________________
२००
बृहत्कल्प-छेदसूत्रम् - १
समापिते सति विवक्षितं वस्त्रोत्पादनादि कार्यपूर्वोक्रविधिना कार्यते ।। तदेवं व्याख्यातमानुषङ्गिकमुत्सारकल्पिकद्वारम् । अथाचञ्चलद्वारम् । तत्राऽचञ्चलोऽनुयोगं श्रोतुर्महति न चञ्चल इति चञ्जलखरूपं तावदाह
[भा. ७५१] गइ-ठाण-भास भावे, लहुओ मसो उ होइ एक्केके । आणाइणो य दोसा, विराहणां संजमाऽऽयाए ।
वृ- चञ्चलचतुर्द्धा । तद्यथा - गतिचञ्चलः स्थानचञ्चलो भाषाचञ्चलो भावचञ्चलश्च । एतेषामेकैकस्मिन् लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, विराधना संयमे आत्मनि च । तत्र च संयमविराधना गतिचञ्चलस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमर्दनम् । आत्मविराधना प्रपतन-प्रस्खलन - देवताच्छलनीदिका । यद्वा तं त्वरितगामिनं दृष्ट्वा द्वितीयः साधुः प्रतिनोदनां दद्यात्- 'किमेवं त्वरितं गच्छसि ? न कल्पते साधूनामेवं गन्तुम्' इत्याद्युक्ते प्रकोपनतया असङ्खडकरणेऽस्थिमङ्गादयो दोषाः । एवं स्थानचञ्चलादिष्वप्युपयुज्य आत्मसंयमविराधने वक्तव्ये ॥ अथ गति-स्थानचञ्चलौ तावदाह
[भा. ७५२] दावद्दविओ गइचंचलो उ ठाणचवलो इमो तिविहो । कुड्डा सई फुसइव, भमइ व पाए व विच्छुभइ ॥
,
वृ- इह द्रवशब्दो द्रुतार्थवाचकः, ततः 'द्रावद्रविकः' नाम द्रुतद्रुतगामी सगतिचञ्चलो भण्यते । स्थानचञ्चलः पुनरयं त्रिविधः तद्याथा -यो निषन्नः सन् पृष्ठ- बाहु-कर-चरणादिभिः कुडयम् आदिशब्दात् स्तम्मादिकम् 'असकृद्' अनेकशः स्पृशति १, वाशब्द उत्तरापेक्षया विकल्पार्थः, यो वा निपन्न एवेतस्ततो भ्राम्यति २, पादौ वा 'विक्षिपति' पुनः पुनः सङ्कोचयति प्रसारयति चेत्यर्थः ३ || भाषाचपलमाह
[भा. ७५३] भासाचपलो चउहा, अस त्ति अलियं असोहणं वा वि । असभाजोग्गमसब्मं, अणूहिउं तं तु असमिक्खं ॥
वृ-भाषाचपलश्चतुर्धा असठप्रलापी असभ्यप्रलापी असमीक्षितप्रलापी अदेशकालप्रलापी च । तत्रासत् प्रलपितुं शीलमस्येत्यसठप्रलापी । अथासदिति कोऽर्थ ? इत्याह- असदिति शब्देनालीकमशोभनं वाऽभिधीयते । तत्रालीकं साधुमसाधुं ब्रवीति, असाधुं साधुमित्यादि । अशोभनं गर्वादिदूषितं वचनम् । तथा असभायोग्यमसम्यमभिधीयेते, इह सभा - एकत्रीपविष्टशिष्टरुषसमुदायः, तथा चोक्तम्
धम्म- ऽत्थसत्थकुसला, सभासया जत्थसा सभा नाम । जा पुन अविहिपलुट्टा, बुहेहि सा भन्नए मेली ॥
तस्याः सभाया योग्यं यद् वचनं तत् सभ्यम्, तद्विपरीतमसभ्यम्, तच्च 'दास ! चण्डाल !' इत्यादिकं जकार-मकारादिवाक्यरूपं वा, तत् प्रलपितुं शीलमस्येत्यसभ्यप्रलापी । 'अनूहित्वा' अविचार्य 'किमिदं पूर्वापरविरुद्धम् ? किंवा इह-परलोकबाधकम् ?' इत्यादि अविमृश्य यद् वदति तत्तु वचनमसमीक्षितमुच्यते, तत्प्रलपनशीलोऽसमीक्षितप्रलापी ॥
अथादेशकालप्रलापिनमाह
[भा. ७५४] कज्जविवत्तिं दद्धुं भणाइ पुव्विं भए उ विन्नायं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org