________________
२१२
बृहत्कल्प-छेदसूत्रम् -१
स
वृ- अत्रानुज्ञाता ऽननुज्ञातपदाभ्यां चतुर्भङ्गी कार्या, तद्यथा- अनुज्ञातमनुज्ञातो वाचयतीति प्रथमः, अस्य भावना-कश्चित् प्रातीच्छिको गच्छान्तरादागम्य सूत्राध्ययनार्थमुपसम्पन्नः, चाऽऽचार्यैरनुज्ञातः आर्य! उपाध्यायस्य सकाशेऽधीष्वेति; ततः स उपाध्यायस्य समीपे गत्वा ब्रूते - भगवन् ! गुरुभिरहमादिष्टो भवतां पादमूले पठनार्थमिति; तत उपाध्यायेनागत्याचार्या प्रच्छनीयाः, यथा-क्षमाश्रमणाः ! पाठयाम्यहममुकं साधुम् ? इति; ततो गुरुभि 'बाढम्' इत्युक्ते स उपाध्यायेन पाठनीयः; एवंकुर्वन् अनुज्ञातमनुज्ञातो वाचयतीति अभिधीयते, एष प्रथमो भङ्गः शुद्धः । अनुज्ञातमननुज्ञात इति द्वितीयः, तद्भावना-स साधुराचार्यैर्भणितःपठोपाध्यायान्तिके, स चैवमादिष्टः पठितुमुपस्थित उपाध्यायसन्निधौ, स उपाध्यायो यद्याचार्यानपृष्टा तं पाठयति तत उपाध्यायस्य मासलघु । अननुज्ञातमनुज्ञात इति तृतीयः, अत्राचार्यैरुपाध्यायस्तस्य साधोः शृण्वतः सन्दिष्टः- आर्य ! पाठयेरमुं साधुमिति, न पुनरितरः सन्दिष्टः, ततः स उपस्थितः सनुपाध्यायेन प्रश्ननीयः- सौम्य ! क्षमाश्रमणैः सन्दिष्टस्त्वम् ? नवा ? इति स प्रतिब्रूयात्- 'मया युष्माकमादेशो दीयमानः श्रुतो न पुनरहं सन्दिष्टः' इत्युक्ते यद्युपाध्यायः पाठयति तदा द्वयोरप्यध्यापका-ऽध्यायकयोर्मासलघुः अथ न पाठयति तत उपाध्यायः शुद्धः । अननुज्ञातमननुज्ञातो वाचयतीति चतुर्थो भङ्गः, अत्र चोपाध्यायोऽप्यननुज्ञातः शिष्योऽप्यननुज्ञात इति कृत्वा द्वयोरपि मासलघु । अत एवाह- 'शेषेषु' प्रथमभङ्गव्यतिरिक्तेषु भङ्गेषु मासलघु । गाथायां प्राकृतत्वात् सप्तम्यर्थे षष्ठी । अविनयादयश्च दोषा भवन्ति, आदिशब्दाद् अनवस्थाअन्येषामपि यद्दच्छ्याऽध्ययना-ऽध्यापनलक्षणा इत्यादयो दोषाः परिगृह्यन्ते ॥
गतमनुज्ञातद्वारम् । अथ भावतः परिणामक इति द्वारं व्याख्यायते-अत्र च भावग्रहणाद् द्रव्य-क्षेत्र - काला अपि गृहीता द्रष्टव्याः, परिणामकप्रकमाच्चाऽपरिणामका ऽतिपरिणामकावपि व्याख्येयाविति चेतसि व्यवस्थाप्य सूरिरिमां निर्युक्तिगाथामाह
[भा. ७९२] परिणाम अपरिणामे, अइपरिणाम पडिसेह चरिमदुए । अंबाईदिट्टंतो, कहणा य इमेहि ठाणेहिं ॥
वृ- परिणामका - ऽपरिणामका - ऽतिपरिणामकानां प्ररूपणा कर्त्तव्या । प्रतिषेधः 'चरमद्विकस्य' अपरिणामका ऽतिपरिणामकयुगलस्य कर्त्तव्यः, अनयोश्छेदश्रुतं न दातव्यमिति भावः। एषां च त्रयाणामपि परीक्षार्थमाम्रादिद्दष्टान्तो वक्तव्यः, आदिशब्दाद् वृक्षमाणैः ‘स्थानैः’ प्रकारैराचार्येण कर्त्तव्येति ॥ अथैनामेव गाथां विवृणोति
[भा. ७९३] जो दव्व-खेत्तकय-काल-भावओ जं जहा जिनक्खायं । तं तह सद्दहमाणं, जाणसु परिणामयं साधुं ॥
वृ- अत्र "तुलादण्डमध्यग्रहण" न्यायेन कृतशब्दो मध्येऽभिहितोऽपि सर्वत्रापि सम्बध्यते। यः कश्चिद् द्रव्यकृतं क्षेत्रकृतं कालकृतं भावकृतम्, द्रव्यादिभिर्भेदैः सूत्रे विहितमित्यर्थः, यद् वस्तु 'यथा' येनोत्सर्गा-ऽपवादरूपेण प्रकारेण जिनैराख्यातं तत् तथा श्रद्दधाति, तमेवं 'श्रद्दधानं ' रोचयन्तं जानीहि परिणामकं साधुम् । इयमत्र भावना-द्रव्यतः सचित्ता - ऽचित्तमिश्राणि द्रव्याणि या कार्ये कल्पन्ते न वा, क्षेत्रतोऽध्वनि वा जनपदे वा यद् यथाऽध्वकल्पादिकमाचारणीयम्, या ग् विधिः । तदेवं सर्वमपि श्रद्दधानो यथावसरं प्रयुञ्जानश्च परिणामको ज्ञातव्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org