________________
१९०
बृहत्कल्प-छेदसूत्रम् -१
यथा - "सच्चा विसा न वत्तव्वा, जओ पावस्स आगमो" त्ति; ततश्च जलगतसूक्ष्मजन्तुजातस्य मृगादीनां वा यद् व्यपरोपणं ते करिष्यन्ति तत् सर्वमुत्सारकल्पकारकः प्राप्नोति । तथा 'करणे' चारित्रे उत्सर्गा-ऽपवादविधिमजानन् यद् विपर्यासं करोति, तद्यथा- 'आगाढे' ग्लानादिकार्ये 'अनागाढं' त्रिकृत्वः परिभ्रमणादिलक्षणम्, अनागाढे वा 'आगाढे' ग्लानादिकार्ये 'अनागाढं ' त्रिकृत्वः परिभ्रमणादिलक्षणम्, अनागाढे वा 'आगाढं ' सद्यः प्रतिसेवनात्मकं करोति । एषा सर्वाऽपि संयमविराधना ॥ अथ योगविराधनामाह
[ मा. ७१९]
तुरियं नाहिचंते, नेव चिरं जोगजंतिता होंति । लद्धो महंतसद्दो, त्ति केइ पासाइँ गेण्हंति ॥
वृ- 'अनुज्ञातोऽस्माकं गुरुभि' सकलोऽपि श्रुतस्कन्धः, ततः किमनेन पठितेन कार्यम्?' इति कृत्वा ते शिष्याः 'त्वरितं' शीघ्रं नाधीयते, नैव च ते चिरंयोगैः - श्रुताध्ययननिबन्धनतपोविशेषः यन्त्रिताः-नियमिता भवन्ति, एकदिनेनापि प्रभूतसूत्रार्थवाचनानुज्ञाप्रदानात् । तथा 'लब्धोऽस्माभि 'गणिरयम्, वाचकोऽयम्' इति महान् शब्दः, ततः कुतो हेतोर्वयमत्राऽऽचार्यसन्निधौ निष्फलं तिष्ठामः ?' इति परिभाव्य 'केचिद्' गुरुचरणपर्युपासनापरिभग्नाः पार्थ्यानि गृह्णन्ति, पार्श्वतो ग्रामेषु यथास्वेच्छं विहरन्तीति भावः ॥
[भा. ७२०] कमजोगं न वि जाणइ, विगईओ का य कत्थ जोगम्मि । अन्नस्स वि दिंति तहा, परंपरा घंटदिट्टंतो ॥
वृ- " कमजोगं" इति प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, ततो योगक्रमं 'नापि ' नैव जानाति, यथा-अस्मिन् योगे, एतावन्त्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं वा उद्देशादयः क्रियन्ते । तथा विकृतयः काः कुत्र योगे कल्पन्ते ? न वा ? इत्येवमपि न जानाति, यथाकल्पिकाकल्पिक-निशीथादियोगेषु न विसृज्यन्ते काश्चनापि विकृतयः, व्याख्याप्रज्ञप्तियोगेषु पुनरवगाहिमविकृतिर्विसृज्यते, दृष्टिवादयोगेषु तु मोदकः । तथा चाऽऽहाऽस्यैव कल्पाध्ययनस्य चूर्णिकृत्-जहा कप्पियाकप्पिय-निसीहाईणं विगईओ न विसज्जिज्जंति, पन्नत्तीए ओगाहिमगविगई विसज्जिज्जइ, दिट्ठीवाए मोदगो त्ति । निशीथचूर्णिकृत् पुनराह - जोगो दुविहो- आगाढो अनागाढो वा । आगाढतरा जम्मि जोगे जयणा सो आगाढो, यथा-भगवतीत्यादि । इतरो अनागाढो, यथाउत्तराध्ययनादि । आगाढे ओगाहिमगवज्जाओ नव विगईओ वज्जिज्जंति, दसमाए भयणा । महाकप्पसुए एक्का परं मोदगविगई कप्पइ । सेसा आगाढेषु सव्वविगईओ न कप्पंति । अनागाढे पुन दस वि विगईओ भइयाओ, जओ गुरुअणुन्नाए कप्पंति अननुन्नाए पुन न कप्पंति त्ति ।
एवंविधां योग्यव्यवस्थामजानन् यदसौ विराधयति सा योगविराधना । तथा "अन्नस्स विदिति तह "त्ति ते उत्सारकल्पिकाः 'अन्यस्यापि' स्वशिष्यादेः 'तथैव' उत्सारकल्पेनैव वाचना प्रयच्छन्ति, सोऽप्यपरेषां तथैव इत्येवम् उत्साकल्पे प्रवाहतः क्रियमाणेपरम्परया सूत्रार्थव्यवच्छेदः प्राप्नोति । घण्टाध्ष्टान्तश्चात्र वक्तव्यः । तमेवोपनययुक्तं गाथात्रयेणाह -
[भा. ७२१] उच्छुकरणोव कोट्टुगपडणं घंटा सियालनासणया । विगमाई पुच्छ परंपराए नासंति जा सीहो ।
[भा. ७२२] पडियरिडं सीहेणं, स हओ आसासिया भिगगणा य ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org