________________
१६०
बृहत्कल्प-छेदसूत्रम् -१.
उच्यते[भा.६१६] भिक्खं चिय हिंडंता, उप्पायंतऽसइ बिइअ पढमासु।
एवं पि अलब्भंते, संघाडेक्क्क वावारे ॥ कृ-सूत्रपौरुषीमर्थपौरुषींच कृत्वा भिक्षामेव हिण्डमाना वस्त्रमुत्पादयन्ति।अथभिक्षामटन्नो न लभेरन् ततः 'असति' इत्यलाभे द्वितीयस्यां पौरुष्यामर्थग्रहणं हापयित्वा, तस्यामप्यलाभे 'प्रथमायां' सूत्रपौरुष्यामुत्पादयन्ति । अथैकः सङ्घाटकः पर्यटन् न लभेत बहूनां वा साधूनामुत्पादनीयानि ततः को विधि ? इत्याह-“एवमपि' सूत्रपौरुषीहापनेऽप्येकसङ्घाटकेनालभ्यमाने बहूनांचोत्पादयितव्ये सङ्घाटकमेकैकं व्यापारयेत् । तेऽपि तथैव याचन्ते "भिक्खं चिअहिंडंता" इत्यादि । अथ तथापि न प्राप्नुयुस्ततः “वृन्दसाध्यानि कार्याणि" इति वचनाद्वृन्देन पर्यटन्ति॥
आह च[भा.६१७] एवं पि अलब्भंते, मुत्तूण गणिं तु सेसगा हिंडे ।
गुरुगमणे गुरुग ओहामऽभियोगो सेहहीला य॥ वृ-'एवमपि बहुभिसङ्घाटकैरप्यलभ्यमाने 'गणिनम्' आचार्यमेकंमुक्त्वा शेषाः सर्वेऽपि वृन्देन हिण्डन्ते । यदि गुरवः स्वयमेव पर्यटन्ति तदा तेषां गुरूणां गमने चत्वारो गुरुकाः । "ओहामि"त्ति 'यद्यमी आचार्या अपि सन्त एवमितरभिक्षुवत् पर्यटन्ति नूनमेतेषामाचार्यत्वमपीद्दशमेव' इतिमहती गुरूणामपभ्राजनाभवेत्। तथा काचिदविरतिका सर्वाङ्गीणलावण्यश्रियाऽलङ्कृतमाचार्यमवलोक्य मदनपरवशा सती “अभियोग"त्ति कार्मणं कुर्यात् अन्यतीर्थिका वा आचार्याणां प्रतापमसहमाना विषप्रयोगं प्रयुञ्जीरन् । अवभाषितेषु वा वस्त्रेष्वलब्धेषु शैक्षाणामाचार्यविषया हीला स्यात्-द्दष्टा आचार्याणां लब्धि, स्वयमपियाचमानाश्चीवराण्यपिन लभन्ते । यस्मादेते दोषास्तस्मादाचार्यैर्न पर्यटनीयं शेषाः सर्वेऽपि पर्यटन्ति । [भा.६१८] सव्वे वा गीयत्था, मीसा व जहन्न एक्कु गीयत्यो।
इक्कस्स वि असईए, करिति तो कप्पियं एक्कं ।। वृ-तेच वृन्देन पर्यटन्तः सर्वेऽपि गीतार्था भवेयुः मिश्रा वा । मिश्रा नाम केचन गीतार्थाः केचनागीतार्थाः । तत्र यदि बहवो गीतार्था न प्राप्यन्ते तदा जघन्यत एको गीतार्थः सर्वेषामगीतार्थानामग्रणीभूय पर्यटति । अथ नास्त्याचार्यं मुक्त्वाऽपरः कोऽपि गीतार्थ तत एकस्यापि गीतार्थस्य असति' अभावेयः प्रगल्भः सलब्धिकश्चतमेकं वस्त्रैषणामुत्सर्गापवादसहितांकथयित्वा कल्पिकं कुर्वन्ति गुरव इति ।। अथ तैः केन विधिना गन्तव्यम् ? उच्यते[भा.६१९] आवाससोहि अखलंत समग उस्सग्ग दंडग न भूमी।
पुच्छा देवय लंभे, न किंपमाणं ध्वं दाहि॥ वृ-इह समयपरिभाषया कायिकी-संज्ञाव्युत्सर्जनमवश्यं क्रियत इति व्युत्पत्तेरावश्यकमभिधीयते, तस्य शोधि-शोधनं कार्यम्, वस्त्राणामत्पादनाय गतानां भविष्यति न वेति प्रथममेवाऽऽवश्यकं शोधनीयमित्यर्थः । “खलंत"त्ति उत्तिष्ठतां पादयोः शिरसि वा स्खलनं यथान भवतितथोत्थातव्यम्; यद्वागुरुवचनमस्खलद्भिः-अविकुट्टयद्भिरुत्थातव्यम्। “समग"त्ति सर्वैरपि समकमुत्थानं कर्तव्यम्, नपुनरेके उत्थिताः प्रतीक्षन्तेअन्येऽद्याप्युपविष्टाः; अथवा समकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org