________________
बृहत्कल्प-छेदसूत्रम् -१तदा शास्त्रममङ्गलम्, अमङ्गलत्वाच्चन ज्ञानम्, ज्ञानाभावाच्चन कर्त्तव्यस्तस्याऽनुयोगइति, अत्राह[भा.२३] न वि य हु होयऽनवत्था, न वि यहुमंगलममंगलं होइ।
अप्पपराभिव्वत्तिय, लोणुण्हपदीवमादि व्व॥ वृ- नाऽपि च ‘हुः' निश्चितं भवत्यनवस्था, यतो नन्दी शास्त्रदनान्तरभूता, शास्त्र च स्वतः समस्तं मङ्गलम्, नच तस्य मङ्गलभूतस्य सतोऽन्यन्मङ्गलमुपादीयते, ततो नाऽनवस्थाप्रसङ्गः । यदापि नन्द्या व्याख्यानमकृत्वा शास्त्रमारभ्यते तदापितच्छास्त्र मङ्गलमिति तदमङ्गलं न भवति।एवंतावनन्नन्द्याअनर्थान्तरतायाममङ्गलत्वमनवस्थाचपरिहता। सम्प्रत्यर्थान्तरत्वमधिकृत्य परिहियते- यद्यपि शास्त्रदर्थान्तरभूता नन्दी तथाप्यमङ्गलत्वमनवस्था च न भवति, कथम् ? इत्याह-"अप्पपर" इत्यादि । नन्दी आत्मनापि मङ्गलं शास्त्रमपि च मङ्गलीकरोति, शास्त्रमप्यात्मना।डपि मङ्गलंनन्दीमपिचमङ्गलीकरोति। एवमात्म-पराभिव्यक्तितोद्वयोरपि मङ्गलयोरेकीभूतयोः सुष्टुतरो मङ्गलभावो भवति । कथमिव? इत्यत आह-“लोणुण्हपदीवमादि व्व"। यथा द्वयोर्लवणयोरेकीभूतयोः सुष्ठुतरो लवणभावः, द्वयोर्वा उष्णयोरेकत्र मिलितयोः सुष्ठुतर उष्णतरभावः, यथा वा द्वयोः परदीपयोः समीचीनतरः प्रकाशभावः, आदिशब्दान्मधुर-शीतलस्नेहादिद्रव्याणां परिग्रहः; एवमिहापि द्वयोमङ्गलयोरेकीभूतयोः सुष्ठुतरो मङ्गलभावः । स्यादेतत् एवमपि प्रसजत्यनवस्था, तृतीयादिमङ्गलोपादाने सुष्ठुतरमङ्गलभावोपपत्तेः; न प्रजति, प्रयोजनाभावात्, तथा लोकव्यवहारदर्शनात्। तथाहि-लोके कस्यचिदातुरस्य शर्करापलद्वयमौषधं केनाऽपि भिषग्वरेणोपादेशि, तत्रयद्यपि तृतीयादिशर्कराप्रलप्रक्षेपे विशिष्टतमोमधुरभावोभवति तथापि तन्न प्रक्षिप्यते, प्रयोजनाभावात् । एवमिहाप्यन्यत् तृतीयादिकं मङ्गलं नोपादीयते, प्रयोजनाभावादिति ।। तदेवं “नदी य मंगलट्ठा" इति व्याख्यातम् ।
अधुना मङ्गलस्येव नन्दया अपि चतुःप्रकारं निक्षेपमाह[भा.२४] नंदी चतुक्क दव्वे, संखबारसग तूरसंघातो।
भावम्मि नाणपनगं, पञ्चक्खियरंच तंदुविहं ।। वृ-नन्द्याश्चतुष्को निक्षेपः, तद्यथा-नामनन्दी स्थापनानन्दी द्रव्यनन्दी भावनन्दी च । तत्र नामस्थापनेसुप्रतीते। द्रव्यनन्दी द्विधा-आगमतोनोआगमतश्च। तत्राऽऽगमतोनन्दिशब्दार्थज्ञाता तत्र चाऽनुपयुक्तः, “अनुपयोगोद्रव्यम्" इति वचनात् । नोआगमतस्त्रधा-शरीरं भव्यशरीरं तद्यतिरिक्ताच। तत्रयद् नन्दीशब्दार्थज्ञस्यशरीरंजीवविप्रमुक्तंतद् भूतभावत्वाद्ज्ञशरीरद्रव्यनन्दी। यस्तु बालको नेदानीं नन्दीशब्दार्थमवबुध्यतेऽथ चाऽवश्यमायत्यां मोत्स्यते स भाविभावत्वाद् भव्यशरीरद्रव्यनन्दी । तद्व्यतिरिक्ता शङ्खद्वादशकस्तूर्यसङ्घातः । स चायम्
भंभा मुकुंद मद्दल, कडंब झल्लरि हुडुक्क कंसाला ।
काहल तलिमा वंसो, पणवो संखो य बारसमो ।। भावतो द्विधा-आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः। तत्र मूलद्वारगाथायां यत् “पंचके"ति भणितंतस्य व्याख्यानमाह-भावे नोआगमतो नन्दी 'ज्ञानपञ्चकं' पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च । “दुग"त्ति भणितं तस्य व्याख्यानमाह-भावे नोआगमतो नन्दी 'ज्ञानपञ्चकं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org