________________
पीठिका- [भा. ५९४]
१५१ स्थानेषु' पस्थापनायामभिक्रान्तायामनभिक्रान्तायां वज्यार्या चेत्यर्थः तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा 'त्रिषु' स्थानेषु महावज्या सावद्यायां महासावद्यायां चेत्यर्थः प्तयेकं चत्वारो गुरवः, परंतपः- कालविशेषिताः। तद्यथा-महावाया चत्वारो गुरुकाः अतपोगुरवः, साद्यायां तपोगुरवः, महासावद्यायां तपसा कालेन च गुरवः । “जमलपया" इति तपःकालयोः संज्ञा, ततोऽयमर्थ-त्रिषु स्थानेषु गुरुकाः 'यमलपदाः' यमलपदवन्तस्तपः-कालविशेषिता द्रष्टव्याः । अल्पक्रियायांतु तिष्ठन् शुद्धः ।।
साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह[भा.५९५] उउ-वासा समतता, कालातीया उ सा भवे सेज्जा ।
सच्चेव उवट्ठाणा, दुगुमा दुगुणं अवजेत्ता ।। वृ-ऋतुबद्ध काले वर्षाकालेच यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्णेवर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता सति । “सच्चैव" इत्यादि । या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्धे मासोवर्षासुचत्वारोमासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति? -ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्टमासान् अपरिहृत्य यदि पुनरागच्छति तस्यां वसतौ ततः सा उपस्थानाभवति, उपसामीप्येन स्थानम्-अवस्थानं यस्यां सा उपस्थानेति व्युत्पत्तेः । अन्ये पुनरिदमाचक्षते-यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षाराचावन्यत्र कृत्वा यदि समागच्छन्तिततः सा उपस्थानान भवति अतिष्ठतांपुनरुपस्थापना॥ [भा.५९६] जावंतिया उ सेजा, अन्नेहिं निसेविया अभिक्कंता ।
अन्नेहि अपरिभत्ता. अनभिकंता उपविसंते॥ वृ-या शय्या आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभि पाषण्डस्थैर्गृहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति सा अभिक्रान्ता । सैव यावन्तिकी अन्यैः पाषण्डस्थैर्गृहस्थैर्वा अपरिमुक्ता तस्यां यदि संयताः प्रविशन्ति ततः साऽनभिक्रान्ता ।। [भा.५९७] अत्तट्टकडं दाउं, जतीण अन्नं करेंति वज्जा उ।
जम्हा तं पुव्वकयं, वजंति ततो भवे वजा ।। वृ-आत्मार्थकृतां वसतिं यतिभ्यो दत्वा पुनरन्यात्मार्थं कुर्वन्ति यदि ततः सा यतिदत्ता इत्यत आह-यस्मात् तां पूर्वकृतां वसतिं गृहस्था वर्जयन्ति, यतिभ्यः किल दत्तत्वात्। ततो वय॑त इति वा भवति सा पूर्वकृतेति ॥ [भा.५९८] पासंडकारणा खलु, आरंभो अभिनवो महावज्जा ।
समणट्ठा सावज्जा, महसावज्जा उ साहूणं ।। वृ-यत्र बहूनां श्रमण-ब्राह्मणप्रभृतीनां पाषण्डानां कारणात्-कारणेन खल्वारम्भोऽभिनवः क्रियते सा महावा । 'श्रमणार्था' पञ्चानां श्रमणानामर्थाय कृता सावद्या । या पुनरमीषामेव साधूनामर्थाय कृता सा महासावद्या॥ [भा.५९९] जा खलु जुहुत्तदोसेहि वज्जिया कारिया सअट्ठाए ।
परिकम्मविप्पमुक्का, सा वसही अप्पकिरिया उ॥ वृ-यापुनः ‘यथोक्तदोषैः' कालातिक्रान्तादिलक्षणैर्वर्जिता केवलं स्वस्य-आत्मनोऽर्थाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org