________________
बृहत्कल्प-छेदसूत्रम् -१
भवन्तीति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराज्ञा ऽनवस्थे क्षुन्नत्वादनाद्दत्य मिथ्यात्वं दर्शयितुं ध्ष्टान्तमाह
[भा. ७१७] पुव्विं मलिया उससारवायए आगए पडिमिलंति । पडिले पुग्गलिंदिय, बहुजण ओभावणा तित्थे ।
वृ-तत्र तावत्प्रथमं कथानकमुच्यते-इह पुरा केचिदाचार्या पूर्वान्तर्गतसूत्रा-ऽर्थधारकतया लब्धवाचकनामेयाः सर्वज्ञशासनसरसीरुहविकाशनैकसहस्ररश्मयः प्रावृषेण्यपयोमुच इव सरसदेशनाधाराधोरणीनिपातेन महीमण्डलमेकार्णवधर्मकमादधाना गन्धहस्तिन इव कलमयूथेन सातिशयगुणवता निजशिष्यवर्गेण परिकरिता एकं कञ्चिद् ग्राममुपागमन् । तत्र चाधिगतजीवाजीवादिविशेषणविशिष्टा बहवः श्रमणोपासकाः परिवसन्ति । ते च गुरूणामामनमाकर्ण्य प्रमोदमेदुरमानसाः स्वस्वपरिवारपरिवृताः सर्वेऽ प्यागम्य तदीयं पादारविन्दमभिवन्द्य योजितकरकुडाला यथावत् तत्पुरत आसाञ्चक्रिरे । ततः सूरिभिरपि रचिता यथोचिता धर्मदेशना । तदाकर्णनेन सञ्जातः संवेगसुधासिन्धुधौतान्तरमलः सकलोऽपि श्रावकलोको गतः परमपरितोषपरवशः सूरीणां गुणग्रामोपवर्णनं कुर्वन् स्वं स्वं स्थानम् । तैश्च वाचकनभोमणिभिस्तत्रायातः प्रतिहतः खद्योतपोतकल्पानामन्ययूथिकानां प्रभाप्रसरः ।
ततः न शक्नुवन्ति तेऽन्ययूथिका आचार्याणां व्याख्यानादिभिर्गुणैर्जायमानं निरुपमानं महिमानं द्रष्टुम् इति सम्भूय सर्वेऽपि 'अमुमाचार्यं वादे पराजित्य तृणादपि लघु करिष्यामः' इत्येकवाक्यतया चेतसि व्यवस्थाप्य समाजग्मुः सरूणामन्तिकम् । सूरिभिरपि निष्प्रतिमप्रतिभाप्राग्भारप्रभववादलब्धिसम्पन्नैर्निपुणहेतु-द्दष्टान्तोपन्यासपुरस्सरं मध्येविद्वज्जनसभं कृतास्ते निष्पृष्टप्रश्न-व्याकरणाः । ततः समुच्छलितः पारमेश्वरप्रवचनगोचरः कीर्त्तिकोलाहलः, प्रादुर्भूतः परतीर्थिकानामपि परमः पराभवः, निमग्नः प्रमोदपीयूषपयोनिधावस्तोकः श्रमणोपासकलोकः, सम्पादिता सपदि विशेषतस्तेन महती तीर्थस्य प्रभावना । ततस्ते वाचकाः कियन्तमपि कालमलङ्क त्य तं ग्रामं प्रबोध्य मिध्यात्वनिद्राविद्राणचैतन्यं भव्यजन्तुजातमन्यत्र कुत्रापि व्यहार्षु । तेषु च दिनकरवदन्यत्र प्रतापलक्ष्मीमुद्वहमानेषु परतीर्थिका उलूका इवाऽऽप्तप्रसरतया घोरघूत्कारकल्पं प्रवचनावर्णवादं कर्त्तुमारब्धाः । वदन्ति च श्रावकान् प्रति भोः श्वेताम्बरोपासकाः ! यद्यस्ति भवतां कोऽपि कण्डूलमुखो वादी स प्रयच्छतु साम्प्रतमस्माकं वादमिति । श्रावकैरुक्तम्-अये ! विस्मृतमधुनैव भवतां भवान्तरानुभूतमिव तत् ताद्दशमद्यश्वीनमपि लागवम् यदेवमनात्मज्ञा असमञ्जसं प्रलपत ? भवत्वेवम्, तथाप्यायान्तु तावत् केचिद् वाचका वा गणिनो वा, पश्चाद् यद् भणिष्यन्ति भवन्तस्तत् करिष्याम इति । अथैकदा कदाचिद् निजपाण्डित्याभिमानेन त्रिभुवनमपि तृणवद् मन्यमानस्तुण्डताण्डवाडम्बरेण वाचस्पतिमपि मूकमाकलयन् समागतः कतिपयशिष्यकलित उत्सारकल्पिकवाचकः । ततः प्रमुदिताः श्रावकाः गता अन्ययूथिकानामभ्यर्णे । निवेदितं तत्पुरतः-युष्माभिस्तदानीमस्माकं समीपे वादः प्रार्थित आसीत्, अस्माभिश्च भणितमभूत्-यदा वाचका अत्राऽऽगमिष्यन्ति तदा सर्वमपि युष्मदभिप्रेतं विधास्याम इति, तदिदानीमागताः सन्ति वाचकाः, कुरुत तैः सह वादगोष्ठीम्, पूरयत स्वप्रतिज्ञाम्-इत्यभिधाय गताः श्रावकाः स्वस्थानम्। तैश्चान्ययूथिकैः प्राचीनपराभवप्रभवभयभ्रान्तैरेकः प्रच्छन्नवेषधारी प्रत्युपेक्षकः 'किं सहृदयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
१८८