________________
पीठिका - [भा. ७३२]
संविग्गमपरितंते, अरिहइ उस्सारणं काउं ॥
वृ- आचारः- प्रथममङ्गं दृष्टिवादः -चरं तयोरर्थं जानातीत्याचार - दृष्टिवादार्थज्ञः । इहाऽऽचारष्टिवादग्रहणं वक्ष्यमाणकारणैरनयोरेवोत्सारणीयत्वादित्येवमर्थम् । “पुरिसकारणविहिन्नू' इति पुरुष- कारणविधिज्ञो नाम 'किमयं पुरुष उत्सारकल्पमर्हति ? नवा ? येन च कारणेनोत्सार्यते तदस्ति ? न वा ? ' इत्येवंविधविधिवेदी तथा 'संविग्नः " मोक्षाभिलाषी ‘अपरितान्तः' सूत्रार्थग्राहणायामहोरात्रमप्यपरिश्रान्त एवंविध उत्सारणं कर्तुमर्हति, एवंगुणोपेत एवोत्सारकल्पं करोतीत्यर्थः ॥ अथ यस्योत्सारकल्पः क्रियते तस्य गुणानाह
[भा. ७३३]
अभिगए पडिबद्धे, संविग्गे अ सलद्धिए । अवट्ठिए अ मेहावी, पिबुज्झी जो अकारए ॥
वृ- अभिगतः प्रतिबद्धः संविग्नश्च सलब्धिकः अवस्थितश्च मेधावी प्रतिबोधी योगकारकः, ईग्गुणोपेत उत्सारकल्पयोग्य इति नियुक्तिश्लोकमासार्थ ।। अथैनमेव विवृणोति[भा. ७३४]सम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा । सज्झाए पडिबद्धो, गुरू नीएल्लएसुं वा ॥
१९५
वृ- सम्यक्त्वे य आभिमुख्येन गतः प्रविष्टः सोऽभिगत उच्यते, यो वा जीवादिपदार्थानां ‘विज्ञायकः’ विशेषेण ज्ञाता सोऽभिगतः, यद्वा यः 'अभ्युपगतः' 'यावज्जीवं मया गुरुपादमूलं न मोक्तव्यम्' इति कृताभ्युपगमः सोऽभिगतः । यः पुनः 'स्वाध्याये' परावर्त्तना - ऽनुप्रेक्षादी सततमायुक्तः, गुरुषु वा स्थिरममत्वानुबन्धः, 'निजकेषु' भ्रातृ-भ्रातृव्यादिषु वा सम्बन्धिषु प्रव्रज्याप्रतिपन्नेषु सञ्जातप्रेमस्थेमा, एष त्रिविधोऽपि प्रतिबद्ध उच्यते ॥
।
[ भा. ७३५] संविग्गो दव्व मिओ, भावे मूलुत्तरेसु उ जयंतो । लद्धी आहाराइसु, अनुओगे धम्मकहणे य ॥
वृ-संविग्नो द्विधा-द्रव्यतो भावतश्च । 'द्रव्ये' द्रव्यसंविग्नो मृगः, सदैव सर्वतोऽपि चकितत्वात् । 'भावे' भावसंविग्नः 'मूलोत्तरेषु तु' मूलगुणोत्तरगुणेषु पुनः 'यतमानः ' उद्यमं विदधानः साधुर्मन्तव्यः, सदैव संसारापायचकितत्वात् । तथा लब्धिराहारादिषूत्पादयितवयेषु अनुयोगे दातव्ये धर्मकथने च विधेये यस्य स सलब्धिक इति ॥
[भा. ७३६] लिंग विहारेऽवडिओ, मेरामेहावि गहणओ भइओ । पडिबुज्झइ जं कत्थइ, कुणइ अ जोगं तदट्ठस्स ।।
वृ-अवस्थितो द्विधा-लिङ्गे विहारेच । लिङ्गावस्थितः स्वलिङ्गंन परित्यजति, विहारावस्थितः संविग्नविहारं विहाय न पार्श्वस्थादिविहारमाद्रियते । मेधावी द्विधा-ग्रहणमेधावी मर्यादामेधावी च।उभावपि वक्ष्यमाणस्वरूपौ । तत्र मर्यादामेधाविन उत्सारकल्पः क्रियते । स पुनर्ग्रहणे मेधावी वा स्यादमेधावी वा, द्विविधस्यापि कारणविशेषे उत्सार्यत इति ग्रहणतो मेघावी 'भक्तः' विकल्पितः। तथा यत् 'कथ्यते' अभिधीयते तत् सर्वं यः प्रतिबुध्यते स प्रतिबोद्धं शीलमस्येति प्रतिबोधी । यत् तसय सूत्रमुत्सार्यते तदर्थस्य ग्रहणे 'योगं' व्यापारं यः करोति न कदाचित् प्रमाद्यति स योगकारक इति । तदेवं व्याख्याता "अभिगए" इत्यादि गाथा । अथोत्सारकल्पिकस्यैवापराचार्यपरिपाट्या
गुणानाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org