________________
१९८
बृहत्कल्प-छेदसूत्रम् -१
प्रथमायामप्युत्पादयेत्।अथ वहवो गृहस्था द्रष्टव्या महताच कष्टेन ते श्रद्धांग्राह्यन्ते ततो द्वयोरपि पौरुष्योः सर्वासु वापौरुषीषुपर्यटति । यद्यपरे गीतार्थास्तस्य लब्धि नोपध्रन्ति तदा सतैः सहित एवोत्पादयेद् वा वस्त्राणि, प्रभावयेद् वा दानधर्म गृहिणां पुरतः । यथा--ईशः साधूनां धर्म, न कल्पतेअमीषांभगवतामुद्रमोत्पादनैषणादोषदुष्टं पिण्ड-शय्या-वस्त्र-पात्रचतुष्टयंग्रहीतुम्, तदभीषां वस्त्रादावुपयोज्यमाने महती कर्मनिजरेत्यादि । अथ ते गीतार्थास्तस्य लब्धिमुपहन्युस्ततस्तैः 'असहितोऽपि' एकाकी उत्पादयतु वा प्रभावयतु वा, न कश्चिद्दोषः ।। इत्यं तावद् वस्त्रादीनां कल्पिको भवत्विति कृत्वा यथा आचार उत्सार्यते तथा प्रतिपादितम् । अथ दृष्टिवादो येन कारणेनोत्सार्यते तत्प्रतिपादयति[भा.७४४] कालियसुआनुओगम्मि गंडियाणं समोयरणहेउं ।
उस्सारिति सुविहिया, भूयावायं न अन्नेणं ।। वृ-इह योधर्मकथालब्धिसम्पन्नः परमद्यापिस्वल्पपर्यायत्वाद्दष्टिवादंपठितुमप्राप्तस्तस्य कालिकश्रुतानुयोगेन धर्मकथांकुर्वाणस्य गण्डिकाः-कुलकर-तीर्थकरगण्डिकादयोद्दष्टिवादान्तर्गता उपयुज्यन्त इति तासां गण्डिकानां कालिकश्रुतानुयोगे समवतारणाहेतोरुद्देश-समुद्देशादिविधि विना न कल्पते तासामध्ययनादिकमिति कृत्वा ‘सुविहिताः' शोभनविहितानुष्ठाना आचार्या 'भूतवाद' दृष्टिवादमुत्सारयन्ति, न 'अन्येन' 'वाचको भूयात्' इत्यादिनाकारणेन ॥ तदेवमाचारो दृष्टिवादश्चयथोत्सार्यते तथाऽमिहितम्, बाहुल्येनानयोरेवोत्सारणीयत्वात् ; अत एवोक्तं पूर्वम्“आयारदिट्ठिवायत्थजाणए"त्ति ।अथ “कालमसज्झायऽवक्खेवे"त्तियत् प्राक् पदत्रयमुक्तं तत्राऽऽद्य पदद्वयं तावद् विवृणोति[भा.७४५] सज्झायमसज्झाए, सुद्धासुद्धे व उद्दिसे काले।
दो दो अअनोएसुं, ओएसु उ अंतिमं एकं॥ वृ-तस्योत्सारकल्पे क्रियमाणे स्वाध्यायिके अखाध्यायिके वा शुद्धे वा काले विवक्षितश्रुतमुद्दिशेत्, “सर्व वाक्यं सावधारणं भवति" इति न्यायादुद्दिशेदेव, न व्याधातं कुर्यात् । केन विधिना ? इत्यत आह--“दो दो अ अनोएसुं" त्ति ओजःशब्देन विषममुच्यते, तद्विपरीता अनोजसः-समा द्वि-चतुः-षडादय उद्देशका यत्रोध्ययने तत्र अनोजस्सु उद्देशकेषु दिने दिने द्वौ द्वावुद्देशकावुद्दिशेत् । कथम्? इतिचे उच्यते-प्रथमायां पौरुष्यांप्रथममुद्देशकमुद्दिश्यसमुद्दिश्य च द्वितीय उद्दिश्यते, द्वितीयस्यामुभयोरप्युद्देशकयोः तस्य अनुयोगो दीयते, ततश्चरमपौरुष्यां प्रथममुद्देशकमनुज्ञाय द्वितीयोद्देशकः समुद्दिश्यते अनुज्ञायते चेति चूर्णिलिखिता सामाचारी। तथा 'ओजस्सु त्रि-पञ्ज-सप्तादिसङ्गखकेषु विषमेषूद्देशकेषु अन्तिममुद्देशकमेवोद्दिशेत्, यथा शस्त्रपरिज्ञाध्येयने । तथाहि-तत्र सप्तोद्देशकाः, तेषु च त्रिभिर्दिवसैः षडुद्देशकानुद्दिश्य चतुर्थे दिवसे एक एव अवशिष्यमाणः सप्तम उद्देशक उद्दिश्यते । स च प्रथमपौरुष्यामुद्दिश्य समुद्दिश्य चरमायामनुज्ञायते॥ [भा.७४६] एगंतरमायंबिल, विगईए मक्खियं पि वजेति ।
जावइअंच अहिज्जइ, तावइयं उद्दिसे केइ ।। वृ- तथा 'एकान्तरम्' एकदिवसान्तरितमाचाम्लमसौ करोति, एकस्मिन् दिवसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org