SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ६५४] _____१७१ इति पर्यन्तः प्रायः स एव पात्रस्यापि द्रष्टवयः । यस्तु विशेषः स उपरिष्टाद्दर्शयिष्यते ॥ सम्प्रति प्रतिमाचतुष्कं बिभावयिषुराहभा. (६५५] उद्दिढ तिगेगयरं, पेहा पुन दु एरिसं भणइ । दोण्हेगयरं संगइ, वाहयई वारएणंतु॥ वृ-त्रिकस्य-जघन्यादित्रयस्यैकतरं यद्गुरुसमक्षप्रतिज्ञातंतदेवयाच्यमानमुद्दिष्टपात्रमिति प्रथमा । प्रेक्षापात्रं पुनः ‘दृष्ट्वा' अवलोक्य यद् 'ईदृशं मम प्रयच्छ' इति भणति तत् प्रेक्षापूर्वकं पाच्यमानत्वात्प्रेक्षापातरमिति द्वितीया । अथ तृतीया-तस्याश्च स्वरूपमाचाराङ्गेद्वितीयश्रुतस्कन्धे षष्ठाध्ययने प्रथमोद्देशके इत्थमभिहितम्-अहावरा तच्चा पडिमा-से भिक्खूवा भिक्खुणीवा से जं पुनपायजाणेजा, तंजहा-संगइयंवावेजयंतियंवा ।अथ किमिदं सङ्गतिकम्? किंवा वैजयन्तिकम् ? इत्याह-“दोण्हेगयरमि" त्यादि । इह कस्यचिगारिणो द्वे पात्रे, सच तयोरेकतरं दिने दिने वारकेण वाहयति, तत्रयस्मिन् दिवसे यद्वाह्यतेतत्सङ्गतिकमभिधीयते, इतरद् वैजयन्तिकम्। तयोरेकतरं यदभिग्रहविशेषेण गवेष्यते सा तृतीया प्रतिमा ।। चतुर्थी प्रतिपादयति[भा.६५६] दव्वाइ दव्व हीनाहियं तु अमुगं च मे न घेत्तव्वं । दोहि वि भावनिसिलु, तमुज्झिओभट्ठऽणोभट्ठ ॥ वृ- उज्झितं चतुर्धा, द्रव्य-क्षेत्र-काल-भावोज्झितभेदात् । तत्र द्रव्योज्झितं यथाकेनचिदगारिणा प्रतिज्ञातम् ‘इयत्प्रमाणाद्धीनाधिकंपात्रममुकं वा कमढक-प्रतिग्रहादिकं मया न ग्रहीतव्यम्' तदेव केनचिदुपनीतम्, ततः प्रागुक्तयुक्त्या द्वाभ्यामपि भावतो निसृष्टं तद् अवभाषितमनवभाषितं वा दीयमानं द्रव्योज्झितम् ।। क्षेत्रोज्झितमाह[भा.६५७] अमुइच्चगंन धारे, उवनीयं तं च केणई तस्स । जंतुझे भरहाई, सदेस बहुपायदेसे वा॥ वृ-अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचिदुपनीतम्, तद् उभाभ्यामपि पूर्वोक्तहेतोः परित्यक्तं क्षेत्रोज्झितम्।यद्वा पात्रमुज्झेयुः ‘भरतादयः' भरतः-नटः,आदिशब्दात् चारणादिपरिग्रहः, स्वदेशं गताः सन्तो बहुपात्रदेशे वा तदपि क्षेत्रोज्झितम् ॥कालोज्झितमाह[भा.६५८] दगदोद्धिगाइ जं पुव्वकाल जुग्गं तदन्नहि उज्झे। होहिइ व एस्सकाले, अजोग्गयणणागयं उज्झे । वृ-दोद्धिगं-तुम्बकम्, एकस्य-जलस्य यद् म्रियते तुम्बकं तद्दकतुम्बकम्, आदिशब्दात् तक्रतुम्बकादि च यत् पूर्वस्मिन्-ग्रीष्मादौ काले योग्यं तद् ‘अन्यस्मिन् वर्षाकालादावुझेत्, भविष्यति वाएष्यति कालेऽयोग्यम् अतोऽनागतमेव यदुज्झेत्, तदेतदुभयथाऽपिकालोज्झितं ज्ञातव्यम् ।। भावोज्झितमाह[भा.६५९] लभ्रूण अन्नपाएष पोराणे सो उ देइ अन्नस्स। सो वि अनिच्छइ ताई, भावुज्झिय एवमाईयं ॥ वृ- लब्ध्वा अन्यानि-अबिनवानि पात्राणि पुराणानि स गृही अन्यस्य कस्यचिद् ददाति सोऽपि च "तानि दीयमानान्यपि यदा नेच्छति तदा एवमादिकं भावोज्झितं द्रष्टव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy