SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ बृहत्कल्प-छेदसूत्रम् -१ कारितापरिकर्मणाचविप्रमुक्तासर्वस्यापिपरिकर्मणः स्वतएवाप्रवर्त्तितत्वात्सावसतिरल्पक्रिया वेदितव्या । सम्प्रति यतनां दर्शयितुकाम इदमाह[भा.६००] हिछिल्ला उवरिल्लाहि बाहिया न उ लभंति पाहन्नं । पुव्वाणुन्नाऽभिनवं, च चउसु भय पच्छिमाऽभिनवा॥ वृ-अधस्तन्य उपरितनीभिर्बाध्यन्ते, बाधिताश्च सत्यः 'न तु' नैव लभन्ते प्राधान्यम् । इयमत्र भावना-नवापि वसतयः क्रमेण स्थाप्यन्ते, तत्राप्यल्पक्रिया निर्दोषेति प्रथमम् । त्यथाअल्पक्रिया कालातिक्रान्ता उपस्थाना अभिक्रान्ता अनभिक्रान्ता वा महावा सावद्या महासावद्याच। अत्राधस्तनीअल्पक्रिया, अयांयद्यतिरिक्तंकालं तिष्ठति ततः साकालातिक्रानतया बाध्यते, सा कालातिक्रान्ता भवतीति भावः । कालातिक्रान्तामपि यदि प्रागभिहितस्वरूपां कालमर्यादां द्विगुणां द्विगुणामपरिहत्योपागच्छन्ति ततः सा उपस्तानया बाध्यते, उपस्थाना सा भवतीतिभावः। एवं यथासम्भवमुपयुज्य वक्तव्यम् । “पुव्वाणुन्न"त्ति आसांचनवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्याः अनुज्ञा वेदितव्या । किमुक्तं भवति? नवानां शय्यानां मध्ये या पूर्वा अल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतऽपि सावद्याभावात्; तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता पूर्वा सा अनुज्ञाता, अल्पक्रियाया अलाभेसा आश्रयणीया इति भावः; तस्या अप्यलाभेशेषाणांपूर्वा उपस्थानासा अनुज्ञाता; एवं या या पूर्वा सा सा अनुज्ञाता तावद्वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता। एवंपूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्याअनुज्ञावेदितव्या। “अभिनवंचचउसु भय"त्ति चतसृषु वसतिषु अभिनवेति दोषः सम्बध्यते अभिनवं दोषं 'भज' विकल्पय, कदाचिद् भवति कदाचिन्न भवतीति जानीहीत्यर्थः । अत्रापीयं भावना-अनभिक्रान्तायामपरिमुक्तेति कृत्वा चिरकृतायामप्यभिनवदोषोभवति, वज्यार्दिषुपुनर्यापरिभुक्तास्तासु नाभिनवदोषः, एषा भजना। “पच्छिमाऽभिनव"त्तिपश्चिमोनाममहासावद्योपाश्रयःतस्मिन्नभिनवकृतेवा चिरकृतेवा परिभुक्ते वा अभिनवदोषा भवन्ति, एकपक्षनिर्धारणात् । एतैर्मूलगुणादि दोषैर्य परिहर्तुजानाति स ग्रहणे कल्पिकः॥ कथं पुनर्जानाति परिहर्तुम् ? इति चेद् अत आह[भा.६०१] उग्गम-उप्पायण-एसणाहि सुद्धं गवेसए वसहिं । तिविहं तीहिं विसुद्धं, परिहर नवगेण भेदेणं ।। वृ-उद्गमेनोत्पादनया एषणया शुद्धां वसतिं गवेषयति । तत्रत्रयाणां पदानामष्टौ भङ्गाः। तेषु च उपरितनेषु सप्तसु भनेष्वशुद्धां परिहर्तुं यो जानाति स ग्रहणे कल्पिकः । कथम्भूतां वसतिमुद्गमादिशुद्धांगवेषयति? इत्यत आह-'त्रिविधा खातादिभेदतस्त्रीप्रकारांतथा त्रिभिः' मनसा वाचा कायेन च विशुद्धां गवेषयति । तथा खातादीस्तिस्रोऽपि वसतीरुद्गमाद्यशुद्धा नवकेन भेदेन परिहरति । तद्यथा-मनसा न गृह्णाति नापि ग्राहयति नापि गृह्णन्तमनुजानीते, एवं चा कायेन च वक्तव्यमिति ॥ [भा.६०२]पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । ___आलोयणमायरिये, आयरिओ विसोहिकारो से॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy