________________
पीठिका - [भा. ७१७]
शास्त्रपरिकर्मितमतिर्वाग्मी वाचकः ? किं वा न ?' इति ज्ञापनाय प्रेषितः । स चाऽऽगम्योत्सारकल्पिकवाचकं प्रश्नयति-परमाणुपुद्गलस्य कतीन्द्रियाणि भवन्ति ? इति । ततः स एवं पृष्टः सन् किञ्चिन्मात्रपल्लवत्वरितग्राहितया यथोक्ताव्यभिचारिविचारबहिर्मुखत्वाच्चिन्तयति-यः परमाणुपुद्गल एकस्माल्लोकचरमान्तादपरं लोकचरमान्तमेकेनैव समयेन गच्छति स निश्चितं पञ्चेन्द्रियः, कुतोऽनीद्दशस्यैवंविधा गमनवीर्यलब्धिः ? - इत्यभिसन्धाय प्रतिवचनमभिधत्ते-भद्र ! परमाणुपुद्गलस्य पञ्चापीन्द्रियाणि भवन्तीति ।
तत एवंविधं निर्वचनमवधार्य स पुरुषः प्रत्यावृत्य गतोऽन्ययूथिकानां सन्निधौ, कथितं सर्वमपि स्वरूपं तदग्रतः । ततश्चिन्तितं स्वचेतसि तैः- नूनमयं शारदवारिद इव बहिरेव केवलं गर्जति, अन्तस्तु तुच्छ एव-इति विमृश्य समागताः सम्भूय भूयांसं लोकमीलं कृत्वा वाचकान्तिकम्। क्षुभितोऽसौ स्वतुच्छतया तावन्तं समुदायमवलोक्य, सञ्जातस्वेदबिन्दुस्तबकितशरीर आक्षिप्तः साटोपमन्यतीर्थिकैः, ग्राहितो यथाऽभिमतं पक्षविशेषम्, न शक्नोति निर्वोढुं प्रश्नितो दुस्तराणि प्रश्नोत्तराणि, न जानीते लेशतोऽपि प्रतिवक्तुम् । ततः कृतो मिथ्याद्दष्टिभि 'जितं जितस्माभिः ' इत्युत्कृष्टिकलकलः, प्रादुर्भूतं प्रवचनमालिन्यम्, मुकुलितानि श्रमणोपासकवदनकमलानि, विप्रतिपन्ना यथाभद्रकादय इति ॥
।
अथ गाथाक्षरार्थ- पूर्वं कैश्चिद् वाचकैरन्ययूथिकाः “मलिय" त्ति मानमर्दनेन मर्दिताः । तत उत्सारवाचके आगते सति 'प्रतिमर्दयन्ति' प्रत्यावृत्या मानमर्दनं कुर्वन्ति । कथम् ? इत्याह“पडिलेह” इत्यादि । तैरयन्तीर्थिकैः प्रत्युपेक्षकः पुरुषः प्रेषितः । ततः स आगत्य पृष्टवान्-'पुद्गलस्य' परमाणोः कतीन्द्रियाणि ? । तेन च प्रत्युक्तम् - पञ्चेति । ततस्तैर्बहुजनमध्ये स वाचको वादे निरुत्तरीकृतः । एवम् ‘अपम्राजना' लाघवं तीर्थस्य भवति । तत्र चामिनवधर्मणां चेतसि विकल्प उपजायते-यदि नाम वाचकोऽप्ययं न शक्नोति निर्वचनमर्पयितुं तद् नूनमेतेषां तीर्थकरेणैव न सम्यग् वस्तुतत्त्वं परिज्ञातम्, अन्यथा कथमेष एवंविधेऽर्थे व्यामुह्येत ? - इति विपरिणामतो मिथ्यात्वगमनं भवेत् ।। भावितं मिथ्यात्वद्वारम् । अथ संयमविराधनां भावयति
[भा. ७१८] जीवा जीवे न मुणइ, अलियभया साहए दग - मिताई । करणे अविवच्चासं, करेइ आगाढऽनागाढे ॥
१८९
वृ- जीवाश्चाजीवाश्च जीवा-ऽजीवाः, तानसौ वाचनामात्ररूपेणोत्सारकल्पेनानुयोगमवगाह्यमानो वैविक्त्येन 'न मुणति' न जानीते, तदपरिज्ञानाच्च कुतः संयमसद्भावः ? तदुक्तं परमर्षिभिः
जो जीवे विनयाणेइ, अजीवे वि न याणई ।
जीवा - ऽजीवे अयातो, कह सो नाहिइ संजमं ? ॥
तथा अलीकम् असत्यं तद्भयाद् दक-मृगादीन् कथयति । किमुक्तं भवति ? -स उत्सार कल्पिकः पल्लवमात्रग्राहितया 'सत्यमेव भाषितव्यम्, नासत्यम्' इति कृत्वा उदकार्थिनां नदीतडागादौ पानीयमस्ति ? नास्ति वा?' इति पृच्छताम् 'अलीकं मा भूत्' इति कृत्वा 'विद्यते नद्यादौ जलम्' इति कथयति, मृगयाप्रस्थितानां च व्याधानां 'दृष्टं मृगवृन्दम् ? नवा ?' इति पृच्छतामलीकभयादेव ‘दृष्टम्' इति कथयति, आदिशब्दात् शूकरादिपरिग्रहः; न पुनर्जानीते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International