________________
१७३
-
पीठिका - [भा. ६६४] तस्यैव विधिशेषमभिधातुमुपक्रमते
[भा.६६४/२] तस-बीयाइ अदटुं, इंतु जयणं पुणो कुणइ ।।
वृ-“तस-बीयाइ"इत्यादि पश्चार्धम् । तत् पात्रं चक्षुषा प्रत्युपेक्ष्य यदि त्रस-बीजादिकं जन्तु जातं किञ्चिद् न पश्यति तदा तद् अदृष्टवा 'इमां वक्ष्यमाणां यतनांपुनः करोति॥ तामेवाह[भा.६६५] ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य।
तिट्ठाणे तिक्खुत्तो, सद्धो ससिणिद्धमाईसु॥ वृ- “ओमंथ"त्ति तत् पात्रमवाङ्मुखं कृत्वा त्रीणि स्थानानि समाहृतानि त्रिस्थानंमणिबन्धहस्ततल-भूमिकालक्षणम् तत्र 'त्रिकृत्वः' त्रीन्वारान् प्रत्येकंप्रस्फोटयेत्। ततःप्राणाःत्रसाः तान् आदिशब्दाद् जीवादीनि वा दृष्ट्वा न गृह्णाति । “पुच्छा मूलगुण उत्तरगुणे य"त्ति शिष्यः पृच्छति-के मूलगुणाः? त्तियत्राप्कायः प्रक्षिप्यमाणआसीत् तदधुनाऽपनीताप्कायतया कदाचित् सस्न्धिं भवेत्, तच्च यदि त्रिकृत्वः प्रस्फोटनादिविधिं कुर्वता न परिभावितं तथापि श्रुतज्ञानप्रामाण्यबलेन शुद्धः, आदिशब्दाद् बीजकायपरिग्रहः ॥ एतदेव भावयति[भा.६६६] दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे।
खोडेइ तिनि वारे, तिन्नि तले तिन्नि भूमीए । वृ-दक्षिणेन करेणोत्तानेन पात्रस्य 'कोणं' कर्णं गृहीत्वा पात्रमवाड्मुखं कृत्वा वामहस्तस्य मणिबन्धे त्रीन् वारान् प्रस्फोटयति, ततस्त्रीन् वारान् हस्ततले, त्रीन् भूमिकायामिति ।। [भा.६६७] तस-बीयाइ व दिटे, न गिण्हई गिण्हई उ अद्दिढे ।
गहणम्मि उ परिसुद्धे, कप्पइ दिटेहि वि बहूहिं ।। वृ-नवकृत्वः प्रस्फोटिते सति त्स-बीजादिजन्तुजातं यदि दृष्टं तदा न गृह्णाति, अथादृष्टं ततो गृह्णाति । अथ महताऽपि प्रयत्नेन प्रत्युपेक्ष्यमाणानि तदा बीजादीनि सन्त्यपि शुषिरत्वान्न द्दष्टानि ततः को विधि? इत्याह-कल्पते बहुभिरपिबीजादिभिपश्चाद्द टैरिति।किमुक्तं भवति? - तत्पात्रमप्राशुकमिति मत्वान भूयोऽगारिणःप्रत्यय॑ते, न वापरिष्ठाप्यते, श्रुतप्रामाण्येन गृहीतत्वात्; किन्त्वेकान्तेबहुप्राशुकेप्रदेशेतानिबीजानियतनयापरिष्ठापयेत्॥अथ "पुच्छा मूलगुण उत्तरगुणे" त्ति अस्य निर्वचनमाह[भा.६६८] मुहकरणं मूलगुणा, पाए निक्कोरणंच इअरे उ।
गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो॥ वृ- पात्रस्य यद् मुखकरणं तद् मूलगुणाः । यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिरस्योत्किरणं तद् निक्कोरणमित्यभिधीयते तद् ‘इतरे' उत्तरगुणाः । अत्र चतुर्भङ्गी-संयतार्थं कृतमुखं संयतार्थमेव चोत्कीर्णमितिप्रथमो भङ्गः, संयतार्थंकृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः, स्वार्थं कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः, स्वार्थं कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थ । अत्रत्रिषुभङ्गेषुप्रायश्चित्तम्, तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकास्तपसा कालेनच गुरवः, द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः, तृतीयेचतुर्लघुकाःकालेन गुरवः तपसालघवः । 'चरमे' चतुर्थे भङ्गे शुद्धः, उभयस्यापि स्वार्थत्वादिति ।। व्याख्यातः पात्रकल्पिकः, अथावग्रहकल्पिकः प्ररूप्यते । तत्रापि “अप्पत्तेअकहित्ता" इत्यादिगाथा तथैव द्रष्टव्या।नवरंसूत्रमत्रआचारद्वितीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org