________________
पीठिका - [भा. ६४१]
१६७ कृ'तूर्यपति' नटमहत्तरस्तस्मिन्ददति भण्यते माते कुशीलवानां नटानांसत्कंभविष्यति। 'तेषु कुशीलवेषु ददत्सुमायुष्माकं तूर्यिकस्य' तूर्यपतेर्भवेत्। एवमेव तूर्यपतिकुशीलवोक्तप्रकारेणैव भोगिक-सेवकयोरपि वाच्यम् । यदि सेवको ददाति तदा वक्तव्यम्-मा तेभोगिकस्यस्वामिनः स्वाधीनं भवेत् । भोगिके दातरि वाच्यम्-मा युष्माकं सेवकस्य सम्बन्धि भवतु । स्तेनस्वरूपमाह-स्तेनः पुनश्चतुर्विधः ‘अयं' वक्ष्यमाणलक्षणः ॥चातुर्विध्यमेवाह[भा.६४२] सग्गाम परग्गामे, सदेस परदेसे होइ उड्डाहो ।
मूलं छेओ छम्मासमेव गुरुगा य चत्तारि॥ वृ-यस्मिन्ग्रामेसाधवःस्थिताः सन्ति सस्वग्रामस्तस्मिनयःस्तैन्यंकरोतिस स्वग्रामस्तेनः। तदपेक्षयाऽपरस्मिन् ग्रामे स्तैन्यं कुर्वन् परग्रामस्तेनः । 'स्वदेशे' विवक्षितसाधुविहारविषयभूते विषये चौर्यं कुर्वाणः स्वदेशस्तेनः । तदपेक्षयाऽपरत्र देशे चौरिकां विदधानः परदेशस्तेनः । एतेषु गृह्णताम् ‘उड्डाहः' प्रवचनलाघवं भवति-अहो ! अमी लुब्धशिरोमणयः तपस्विनः, यदेवं स्तेनाह्वतानिवस्त्राणिगृह्णाना राजविरुद्धमपि नापेक्षन्तइति। तेषुप्रायश्चिततमाह-“मूलमि"त्यादि। स्वग्रामस्तेने गृह्णतां मूलम्, परग्रामस्तेने छेदः, स्वदेशस्तेने षण्मासा गुरुकाः, परदेशस्तेने चत्वारो गुरुकाः, यथाक्रमं दूर-दूरतर-दूरतमस्तैन्यदोषत्वादितिभावः॥तदेवं व्याख्याता “इत्थी पुरिस" इत्यादिद्वारगाथा । तद्याख्याने च समर्थितं 'कस्य' इति पृच्छाद्वारम् । अथ 'किमासीत् ?' इति पृच्छाद्वारमाह[भा.६४३] एवं पुच्छासुद्धे, किं आसि इंतु जंतु परिभुत्तं ।
किं होहिइत्ति अहतं, कत्थाऽऽसि अपुच्छणे लहगा। वृ- ‘एवम्' अमुना प्रकारेण कस्येति पृच्छया शुद्ध-निर्दोषे निर्णीते सति यत् ‘परिभुक्तं' भुक्तपूर्वं तत् पृच्छयते-'किमिदं वस्त्रमासीत् ?' युष्माकं कीद्दशमुपयोगमागतवदित्यर्थः । यत् पुनः ‘अहतम्' अपरिमुक्तंतत् पृच्छयते-किमेतद्भविष्यति? इति । “कत्थासि"त्तिक पेडाया मञ्जूषायामपरस्मिन् वा स्थाने इदमासीत् ? । तत्र यदि पेडायां तदा किं पृथिव्यादिषु कायेषु सा पेडा प्रतिष्ठिता? अप्रतिष्ठितावा? इत्याधुपयुज्य वाच्यम् । कस्येदम् ? किमासीत् ? कुत्रासीत्? किं भविष्यति? इति ‘अप्रच्छने' चतसृणामपि पृच्छानामकरणे प्रत्येकं चत्वारो लघुकाः ॥ तत्र किमासीद् ? इति पृष्टे ते गृहस्था अभिदध्युः[भा.६४४] निचनियंसण मज्जण, छणूसवे रायदारिए चेव ।
सुत्तत्थजाणएणं, चउपरियट्टे तओ गहणं ॥ वृ-'नित्यनिवसनं नित्योपभोग्यमेतदासीत्। 'मज्जनिकं नाम स्नानानन्तरं यत्परिधीयते धौतवस्त्रमित्यर्थः तदासीत्। तथा क्षणः-प्रतिनियतः कौमुदी-शक्रमहादिकः, उत्सवः-पुनरनियतो नामकरण-चूडाकरण-पाणिग्रहणादिकः; अथवा यत्र पक्कानविशेषः क्रियते स क्षणः, यत्र तु पक्कानं विनाऽपरो भक्तविशेषः स उत्सवः; क्षणे उत्सवे च परिभुज्यते यत् तत् णोत्सविकं तद्वाऽऽसीत् । तथा राजा-ऽमात्य-महत्तमादिभवनेषु गच्छद्भिर्यत् परिभुज्यते तद् राजद्वारिक तद्वाऽऽसीत् । तत्रैवमुक्ते ‘सूत्रार्थज्ञायकेन’ गीतार्थेन चतुर्णां-नित्यनिवसनीयादीनां परिवर्तानांवस्त्रयुगलानां समाहारश्चतुःपरिवर्तम्, तत्र याशं परिवर्तमेकतरं वा वस्त्रंददाति ताशेऽस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org