, अथवा ब्रूयात् मया स्वयमेवाभ्यूह्याभ्यूह्य सकलमपि श्रुतं निर्णीतम्, केवलं तैर्वाचनाचार्यैर्मम दिड्मात्रमेव दत्तमिति । अत्र च यदि सूत्राचार्यं निद्भुते तदाचत्वारोलघकाः, 'अर्थे अर्थदायकमाचार्यनिढुवानस्य चत्वारोगुरुकाः,तदुभयाचार्यमपलपतः तदुभयं प्रायश्चित्तमिति । गेरुकः-परिव्राजकस्तस्य ज्ञातं-दृष्टान्तः । स चायम्
__एगस्सोहावियस्सछुरघरगंविजाएआगासेचिट्टइ।तंचएगोपरिव्वायगोबहूहिउवासनाहिं आराहेऊण तस्स सगासे विजं गिण्हित्ता अन्नत्य गंतुं तिदंडेणं आगासगएण अच्छइ, तओ सो लोगेणंपूइजइ । अन्नया रन्ना पुच्छिओ-भगवं! किं विजाइसओ? उआहुतवाइसओ? भणइविजाइसओ।कओआगमिउ? त्ति। भणइ-हिमवंतेपव्वएफलाहारनामस्समहरिसिस्स सगासाउत्ति भणिएतंतिदंडंखडत्तिपडियं । एस दिळंतो।अयमत्थोवणओ-जहासोण्हावियं विज्जायरियं निण्हवेंतो ओहावणं पत्तो, एवं अन्ने वि अप्पगासं पि वायणायरियं निण्हवेंता इहलोए चेव बहूणं समण-सावगाईणं हीलणिज्जा भवंति देवयाहि य छलिजंति त्ति । तथा "अबोही य"ति परलोके अबोधिफलं कर्म गुरुनिसावकोऽर्जयति । एवंविधस्य न दातव्यम् । यत आह[भा.७८७] उवहयमइ-विनाणे, न कहेयव्वं सुयं व अत्यो वा।
न मणी सयसाहस्सो, आविज्झइ कोत्थु भासस्स ॥ वृ-मतिश्च स्वाभाविकी विज्ञानं च गुरूपदेशजंमति-विज्ञाने, ते उपहते-दूषिते यस्य सः 'उपहतमति-विज्ञानः' गुरुनिहोता । कथम् ? इति चेद् उच्यते-इह तावद् गृहस्था अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org