________________
१६८
व्याप्रियमाणे सति ततो ग्रहणं कर्त्तव्यम् ॥ एतदेव भावयति[भा. ६४५] निच्चनियंसणियं ति य, अन्नासइ पच्छकम्म-वहणाई । अत्थि वहंते घिप्पइ, इयरय फुस धोय-पगयाई ॥
बृहत्कल्प-छेदसूत्रम् -१
वृ-यदि गृहस्थो ब्रूयात्-नित्यनिवसनीयमिदमासीत्, ततो यदि तस्यापरं नित्यनिवसनीयमस्ति ततः कल्पते, यतोऽन्यस्य नित्यनिवसनीयस्य असति-अभावे पश्चात्कर्म-वहनादयो दोषा भवन्ति । पश्चाद्-विवक्षितवस्त्रग्रहणानन्तरं कर्म - अभिनववस्त्रस्य कारापणं पश्चात्कर्म, वहनं नाम अव्याप्रियमाणं वस्त्रं यद् वहमानकं क्रियते, आदिग्रहणात् क्रीत-कृत-प्रामित्यादयो दोषाः, अतो यद्यपरं नित्यनिवसनीयमस्ति तदपि यदि वहमानं व्याप्रियमाणं तदा गृह्यते । कुतः ? इत्याह-'इतरस्मिन' अवहमाने स्पर्शन- धौत-प्रकृतादयो दोषाः । इयमत्र भावना यदवहमानं तस्योपभोगार्थमप्यकायेनोत्स्पर्शनं कुर्यात्, धावनं वा विदध्यात्, तस्य परिभोगप्रारम्भमुद्दिश्य प्रकरणं वा कुर्वीत आदिग्रहणाद् धूपन वासनादीनि वा विदधीत । यत एवं ततोऽन्यस्मिन् वहमाने ग्रहीतव्यम् ॥ अपरिभुक्तमधिकृत्य किमेतद् भविष्यति ? इति पृष्टः सन्नेवं ब्रूयात्[भा. ६४६ ] होहिइ व नियंसणियं, अन्नासइ गहण पच्छकम्माई । अत्थि नवे वि उ गिण्हइ, तहि तुल्ल पवाहणादोसा ॥
,
वृ- वाशब्दः परिभुक्तादपरिभुक्तस्य पक्षान्तरद्योतकः । भविष्यति नित्यनिवसनीयमेतत्' इत्यभिहिते यद्यपरं तादृशं नास्ति ततोऽन्यस्य ताद्दशस्यासति ग्रहणे त एव पश्चात्कर्मादयो. दोषाः । अथास्त्यन्यत् तादृशं ततः कल्पते । तच्च तद्यपि नवमवहमानकं तथापि गृह्णाति, कुतः ? इत्याह-तुल्यास्तत्रप्रवाहनादोषाः । किमुक्तं भवति ? -यदि साधवो गृह्णन्ति न गृह्णन्ति वा तथापि सगृही तयोरपरिभुक्तवस्त्रयोरेकतरमात्मप्रयोगेणैव प्रवाहयिष्यति, ततः साधूनां गृह्णतामपि न कश्चिद् दोष इति ॥
[भा. ६४७ ] एमेव मज्जणाई, पुच्छासुद्धं तु सव्वओ पेहे । मणिमाई दाइंति व, असिट्टे मा सेहुवादानं ॥
वृ- 'एवमेव' यथा नित्यनिवसनीयभिहितं तथा मज्जनिक क्षणोत्सविक - राजद्वारिकाण्यभिधातव्यानि । यदा पृच्छया शुद्धमिति निर्धारितं तदा 'सर्वतः' समन्तात् 'प्रेक्षेत' निभालयेत । प्रेक्ष्यमाणे च यदि 'मण्यादिकं' मणि- हिरण्य-सुवर्णादिकं किञ्चिदर्थजातमुपनिबद्धमुपलभ्यते तदा भण्यन्ते गृहस्थाः, यथा - निरीक्षध्वं समन्तादपि वस्त्रमिदम्, यदि निरीक्ष्यमाणैस्तैः स्वयमेव टं तदा ष्टम्, नो चेत् ततः साधवः “दाइंति "त्ति दर्शयन्ति इदं यौष्माकीणं किमप्युपनिबद्धमस्ति । आह एवमभिधीयमाने कथमधिकरणदोषो न भवति ? इति उच्यते - अल्पीयानेवायं दोषः, 'अशिष्टे' अकथिते पुनः शैक्षस्यावधावितुकामस्य तद्द्रव्यमुपादानं भवेत्, तद् गृहीत्वोग्रव्रजेदित्यर्थः; अगारिणो वा महान्तमुड्डाहं कुर्यु, यथा- वस्त्रेण सार्द्धं स्तेनितमस्मद्रव्यमेभि श्रमणैः । अत एवं प्रभूततरो दोषो मा भूदिति कथ्यते ।। उपसंहरन्नाह
[भा. ६४८] एवं तु गविट्ठेसुं, आयरिया दिति जस्स जं नत्थि । समभागेसु कसु व, जहराइणिया भवे बीओ ॥
वृ- 'एवम्' उक्तप्रकारेणैव वस्त्रेषु गवेषितेषु यथासम्भवं लब्देषु च गुरूणां समीपमागम्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International