________________
पीठिका - [भा. ६१२]
१५९
पुरातनं रिहरेयुः एतत् सर्वमपि क्षेत्रोज्झितम् ।। कालोज्झितमाह[भा.६१३] कासाइमाइ जंपुव्वकालजोग्गं तदननिहिं उज्झे ।
होहिइ व तस्सकाले, अजोग्गयमणागयं उज्झे । .. वृ- कषायेण रक्ता काषायी-गन्धकाषायिकेत्यर्थः, साहि स्वभावत एवातिशीतला ग्रीष्पर्तुभरएऽपि सकलसन्तापनिर्वापिणी शास्त्रेषु पठ्यते; यत उक्तम्
सरसो चंदनपंको, अग्घइ सरसा य गंधकासाई।
पाल सिरीस मल्लिय, पियाइँ काले निदाहम्मि। वृ-आदिग्रहणेन शीतकालोचितवस्त्रपरिग्रहः। ततश्च काषाय्यादिकं यद् वस्त्र पूर्वस्मिन् ग्रीष्मादौ काले योग्यम्-उपयोगि तद् ‘अन्यस्मिन् वर्षाकालादौ ‘उज्झेत्' परित्यजेत् । इयमत्र भावना-गन्धकाषायिकादिकं शीतवीर्यवस्त्रं यत् केनापि श्रीमता ग्रीष्मे परिभुज्यते तदेव वर्षास्वनुपयोगित्वात् परिहियते, तत् तथापरिह्रियमाणं कालोज्झितम्, एवमुष्णवीर्यादिष्वपि भावना कार्या । अथ प्रकारान्तरेणैतदेवाह-"होहिइव" इत्यादि । भविष्यति वा गन्धकाषायिकादिकमेव एष्यति-आगामिनि काले-वर्षादावयोग्यमित्यभिसन्धाय 'अनागतं' वर्षाकालादर्वागेव यदुन्झेत् तदपि कालोज्झितम् ।। अथ भावोज्झितमाह[भा.६१४] लभ्रूण अन्न वत्थे, पोराणे सो उ देइ अन्नस्स।
सो वि अनिच्छइ ताई, भावुज्झियमेवमाईयं ।। वृ- कोऽपि कस्यापि पार्वे 'लब्ध्वा' प्राप्य 'अन्यानि' अभिनवानि वस्त्राणि ततः स पुराणानि अन्यस्य कस्यचिद् ददाति, सोऽपिच ‘तानि' दीयमानानिजीनीति कृत्वा नेच्छति तदेतद् भावं-जीर्णतापर्यायमाश्रित्योज्झितं भावोज्झितमेवमादिकं ज्ञातव्यम् । तदेवं समर्थिता तुरीयाऽपि प्रतिमा ॥ “गच्छवासिनश्चतसृभि प्रतिमाभिर्वस्त्रं गवेषयन्ति" इत्युक्तम्, तत्र परः प्रश्नयति-कया सामाचार्या ते गवेषयन्ति? इत्युच्यते[भा.६१५] जंजस्स नस्थि वत्थं, सो उ निवेएइ तंपवत्तिस्स ।
सो वि गुरूणं साहइ, निवेइ वावारए वा वि॥ वृ-'यद' वर्षाकल्पा-ऽन्तरकल्पादिकं 'यस्य साधोः 'नास्ति' न विद्यते वस्त्रं सः 'तद्' विवक्षितवस्त्रभावस्वरूपं निवेदयति 'प्रवर्तिनः' प्रवर्तकाभिधानस्य तृतीयपदस्थगीतार्थस्य । स हि सकलस्यापि गच्छ्यचिन्तानियुक्तः, सर्वेऽपि साधवः स्वस्वं प्रयोजनं तस्याग्रे निवेदयन्ति। ततः ‘सोऽपि' प्रवर्तकः 'गुरूणाम्' आचार्याणां “साहइ"त्ति कथयति विज्ञपयतीत्यर्थः, यथाभट्टारकाः ! नास्त्यमुकस्य साधोरमुकं वस्त्रमिति । गच्छे चेयं सामाचारी-यदुताऽऽभिग्रहिका भवन्ति, आभिग्रहिकानाम 'अस्माभिः सकलस्यापि गच्छस्य वस्त्राणि वा पात्राणिवा पूरणीयानि अपरेण वा येन प्रयोजनम्' इति प्रतिपन्नाभिग्रहाः, तेषामाचार्यो निवेदयति, यथा-आर्या ! नास्त्यमुकस्यामुकं वस्त्रम् । तेऽपि 'अनुग्रहोऽयमस्माकम्' इत्यभिधाय स्वाभिग्रहपरिपालनाय स्वयमेवोत्पादयन्ति।अथ न सन्त्याभिग्रहिकाः ततः स यदि वस्त्रर्थी साधुः स्वयमसमर्थ उत्पादयितुं ततोऽन्यं वस्त्रोत्पादनसमर्थंगुरवो व्यापारयेयुः, यथा-वस्त्राणिगवेषय। वाशब्दः पक्षान्तरद्योतने। 'अपि' सम्भावनायाम्। तत्राभिग्रहिकेण व्यापारितेन वा केन विधिना वस्त्रमुत्पादयितव्यम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org