________________
बृहत्कल्प-छेदसूत्रम् -१
श्रुतस्कन्धस्य सप्तमम् अवग्रहप्रतिमानामकमध्ययनम् । अथ कतिविधोऽयमवग्रहः ? उच्यते[भा. ६६९] देविंद-राय-गहवइउग्गहो सागारिए अ साहम्मी । पंचविहम्मि परूविए, नायव्वो जो जहिं कमइ ॥
१७४
वृ- देवेन्द्रः शक्र ईशानो वा, स यावतः क्षेत्रस्य प्रभवति तावान् देवेन्द्रावग्रहः । राजाचक्रवर्त्तिप्रभृतिको महर्द्धिकः पृथ्वीपति, स यावतः षट्खण्डभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावान् राजावग्रहः । गृहपति - सामान्यमण्डलाधिपति, तस्याप्याधिपत्यविषयभूतं यद् भूमिखण्डं स गृहपत्यवग्रहः सागारिकः शय्यातरः, तस्य सत्तायां यद् गृह-पाटकादिकं स सागारिकावग्रहः । साधर्मिकाः-समानधर्माणः साधवः, तेषां सम्बन्धि सक्रोशयोजनादिकं यद् आभाव्यं क्षेत्रं स साधर्मिकावग्रहः । एष च पञ्चविधोऽवग्रहः । एतस्मिन् पञ्चविधेऽवग्रहे वक्ष्यमाणभेदैः प्ररूपिते 1 सति ज्ञातव्यो विधिरित्युपस्कारः । यः 'यत्र' देवेन्द्रादौ 'क्रमते' अवतरति स तत्रावतारणीय इति सङ्ग्रहगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुरमीषां पञ्चानां मध्ये कः कस्माद् बलीयान् ? इति जिज्ञासायां तावदिदमाह
[भा. ६७०] हेट्ठिल्ला उवरिल्लेहि बाहिया न उ लहंति पाहन्नं । पुव्वाणुन्नाऽभिनवं च चउसु भय पच्छिमेऽमिनवा ।।
वृ- ‘अधस्तनाः’ देवेन्द्रावग्रहादयः 'उपरितनैः' राजावग्रहादिभिर्यथाक्रमं बाधिताः, अत एव 'न तु' नैव लभन्ते 'प्राधान्यम्' उत्तमत्वम् । किमुक्तं भवति ? - राजावग्रहे राजैव प्रभवति न देवेन्द्रः, ततो देवेन्द्रेणानुज्ञातेऽप्यवग्रहे यदि राजा नानुजानते तदा न कल्पते तदवग्रहे स्थातुम्; अथानुमतं गृहपतिना स्वभूमिखण्डेऽवस्थानं परं न सागारिकेण स्वावग्रहे, ततोऽपि न कल्पते वस्तुम्; अथानुज्ञातः सागारिकेण स्वावग्रहः परं न साधर्मिकैः, तथापि न कल्पते इति; एवमुपरितनैरधस्तना बाध्यन्ते । तथा पूर्वामनुज्ञामभिनवां च चतुर्ष्ववग्रहेषु 'भज' विकल्पय, केषाञ्चित् साधूनां पूर्वानुज्ञा तदपरेषामभिनवेति भजना कार्येत्यर्थः । अथ केयं पूर्वानुज्ञा ? का वाऽभिनवानुज्ञा ? इति उच्यते-इह योऽवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत् पाश्चात्यैरेवमेव परिभुज्यते न भूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा । यथा चिरन्तनसाधुभिर्देवेन्द्रो यदवग्रहमनुज्ञापितः सैव पूर्वानुज्ञा साम्प्रतकालीनसाधूनामप्यनुवर्त्तते न पुनर्भूयोऽप्यनुज्ञाप्यते । अभिनवानुज्ञा नाम यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्त्तिभि साधुभिर्यदसावभिनवोत्पन्नतयाऽवग्रहमनुज्ञाप्यते सा तेषां साधूनामभिनवानुज्ञा तदन्येषां तु पूर्वानुज्ञैव । राजावग्रहऽपि यो यदा चक्रवर्ती समुत्पद्यते स तत्कालवर्तिभि साधुभिर्यदनुज्ञाप्यते सा तेषामभिनवानुज्ञा, तदपरेषां पूर्वानुज्ञा । एवं शेषनृपति-गृहपतीनामपि पूर्वा ऽभिनवानुज्ञे भावनीये । सागारिकोऽपि प्रथमत उपागतैः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा । तेषु साधुषु तत्र स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितमवग्रहं परिभुञ्जते सा पूर्वानुज्ञा । तदेवं चतुर्ष्ववग्रहेषु पूर्वा ऽभिनवानुज्ञयोर्भजना भाविता । तथा पश्चिमे साधर्मिकावग्रहेऽभिनवानुज्ञैव भवति न पूर्वानुज्ञा । तथाहि-यो यदाऽवग्रहार्थं साधर्मिकमुपसम्पद्यते स सर्वोऽपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुज्ञैवैका ॥ अथामीषां पञ्चानामपि भेदानाह
[ भा. ६७१]
दव्वाई एक्क्को, चउहा कित्तं तु तत्थ पाहन्ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org