________________
१७०
बृहत्कल्प-छेदसूत्रम् -१वृ-विपर्यस्तेन ग्रहणे करणे वा चतुर्लघुकाः, उपलक्षणत्वाद् लघुमास-रात्रिन्दिवपञ्चके अपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु, सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु; यदा यथाकृतं योगे कृतेऽपिन लभ्यतेतदाऽल्पपरकर्मगवेषणीयम्, तस्योत्पादनाय निर्गतःप्रथमतएवसपरिकर्म गृह्णाति चतुर्लघु, इति त्रीणि चतुर्लघुकानि; एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि; जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तमुक्तंतथोत्कृष्टादीनामपिपरस्परंविपर्यस्तग्रहणेप्रायश्चित्तमवसातव्यम्।तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णातिमासिकम्, जघन्यं टोप्परिकादि गृह्णातिपञ्चकम्; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति मासिकम् । तदेवं विपर्यस्तग्रहणे प्रायश्चित्तमुक्तम्, सम्प्रति विपर्यस्तकरणेऽभिधीयते-उत्कृष्टं भङकत्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं भङ्क्त्वा मध्यमं करोति मासिकम्, जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा जघन्यं करोति पञ्चकम्; मध्यमे संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भङ्क्त्वा जघन्यं करोति पञ्चकम्; जघन्ये संयोज्योत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम्; आज्ञादयश्च दोषाः।
विराधना च द्विविधा-संयमे आत्मनि च । तथा चाह-पात्रस्य च्छेदनं भेदनं वा कुर्वत आत्मविराधना परिताप-महादुःखादिका, संयमविराधनातुतद्गता घुणादयो विनाशमश्नुवते। ततोया यस्यां' संयमविराधनायामात्मविराधनायांवाआरोपणाभणितासातस्यामभिधातव्या। तत्रात्मविराधनायां सामान्यतश्चतुर्गुरु, संयमविराधनायां “छक्काय चउसु लहुगा" इत्यादिका कायनिष्पन्ना। यतएवं ततो न विधेयं विपर्यस्तकरणम्॥अथ कतिभिःप्रतिमाभि पात्रंगवेषणीयम्? उच्यते[भा.६५४] उद्दिसिय पेह संगय, उज्झियधम्मे चउत्थए होइ।
सब्वे जहन्न एक्को, उस्सग्गाई जयं पुच्छे । वृ-उद्दिष्टपात्रं प्रेक्षापात्रंसङ्गतिकपात्रमुज्झितधर्मकंचचतुर्थम् इतिचतस्रपात्रगवेषणायां प्रतिमाः । गच्छवासिनः प्रतिमाचतुष्टयेनापि पात्रंगृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणमुपरितनयोयोरेकतरस्यामभिग्रहः । अथ ग्रन्थगौरवमयादतिदिशन्नाह-“सव्वे जहन्न एको"त्ति “यद यस्य नास्ति वस्त्र इत्यारभ्य सर्वे वा गीतार्था मिश्रा वा जघन्यत एको गीतार्थ" इतिपर्यन्तं यथावस्त्रविषयेभावितंतथा पात्रेऽपिसर्वं तदवस्थमेवभावनीयम्, नवरं पात्राभिलापः कर्तव्यः। “उस्सग्गाइ"त्तिकायोत्सर्गादिकं “आवाससोहि अखलंत समग उस्सग्ग०" इत्यादिगाथोक्तं सप्रायश्चित्तं तथैव वक्तव्यम् । “जयं पुच्छे"ति यतमानः पूर्वोक्तां यतनां कुर्वन् पृच्छेत् । किमुक्तं भवति ? - श्रावकेषु नावभाषितव्यम्, किं तर्हि ? भावितकुलेषु, तत्रापि पात्रे दर्शिते 'कस्येदम् ? किमासीत् ? क्व चाऽऽसीत् ? किं भविष्यति?' इति पृच्छाचतुष्टयंतथैव कर्त्तव्यम्। किं बहुना ? य एव वस्त्रस्य विधिः
“एवं तु गविढेसुं, आयरिया दिति जस्स जं नत्थि। समभागेसु कएसुव, जहरायणिया भवे बिइओ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org