________________
पीठिका - [भा. ६४८]
१६९ यथावदालोच्य च वस्त्रणि विधिवद् दर्शयति, तत आचार्या यस्य साधोर्य धन्यं मध्यममुत्कृष्टं वा वस्त्र नास्ति तस्मै तद् ददतीति प्रथमः प्रकारः । पश्चार्धेन द्वितीयमाह-समेषु-तुल्येषु भागेषु कृतेषु, साधूनां सङ्ख्यामनुमाय समांशतयावस्त्रेषुविभक्तेष्वितिभावः । वाशब्दः प्रकारान्तरद्योतने। 'यथारनाधिकं' यो योरत्नाधिकस्तस्मैतस्मैप्रथमं दीयते इत्ययं भवेद् द्वितीयो दानप्रकार इति।।
उक्तो वस्त्रकल्पिकः । सम्प्रति पात्रमिति पात्रकल्पिकद्वारम्, अत्रापि[भा.६४९]अपपत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ।। वृ. इयं गाथा तथैव द्रष्टव्या । नवरमिह सूत्रमाचारान्तर्गतं पात्रैषणाध्ययनम्, तत्राप्राप्ते यदि पात्रानयनाय प्रेषयति तदा प्रायश्चित्तं चत्वारो गुरुकाः 'द्वाभ्यामपि गुरवः' तपसा कालेन च । अथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थ कथितस्तदा चत्वारो लघुकास्तपसा गुरवः । अथ कथितोऽर्थपरंनाद्यापिसम्यगधिगतः तदाऽपि चत्वारोलघुकाः कालेन गुरवः । अथाधिगतोऽर्थः श्रद्धानविषयीकृतश्च परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः तपसा कालेन च लघुकाः । अतः सूत्रं पाठयित्वा तस्यार्थं कथयित्वा सम्यगधिगते श्रद्धिते चार्थे पात्राय परीक्ष्य प्रेषणीय
इति।।
तच्च पात्रं चतुर्विधम्, तद्यथा[भा.६५०] नामं ठवमा दविए, भावम्मिचउब्विहं भवे पायं ।
एसो खलु पायस्सा, निक्खेवो चउव्विहो होइ ।। वृ-नामपात्रं स्थापनापात्रं द्रव्यपात्रंभावपात्रमिति चतुर्विधं पात्रम् । एष खलु पात्रस्य निक्षेपश्चतुर्विदो भवति ॥ तत्र नाम-स्थापने सुगमत्वादनाद्दत्य द्रव्य-भावपात्रे प्रतिपादयति[भा.६५१] दव्वे तिविहं एगिदि-विगल-पंचिंदिएहिं निप्फन्नं ।
भावे आया पत्तं, जो सीलंगाण आहारो॥ वृ-द्रव्यविषयं त्रिविधंपात्रम्, तद्यथा-एकेन्द्रियनिष्पन्नं विकलेन्द्रियनिष्पन्नंपञ्चेन्द्रियनिष्पन्नं च । एकेन्द्रियनिष्पन्नमलाबुकादि, विकलेन्द्रियनिष्पन्नं शुक्ति-शङ्खादि, पञ्चेन्द्रियनिष्पन्नं कुतुपदन्त-शृङ्गपात्रादि । 'भावे' भावविषयं पात्रमात्मा । किं सर्व एव ? न इत्याह- यः पूर्वोक्तानाम् अष्टादशसहस्रसङ्ख्यानांशीलाङ्गानाम् ‘आधारः' आश्यःसआत्मा साधूनांसम्बन्धी भावपात्रमुच्यते, “पात्रंभाजनमाधारः" इतिपर्यायवचनत्वात्। अत्र पुनर्भावपात्रोपयोगिना द्रव्यपात्रेणाधिकारः।। तदपि त्रिविधम्[भा.६५२] लाउय दारुय मट्टिय, तिविहं उक्कोस मज्झिम जहन्नं ।
एक्कक्कं पुण तिविहं, अहागडऽप्पं-सपरिकम्मं ।। वृ-अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यं च । उत्कृष्टंप्रतिग्रहः, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकंपुनस्त्रीधा-यथाकृतमल्पपरिकर्म सपरिकर्म च ।। अत्र वैपरीत्यकरणे प्रायश्चित्तमाह[भा.६५३] वोच्चत्थे चउलहुआ, आणाइ विराधनाय दुविहा उ ।
छेयण-भेयणकरगे, जा जहि आरोवणा भणिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org