________________
१७२
बृहत्कल्प-छेदसूत्रम् -१उक्ताश्चतस्रोऽपि प्रतिमाः । अथ पात्रस्यैव विशेषविधिं बिभणिषुराह[भा.६६०] ओभासणा य पुच्छा, दिढे रिक्के मुहे वहंते य ।
संसढे उक्खित्ते, सुक्के अपगासे दबणं ॥ वृ- पात्रस्योत्पादनायामवभाषणं कर्तव्यम् । तत्र “पुच्छ"त्ति शिष्यः पृच्छति-किं दृष्टं पात्रंप्रशस्यम्? उताद्दष्टम् ?; एवं रिक्तमरिक्तंवा कृतमुखमकृतमुखं वा वहमानकमवहमानकं वा संसृष्टमसंसृष्टं वा उत्क्षिप्तं निक्षिप्तं वाशुष्कमा वा प्रकाशमुखमप्रकाशमुखं वा इत्यष्टौ पृच्छाः। आसां निर्वचनं स्वयमेव सूरिरभिधास्यति ।तथा “दणं" ति 'दृष्ट्वा' चक्षुषा निरीक्ष्य पात्रं यदि निर्दोषं तदा गृह्णाति ॥
अथैनामेव गाथां विवरीषुः प्रथमद्वितीयपृच्छयोरेकगाथया परिहारमाह[भा.६६१] दिट्ठमदिढे दिलु, खमतरमियरे न दिस्सए काया।
दहिमाईहि अरिकं, वरंतु इयरे सिया पाणा॥ वृ-दृष्टा-ऽदृष्टयोः पात्रयोर्मध्ये दृष्टं क्षमतरम्, क्षमशब्द इह युक्तार्थ, ततश्च क्षमतरम्अष्टादतिशयेन ग्रहीतुं युक्तम् । कुतः ? इत्याह-'इतरस्मिन्' अद्दष्टे “न दीसए''त्ति प्राकृतत्वादेकवचनम् न द्दश्यन्ते 'कायाः' पृथिव्यादयः । तथा दध्यादिभिरिति आदिग्रहणाद् मोदकादिपरिग्रहः तैः ‘अरिक्तं' पूर्णवरम्, 'इतरस्मिन्’ रिक्ते 'स्यु' भवेयुः कदाचित् 'प्राणाः' कुन्थुप्रभृतयो जीवाः । यदि पुनर्न तत्र प्राणसम्भवस्तदा तदपि सम्यगुपयुज्य गृह्णतां न दोषः । अथ कृतमुखा-ऽकृतमुखयोः किं कृतमुखं ग्राह्यम्? उताकृतमुखम्? उच्यते[भा.६६२] अकयमुहे दुप्पस्सा, बीयाई छेयणाइ दोसा वा।
कुंथूमादवहंते, फासुवहंतं अओ धन्नं ॥ वृ-अकृतमुखे भाजने 'दुर्दर्शा' दुःप्रत्युपेक्षाबीजादयोजीवाः, तत्र बीजानि तदुद्भवानि, आदिशब्दात् त्रसादिपरिग्रहः, छेदन-भेदनादयो वा दोषास्तत्र भवेयुः, यत एवं ततो अकृतमुखं परिहर्त्तव्यम् । अथ वहमानका-ऽवहमानकयोः कतरत् श्रेष्ठम् ? इत्याह-कुन्थ्वादयः सत्त्वा अवहमानके प्रायः सम्भवन्ति । अथ प्राशुकेन वस्त्रादिना वहमानकं-व्याप्रियमाणं यत् यत् पात्रं धनाय हितमिति ‘धन्यं' संयमधनोपकारकमित्यर्थः ।। अथ संसृष्टादि पृच्छात्रयं प्रतिविधत्ते[भा.६६३] एमेव य संसटुं, फासुअ अफ्फासुएण पडिकुटुं ।
उक्खित्तं च खमतरं, जंचोल्लं फासुदव्वेणं॥ वृ-'एवमेव' यथा वहमानकं तथा संसृष्टमपि। यत्प्राशुकेन भक्तादिना संसृष्टं-खरण्टितं तत् प्रशस्यम्, अप्राशुकेन पुनः संसृष्टं 'प्रतिक्रुष्टं' निषिद्धम् । उत्क्षिप्त-निक्षिप्तयोर्मध्ये यद् आत्मप्रयोगेणैव गृहिणा पात्रमुक्षिप्तं तद् निक्षिप्तात् 'क्षमतरं युक्ततरम् । यच्चा प्राशुकद्रव्येण तक्रादिनातत्पात्रं श्रेयः,अर्थादापन्नम्-अप्राशुकेणार्द्र परिहार्यम्॥अथ किं प्रकाशमुखंगृह्यताम्? अप्रकाशमुखं वा ? उच्यते
[भा.६६४/१] जं होइ पगासमुहं, जोग्गयरं तं तु अप्पगासाओ।
वृ-यद्भवतिप्रकाशमुखंतत्तु योग्यतरं संयमा-ऽऽत्मविराधनाया अभावाविशेषण योग्यम् 'अप्रकाशाद्' अप्रकाशमुखभाजनात् । इत्थं पात्रस्य प्रशस्या-ऽप्रशस्यरूपतामुपवर्ण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org