________________
पीठिका - [भा. २४]
१३
पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानंच । “दुग' त्ति अस्य व्याख्यानम्-‘तद्' ज्ञानपञ्चकं द्विविधं प्रज्ञप्तम्, तद्यथा - प्रत्यक्षम् 'इतरच्च' परोक्षम् ॥ सम्प्रति प्रत्यक्ष-परोक्षयोः स्वरूपमाह
[भा. २५ ] जीवो अक्खो तं पइ, जं वट्टति तं तु होइ पच्चक्खं । परतो पुन अक्खस्सा, वट्टतं होइ पारुक्खं ॥
वृ-“अश् भोजने’” अश्नाति भुङ्क्ते यथायोगं सर्वानर्थानिति अक्षः, यदि वा “अशौड् व्याप्तौ' अश्नुते-ज्ञानेन व्याप्नोति सर्वान् ज्ञेयानिति अक्षः जीवः, उभयत्राऽप्यौणादिकः सम्प्रत्ययः, तं प्रत्यव्यवधानेन यद् वर्त्तते ज्ञानं भवति परोक्षम् । तथा द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात् पराणि, तेभ्यः पुनरक्षस्य वर्त्तमानं ज्ञानं भवति परोक्षम् । किमुक्तं भवति ? - यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनोज्ञानमुपजायते तत् परोक्षम्, पृषोदरादित्वात् परशब्दात् परः सकारागमः । यदि वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिंस्तत् परोक्षमिति व्युत्पत्ति ।।
अत्रैव मतान्तरं दूषयितुमाह
[भा. २६]
केसिंचि इंदियाई, अक्खाई तदुवलद्धि पच्चक्खं । तं तु न जुज्जइ जम्हा, अग्गाहगमिंदियं विसए ॥
वृ-‘केषाञ्चिद्’ वैशेषिकादीनामक्षाणीन्द्रियाण्यभिप्रेतानि तेषामुपलब्धि प्रत्यक्षम्, एवं च‘“चाक्षुषादिविज्ञानं प्रत्यक्षम्” इत्यापन्नम्। एतद् दूषयति-"तंतु' इत्यादि । 'तद्' वैशेषिकाद्युक्तं 'न युज्यते' न घटामञ्चति, यस्मादि 'इन्द्रियं ' चक्षुरादि पुद्गलमयत्वेनाचेतनत्वात्स्वरूपेणाग्राहकं ‘विषयस्य’ रूपादेः । ततः कथमुपपद्यते 'तदुपलब्धि प्रत्यक्षम् ' ? उपलब्धेरेवाभावात् ॥
तमेवोपलब्ध्यभावं भावयति
[भा. २७] न वि इंदियाई उवलद्धिमंति विगतेसु विसयसंभरणा । जह गेहगवक्खाई, जो अनुसरिया स उवलद्धा ॥
वृ- न वै इन्द्रियाण्युपलब्धिमन्ति, तेषु विगतेष्वपि तद्विषयस्य संस्मरणात्, यथा गेहगवाक्षाः । किमुक्तं भवति ? - यथा गेहगवाक्षैरुपलब्धेष्वर्थेषु गेहगवाक्षाणामुपरमेऽपि पुरुषस्य संस्मरणभावान्न ते गवाक्षा उपलब्धारः, तथा विगतेष्वपीन्द्रियेषु तद्विषय उपलभ्यत आत्मनेति व्यापकविरुद्धोपलब्धि, 'तस्योपलम्भः' इतिव्यवस्था हि तस्य स्मरणेन व्याप्ता, अन्यथा तद्यवस्थायाः कर्त्तुमशक्यत्वात्, तद्विरुद्धं चात्रान्यस्य स्मरणमुपलभ्यत इति । कथम् ? कस्तत्रोपलब्धा ? इति चेत्, अत आह-योऽनुस्मर्त्ता स तत्रोपलब्धा, आत्मा उपलब्धा इत्यर्थः । तथा च प्रयोगः- येषु विगतेष्वपि यद्विषयो येन स्मर्यते स तत्रोपलब्धा, यथा गेहगवाक्षेषु पुरुषः, विगतेष्वपि चेन्द्रियेषु तद्विषयः स्मर्यत आत्मना । स्मरणं हि प्रतिनियतत्वन्निमितवत्त्वेन संव्याप्तम्, न चोपलम्भादन्यन्निमित्तमस्ति, ततो विपक्षाद् व्यापकानुपलब्ध्या निवर्त्तमानमुपलम्भपूर्वकत्वेन व्याप्तत इति प्रतिबन्धसिद्धिः ।
अन्यच्च
[भा. २९]
Jain Education International
अपरायत्तं नाणं, पच्चक्खं तिविहमोहिमाईयं । जं परतो आयत्तं तं पारोक्खं हवइ सव्वं ।।
For Private & Personal Use Only
www.jainelibrary.org