________________
बृहत्कल्प-छेदसूत्रम् -१
वृ- यद् ज्ञानम् 'अपरायत्तं' नोत्पत्तौ परस्य वशवर्त्ति तत् प्रत्यक्षम् । तच्च वक्ष्यमाणं त्रिविधमवध्यादिकम्। यच्चोत्पत्तौ 'परतः' परस्याऽऽयत्तं तत् सर्वं भवति परोक्षम् । चाक्षुषादिकमपि च विज्ञानमुत्पत्त परस्य चक्षुरादेरायत्तम् अतः परोक्षम् ॥ सम्प्रति त्रिविधं प्रत्यक्षं द्विविधं च परोक्षमुपदर्शयति
[भा. ३०] ओहि मनपज्जवे या, केवलनाणं च होंति पच्चक्खं । आभिनिबोहियनाणं, सुयनाणं चैव पारोक्खं ।।
१४
वृ- अवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च भवति प्रत्यक्षम् । आभिनिबोधिकज्ञानं श्रुतज्ञानं च परोक्षम् ।। तत्राऽवधिज्ञानं चतुर्विधम्, तद्यथाः द्रव्यतः क्षेत्रतः कालतो भावतश्च,
तत्र द्रव्यतस्तावदाह
[भा. ३१]
विवरीयवेसधारी, विजंजणसिद्ध देवताए वा । छाइय सेवियसेवी, बीयादीओ वि पच्चक्खा ।।
वृ- नेपथ्यपरावर्त्ततोगुटिकाप्रयोगतः स्वरपरावर्त्ततो वर्णपरावर्त्ततो विपरीतं वेषं धारयन्तीति विपरीतवेषधारिणस्ते, तथा ये विद्यासिद्धा अञ्जनसिद्धा देवतया वा च्छादिताः, ये च तैः सेवितसविनः, ये च बीजादयः कुशूलादिन्यस्तास्ते सर्वेऽवधिज्ञानिनः प्रत्यक्षाः ॥ पुढवीइ तरुगिरिया सरीरादिगया य जे भवे दव्वा । परमाणू सुहदुक्खादओ य ओहिस्स पच्चक्खा ।।
[भा. ३२]
वृ. तथा- यानि पृथिव्यां यानि तरुषु यानि च गिरिषु, गाथायामेकवचनं समाहारत्वात्, द्रव्याणि यानि च शरीरादिगतानि द्रव्याणि, ये च परमाणवः, ये 'सुख-दुःखादयः' इन्द्रियमनःशरीरस्वास्थ्या-ऽस्वास्थ्यरूपास्तेऽप्यवधेः प्रत्यक्षाः ॥
[भा. ३३]
अच्चंतमनुवलद्धा, वि ओहिनाणस्स होंति पच्चक्खा ।
ओहिन्नाण परिगया, दव्वा असमत्तपज्जाया ।।
वृ- अत्यन्तं चक्षुरादिनाऽनुपलब्धा अपि पदार्था अवधिज्ञानस्य भवन्ति प्रत्यक्षाः । अवधिज्ञानेन च द्रव्याणि 'परिगतानि' परिज्ञातानि भवन्ति असमाप्तपर्यायाणि, न समस्ताः पर्याया द्रव्याणां ज्ञातुं शक्यन्त इति भावः । यदि हि समस्तानपि पर्यायान् जानीयात्ततः स केवली भवेत् । उक्तं द्रव्यतोऽवधिज्ञानम्, अधुना क्षेत्रादित आह
[भा.३४] खित्तम्मि उ जावइए, पासइ दव्वाइँ तं न पासइ या । काले नाणं भइयं को सो दव्वं विना जम्हा ॥
वृ-क्षेत्रे जघन्यत उत्कर्षतो वा यावन्ति द्रव्याणि पश्यति तत् क्षेत्रं न पश्यति, अवधिज्ञानस्य मूर्त्तविषयत्वात्, "रूपिष्ववधेः" इति वचनात्, क्षेत्रस्य चामूर्त्तत्वात् । तत्र जघन्यतः क्षेत्रपरिमाणं “जावतिया तिसमयाऽऽहारगस्स ०" इत्यादिना, उत्कर्षतः “सव्वबहुअगनिजीवा०" इत्यादिनाऽभिहितम् । शेषंतु तदन्तर्गतं मध्यममिति । तथा 'काले' कालविषये ज्ञानं 'भक्तं' विकल्पितम्, भवति वा न वेति भावः । कथम् ? इति चेत्, उच्यते - इह यदि कालद्रव्यं समय क्षेत्रभावि समयमात्रं परिणाम्यभ्युपगम्यते तदा तदमूर्त्तत्वान्नाऽवधिज्ञानविषयः । यदि पुनः कोऽसौनाम 'द्रव्यं' द्रव्यपर्यायं विनाऽन्यः कालः ? यस्माद् द्रव्यस्यैवाऽवस्थाविशेषः कालः, यत उक्तम्- दव्वस्स चेव सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org