________________
पीठिका- [भा.७४६]
१९९
आचाम्लमपरस्मिन्निर्विकृतिकं करोतीति भावः । तथा विकृत्या 'मेक्षितमपि' खरण्टितमप्यसौ वर्जयति । केचित् पुनराचार्या ब्रुवते-‘यावत्' यत्परिमाणं श्रुतमसावधीते तावदुद्दिशेत्, यदि मेघावितया द्वे त्रीणि चत्वारि भूरितराणि वा अध्ययनान्यागमयति ततस्तानि सर्वाण्युद्दिश्यन्ते, न किश्चद्दोष इति भावः ।। व्याख्यातं “कालमसज्झाय"त्ति पदद्वयम् ।
अथ “अवक्खेवे"त्ति पदं विवृण्वन्नाह[भा.७४७] आहारे उवकरणे, पडिलेहण लेव खित्तपडिलेहा ।
अप्पाहारो परिहार मोअजह अप्पनिदो अ॥ वृ-तस्योत्सारकल्पे कर्तुमारब्धे आहारग्रहणे उपकरणस्य प्रत्युपेक्षणे क्षेत्रप्रत्युपेक्षां च व्याक्षेपो न कर्त्तव्यः । अल्पाहारश्च यथा स भवति तथा कार्यम् । 'परिहारः' संज्ञा 'मोकः' कायिकी तयोः खल्पताऽल्पाहारतायां भवति । यथा चाऽसावल्पनिद्रोभवति तथा कर्तव्यिमिति। एषा सङ्ग्रहगाथा ।। अथैनाभेव प्रतिपदं विवृणोति[भा.७४८] हिंडाविंति न वाणं, अहवा अन्नट्ठया न सो अडइ ।
पेहिति व से उवहिं, पेदेइ व सो न अन्नेसि ॥ वृ."णं" इति तमुत्सारकल्पिकमाचार्या भिक्षां न हिण्डापयन्ति । वाशब्दस्यानुक्तसमुञ्जयार्थत्वात् संस्तरणे सतीति द्रष्टव्यम् । यदि पुनरसंस्तरणं तदा, 'अथवा' इति संस्तरणापेक्षयाऽसंस्तरणस्य प्रकारान्तस्ताद्योतकः, 'अन्यार्थम्' अन्येषाम्-आचार्य-ग्लान-बाल-वृद्धादीनामर्थाय नासावुत्सारकल्पिकः पर्यटति, यावन्मात्रमाहास्मात्मना भुङ्क्ते तावन्मात्रमेवाऽऽनयतीत्यर्थः । तथा प्रेक्षन्तेवा' प्रत्युपेक्षन्ते "से" तस्य-उत्सारकल्पिकस्योपधिं शेषसाधवः । “स वा' उत्सारकल्पिको न 'अन्येषाम्' आचार्य-क्षपकादीनामुपधिं प्रत्युपेक्षते । सर्वत्र 'मा भूदध्ययनव्याघातः' इति योज्यम् ॥ [भा.७४९] एमेव लेवगहणं, लिंपइ वा अप्पणो न अन्नस्स।
खेत्तं च न पेहावे, न यावि तेसोवहिं पेहे ॥ वृ- एवमेव लेपग्रहणम् उपलक्षणत्वाद् लेपनमपि पात्रस्य तस्य निमित्तमन्यैः साधुभिः कर्तव्यम् । अथ शेषसाधवः कुतोऽपि हेतोः अक्षणिकास्ततः स आत्मन एव पात्राणि लिम्पति नान्यस्य साधोः । क्षेत्रं च तेन 'न प्रेक्षापयेत्' क्षेत्रप्रत्युपेक्षणार्थं तं न प्रहिणुयादित्यर्थः । न चाप्यसावुत्सारकल्पिकः 'तेषा' क्षेत्रप्रत्युपेक्षकाणामुपधिं प्रत्युपेक्षेत॥ [भा.७५०] दिति पनीयाहारं, न य बहुगंमा हु जग्गतोऽजिन्न ।
मोआइनिसग्गेसु अ, बहुओ मा होञ्ज पलिमंथो॥ वृ. 'प्रणीतं' स्निग्ध-मधुरमाहारं परमात्र-शर्करादिकं तस्य गुरवः प्रयच्छन्ति, सुखेनैवाहर्निशमपि दृष्टिवादादिसूत्रार्थानुप्रेक्षानिमित्तमिति भावः । तमपि प्रणीतं 'न च' नैव बहुकं किन्तु स्वल्पम्, कुतः ? इत्याह-मा भूत् सूत्रार्थनिमित्तं रजन्यामपि जाग्रतोऽजीणिमिति । रुक्षाहारभोजिनश्च ‘बहुशः' बहून् वारान् ‘मोकादिनिसर्गेषु च' प्रश्रवण-संज्ञादिव्युत्सर्गेषु विधीयमानेषु 'परिमन्थः' सूत्रार्थव्याघातो मा भूदिति कृत्वा प्रणीतं दीयते । अल्पा च निद्रा स्वल्पप्रणीताहारभोजिनःप्रायो भवतीत्यल्पनिद्राद्वारमपिव्याख्यातमवसातव्यम्। इत्थमुत्सारकल्पे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org