________________
पीठिका - [भा. ६१९ ]
१६१
सर्वैरुपयोगसम्बन्धी भूमी स्थापयितव्याः । अपरे पुनर्यावद् व्यावृत्य न प्रतिश्रयमागताः तावदिति ब्रुवते । “पुच्छ’”त्ति शिष्यः पृच्छति - किंनिमित्तं कायोत्सर्ग क्रियते ? किं देवताऽऽराधनार्थं यदसावाराधिता सती वस्त्राण्युत्पादयति ? आहोश्चित् कायोत्सर्गप्भावादेव वस्त्राणां भूयान् लाभो भूयादिति लाभनिमित्तम् ? । अत्र सूरि प्रत्युत्तरयति - "न"त्ति न भवति देवताऽऽराधननिमित्तं नवा लाभनिमित्तं किन्तूपयोगनिमित्तम्, उपयोजनमुपयोगः चिन्ता विमर्श इत्यनर्थान्तरम्, सच गणनाप्रमाणेन प्रमाणप्रमाणेन वा किंप्रमाणं वस्त्रं ग्रहीतव्यम् ? को वा याचितः सन् ध्रुवम्' अवश्यं दास्यति ? । यो ज्ञायते निश्चितमेष दास्यति स एव प्रथमं याच्यते ॥ अथ प्रथमं कायोत्सर्ग केनोत्सारणीयः ? इत्युच्यते
[भा. ६२० ] रायणिओ उस्सारे, तस्सऽसतोमो वि गीतो लद्धीओ । अग्गीतो वि सलद्धी, मग्गइ इअरे परिच्छंति ॥
वृ- यः 'रात्निकः' रत्नाधिकः सोऽपि यदि सलब्धिकस्तदा स एव प्रथमं कायोत्सर्गम् 'उत्सारयति' पारयति । 'तस्य' रत्नधिकस्य सलब्धिकस्य 'असति' अभावे 'अवमोऽपि ' पर्यायलघुरपि गीतार्थो यः सलब्धिकः स प्रथमं पारयति । अथ नास्ति गीतार्थ सलब्धिकस्तत आह-अगीतार्थोऽपि यः सलब्धिकः स प्रथमं पारयति, स एव चाग्रणीत्वं कुर्वन् वस्त्राणि मार्गयति । 'इतरे' गीतार्था 'परीक्षन्ते' किं कल्पते ? नवा ?' इत्येवं पृष्ठतो लग्ना वस्त्रैषणाविधिं विचारयन्तीत्यर्थः ॥ अनन्तरोदितसामाचारीवैतथ्यकरणे प्रायश्चित्तमाह
[भा.६२१] उस्सग्गाई वितहं, खलंत अन्नोन्नओ अ लहुओ उ । उग्गम विष्परिणामो, ओभावण सावगं न तओ ॥
वृ- उत्सर्गः कायोत्सर्गस्तमादिं कृत्वा सर्वेषु पदेषु सामाचारीं वितथां कुर्वाणस्य लघुमासः प्रायश्चित्तम् । तद्यथा-कायोत्सर्गं न कुर्वन्ति, आवश्यकं न शोधयन्ति, यमकसमकं कायोत्सर्गं न कुर्वन्ति, दण्डकं भूमौ लगयन्ति, पृथक् पृथग् गुरूणामादेशं मार्गयन्ति, 'इच्छाकारेण संदिसह 'त्ति न भणन्ति, आचार्या 'लाभो 'त्ति न भणन्ति, साधवः 'किह गिण्हामो 'त्ति न भणन्ति, आचार्या 'जह गहियं पुव्वसाहूहिं'ति न भणन्ति साधवः 'जस्स य जोगं'ति न भणन्ति, एतेषु सर्वेषु असामाचारीनिष्पन्नं मासलघु । आवश्यकी न कुर्वन्ति लघु रात्रिन्दिवपञ्चकम् । “खलंत "त्ति स्खलन्त उत्तिष्ठन्ति गुरुवचनंवा स्खलयन्ति मासलघु । “अन्नन्नउ' त्ति अन्यतश्चान्यतश्च व्रजन्ति न परस्परमेकया ऋजुश्रेण्या तत्रापि लघुको मासः । इत्थं सामाचारीं सम्पूर्णां कृत्वा यदि निर्गताः श्रावकमवभाषन्ते मासलघु, यतस्तस्मिन्नवभाष्यमाणे बहवो दोषाः । तानेवाह “उग्गम" इत्यादि । कोऽपि श्रावकः साधुभिर्वस्त्रं याचितः स चिन्तयति
'अहो ! अमी महात्मानस्तावद् यतस्ततः कारणं विना न वस्त्राणि याचन्ते न वा गृह्णन्ति, मद्भाग्यसम्भारप्रेरिताएव सन्तोषपोषितवपुषोऽपि मामित्थं याचन्ते, तत् परयच्छामि यथेच्छममीषां वस्त्राणि, मम पुनरन्यान्यपि भविष्यन्ति' इति परिभाव्य सर्वाण्यपि हर्षप्रकर्षारूढः प्रदद्यात्, ततोऽभिनववस्त्रनिर्मापण-क्रयणादिनोद्गमदोषा भवेयुः । विपरिणामो वा नवधर्मणः कस्यचिदुपासकस्य स्यात्, यथा- हुं ज्ञातममीषां श्रमणानां रहस्यम्, य एतेषामुपासको भवति
18 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org