________________
पीठिका - [भा. ७२५]
१९३
तेऽप्याचार्या एवंविधा एव भविष्यन्तीत्यात्मा परित्यक्तः । तथा प्रवचनमपि तेनाऽऽचार्येण परित्यक्तम् । कथम् ? इत्याह श्रुतस्योत्सारकल्पवशादनधीयमानस्य व्यवच्छेदः प्राप्नोति श्रुते च व्यवच्छिद्यमाने ज्ञानाभेव च दर्शन-चारित्रयोरप्यभावात् तीर्थस्यापि व्यवच्छेदः प्राप्नोति ॥ यदि नाम तीर्थं व्यवच्छिद्यते ततः को दोषः ? इत्याह
[भा. ७२६ ] पवयणवोच्छेए वट्टमाणो जिनवयणबाहिरमईओ । बंधइ कम्मरय-मलं, जर मरणमणंतयं घोरं ।
वृ- प्रवचनं तीर्थं तस्य व्यवच्छेदे हेतुरूपतया वर्त्तमानः, कथम्भूतोऽसौ ? इत्याह'जिनवचनबाह्यमतिकः' सर्वज्ञशासनबहिर्मुखशेमुषीकः, न खल्वनीध्शस्य प्रवचनव्यवच्छेदं कर्त्तुं मतिरुत्सहते, स एवम्भूतो बघ्नाति 'कर्मरजो मलं' रजः शब्देन बद्धावस्थं मलशब्देन निकाचितावस्थं कर्म परिगृह्यते, जश्च मलश्चेति रजो - मलम्, कर्मैव रजोमलं कर्मरजो-मलम्, निकाचिता-ऽनिकाचितावस्थं कर्मं यथाध्यवसायस्थानमनुबध्नातीत्यर्थः । कथम्भूतम् ? अनन्तानि जरा-मरणानि यस्मात् तद् अनन्तजरा-मरणम्, गाथायां प्राकृतत्वादनन्तशब्दस्य परनिपातः, 'घोरं रौद्रं शारीर-मानसदुःखोपनिपातनिबन्धनत्वादिति । तथा षडजीवनिकायानप्यगीतार्थतयाऽसौ विराधयतीति जीवनिकाया अपि तेनोत्सारकेण परित्यक्ता अवसातव्याः । यत एते दोषास्ततो नोत्सारणीयम् ॥ अथ क्रमेणैवाधीयमाने सूत्रे के गुणाः ? उच्यते
[भा. ७२७] आणा विकोवणा बुज्झणा य उवओग निजरा गहणं । गुरुवास जोग सुसूसाय कमसो अहिजंते ॥
वृ- 'क्रमशः ' क्रमेणाधीयमानेऽध्याप्यमाने च सूत्रे एते गुणाः । तद्यथा आज्ञा तीर्थकृतां शिष्येणाऽऽचार्येण चाऽऽराधिता भवति । “विकोवण"त्ति योगोद्वहनविधौ गच्छसामाचार्यां च 'विकोपना' व्युत्पादना शिष्यस्य कृता भवति; ततश्च स्वयं सामाचारीवैतथ्यं न करोति, अपरान् कुर्वतो निवारयति । तथा गच्छमध्ये द्वितीयपौरुष्यामनुयोगः प्रवर्त्तते तदाकर्णनाद् मन्दबुद्धेरपि 'बोधनं' जीवा - ऽजीवादितत्त्वेषु प्रबुद्धता सम्पद्यते । बुध्यमानस्य च श्रुते निरन्तरमुपयोगो जायते । निरन्तरोपयुक्तस्य च महती निर्जरा, प्रतिसमयसङ्घयेयभवोपात्तकर्मपरमाणुपटलापगमात् । उक्तञ्चकम्ममसंखेज्जभवं, खवेइ अणुसमयमेव आउत्तो ।
अन्नयरम्मि वि जोगे, सज्झायम्मी विसेसेणं ॥
नित्योपयुक्तस्य च शीघ्रं सूत्रार्थयोर्ग्रहणं भवति । तथा गुरुवासेन गुरुकुलवासेन सार्ददं योगः-सम्बन्धो भवति, अन्यथा क्रमेण सूत्रार्थाध्ययनायोगात् । यद्वा पदद्वयमिदं पार्थक्येन व्याख्यायते - गुरूणामन्तिके वासो गुरुवासः स सेवितो भवति, योगाश्च विधिवदाराधिता भवन्ति । आचार्यादीनां शुश्रूषा विनय- वैयावृत्यादिना कृता भवति । यत एते गुणास्ततः क्रमेणैवाध्येतव्यम् ।। उपसंहरन्नाह
"
[भा. ७२८] इय दोस- गुणे नाउं उक्कम-कमओ अहिज्जमाणाणं । उभयविसेसविहिन्नू को वंचणमब्भुवेज्जाहि ॥
वृ- इतिशब्द एवमर्थे । एवमुत्क्रमतः क्रमतश्चाधीयानानाम् उपलक्षणत्वादध्यापयतां च
18 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org