________________
१९४
बृहत्कल्प-छेदसूत्रम् -१
यथाक्रमं दोषान् गुणाँश्च ज्ञात्वा 'उभयविशेषविधिज्ञः ' क्रमा-ऽक्रमाध्ययनगुण-दोषविभागवेदी आचार्य शिष्यो वा को नामोत्सारकल्पस्य करणेन कारापणेन वा आत्मनो वञ्चनम् 'अभ्युपेयाद्' अङ्गीकुर्यात् ? न कश्चिदित्यर्थः । यतश्चैवमतोऽनुपयोगित्वाद् नास्त्युत्सारकल्पिक इति ॥ अत्र पुनरपि परः प्राह
[भा. ७२९] जइ नत्थि कओ नामं, असइ हु अत्थे न होइ अभिहाणं । तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा ॥
वृ- यदि नास्त्युत्सारकल्पिकः ततः कुतोऽस्य 'नाम' अभिधानमिदमायातम् ? (न कुतश्चिदित्यर्थः) । अनेन प्रतिज्ञार्थ सूचितः । कुतः ? इत्याह- 'असति' अविद्यमाने 'अ' अभिधेये हुशब्दस्य हेत्वर्थवाचकत्वाद् यस्मान्न भवत्यभिधानं किन्तु सत्येवेति । अनेन च हेत्वर्थ उपात्तः । यतश्चैवं तस्मात् 'तस्य' अर्थस्य प्रसिद्धिरत्राभिधानप्रसिद्धित एव 'सिद्धा' प्रतिष्ठितेति निगमनार्थ । दृष्टान्तोपनयौ स्वयमेवाभ्य॒ह्य वाच्यौ । अत्र प्रयोगः - अस्त्युत्सारकल्पिकः, अभिधानवत्त्वात्, घटादिवत्, यद् यद् अभिधानवत् तत् तद् अस्ति, यथा घटपटादि, अभिधानवच्चेदम्, तस्मादस्तीति ॥ इत्थं परेण स्वपक्षे समर्थिते सति प्रतिविधीयते भो भद्र मुग्धप्रमाणिक ! अनैकान्तिकोऽयं भवता हेतुरुपन्यस्तः । तथा चाह
[भा. ७३०] जइ सव्वं वि य नामं, सअत्थगं होज्ज तो भवे दोसो । जम्हा अत्थगत्ते, भजियं तम्हा अनेगंतो ॥
वृ-यदि सर्वमपि नाम सार्थकं भवेत् ततो भवेदस्माकं 'दोषः' उत्सारकल्पिकस्यास्तित्वापत्तिलक्षणः । यस्मात् पुनः सार्थकत्वे नाम 'भक्तं ' विकल्पितम्, स्यात् सार्थकं स्यान्निर्थकमिति भावः । तत्र सार्थकं जीवा-ऽजीवादिकम्, निरर्थं खरविषाणा ऽऽकाशकुसुम- कूर्मरोमवन्ध्यापुत्रादिकम् । यत एवं तस्मादनेकान्तोऽयम्-यदसद्भूतेऽर्थे न भवत्यभिधानम् । इदमत्र तात्पर्यम्अभिधानस्य भावाऽभावयोरुभयोरपि सद्भावादभिधानवत्त्वलक्षणो हेतुर्यथा उत्सारकल्पिकस्यास्तित्वं साधयति तथा नास्तित्वमपि साधयति, उभयत्रापि साधारणत्वात्; अतः साधारणरूपानैकान्तिकदोषदुष्टोऽयं हेतुरिति ॥
इत्थं व्यभिचरितपक्षतया विलक्षीभूतः परः परित्यज्य यच्छाजल्पमाचार्यवचनेव प्रमाणीकुर्वन्नित्थमाह-भगवन्! अभ्युपगतं मयाऽनन्तरोक्तयुक्तितोऽभिधानस्य सार्थकत्वमनर्थकं चेति, परमिदमुत्सारकल्पिकाभिधानं किं सार्थकम् ? आहोखिद् निरर्थकम् ? इति विवर्तते संशयावर्त्तगर्त्तायामस्माकं चेतः, तदिदानीमुद्रियतां निजवाग्वरत्रयेति उच्यते
[भा. ७३१] निक्कारणम्मि नामं, पि निच्छिमो इच्छिमो अ कज्जम्मि । उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु ॥
वृ- वत्स ! 'निष्कारणे' कारणाभावे नामापि नेच्छामो वयम् किं पुनरर्थम् ? । 'कार्ये' प्रयोजने तु प्राप्ते इच्छाम उत्सारकल्पिकस्य नामाप्यर्थमपि । 'तत्तु' कारणं हे नोदक ! 'शृणु' निशमय ॥ तत्र तिष्ठतु तावत् कारणम्, कर्तुरधीनाः सर्वा अपिक्रिया इति ज्ञापनार्थं प्रथमत
उत्सारकारकमाह
Jain Education Inte[भा.७३२] आयार- दिट्ठिवायत्थजाणए पुरिस-कारणविहिन्नू ।
-
www.jainelibrary.org