________________
पीठिका - [भा.७८१]
२०९ इति।पञ्चानां वर्षाणामर्वाग्वर्तमानस्तु “दसाकप्पे"त्ति उपलक्षणत्वाद्दशा-कल्प-व्यवहाराणां तरुणधर्माज्ञातव्यः । 'यस्य वा सूत्रकृताङ्गादेः श्रुतस्य योयावान्कालो व्यवहाराध्ययनेदशमोद्देशके भणितः तस्य तावन्तं कालमसमापयन् तरुणधर्मा भवति । यथा- “कप्पइ चउवासपरियायस्स समणस्स निग्गंथस्स सूअगडं नाम अंगं उद्दिसित्तए" इत्यादि ।
गतं तरुणधर्मद्वारम् । अथ गर्वितद्वारमाह[भा.७८२] पुरिसम्मि दुम्विनीए, विनयविहाणं न किंचि आइक्खे।
न वि दिजइ आभरणं, पलियत्तियकन्न-हत्थस्स ॥ इह यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतोभवन्नुपुलभ्यते, ताशेपुरुषे विनयविधान' कर्मविनयनोपायमाऽऽचारादि श्रुतजातम् 'किञ्चिदपि' स्तोकमात्रमपि 'नाऽऽचक्षीत' न प्रतिपादयेत् । यद्वा विनयः-द्वादशावर्त्तवन्दनकप्रदानादिप्रतिरूपोपचाररूपो विधीयते यस्मिन्नधीयमाने तद् ‘विनयविधानम्' आचारादि श्रुतमेव तद् नाऽऽचक्षीत । कुतो हेतोः? इतिचेद् अत आह-“न वि दिज्जइ" इत्यादि । 'नापि' नैवदीयते 'आभरणं' कुण्डलकङ्कणादिकं परिकर्तितकर्ण-हस्तस्य पुरुषस्य,आविध्यमानस्यापितस्य तदङ्गेशोभाया अलभमानत्वात; एवं श्रुताभरणमपि विनयविकलाङ्गस्य योज्यमानं न शोभां बिभर्ति इति जिनवचनवेदिना तस्य तद् न दातव्यम् ।। अथाऽस्यैव सविशेषमपात्रताख्यापनार्थमाह[भा.७८३] मद्दवकरणं नाणं, तेनेव उजे मदं समुवहति।
ऊणगभायणसरिसा, अगदो वि विसायते तेसिं॥ वृ-मार्दवं-माननिग्रहस्तत्करणं-तत्कारकं ज्ञानं' श्रुतरूपम्, 'तेनैव' ज्ञानेन 'ये' दुर्विदग्धाः 'मदम् अहङ्कारंसमुद्वहन्ति । कथम्भूताः? ऊनकभाजनसद्दशाः असम्पूर्णभृतघटादिभाजनतुल्याः, यथा किल तद् झलझलायते तथैतेऽपि दुरधीतविद्यालवतया निजपाण्डित्यगर्वाध्माता यदपि तदपि लपन्तस्तिष्ठन्ति । तेषाम् ‘अगदोऽपि' विषापहारकमप्यौषधं 'विषायते' विषरूपतया परिणमते श्रुतरूपम् । तथा चैतदर्थसंवादकमेवेदं सूक्तम्
ज्ञानं मद-दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ।
अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते? ॥ गतं गर्वितद्वारम् । अथ प्रकीर्णकद्वारमाह[भा.७८४] सोउं अनभिगताणं, कहेइ अमुगं कहिजई इत्थं ।
एस उ पइन्नपन्नो, पइन्नविज्जो उ सव्वं पि॥ वृ-अर्थमण्डल्यायो राहसिकग्रन्थार्थं श्रुत्वा उत्थितः सन् ‘अनभिगतानाम्' अपरिणतानां लेशोद्देशतः कथयति-यथा 'अमुकं प्रलम्बग्रहणादिकम् ‘अत्र' सूत्रे कल्पनीयतया कथ्यते; एष प्रकीर्णप्रज्ञः ।प्रज्ञाशब्देनेह प्रकर्षेण ज्ञायते उत्सर्गा-ऽपवादतत्त्वमनयेति व्युत्पत्याछेदसूत्रान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा-विक्षिप्ता येन स प्रकीर्णप्रज्ञः । “प्रकीर्णप्रश्नः" ("पइन्नपण्हो"] इतिवापाठः, तत्र चापरिणतैः किमेतद्र हस्यभूतमत्राभिधीयते?' इत्युल्लेखेन पृच्छयत इति प्रश्नः-छेदश्रुतान्तः पाती रहस्यार्थ इत्यर्थः, स प्रकीर्णो येन स प्रकीर्णप्रश्न इति । तथा | 18| 14
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org