________________
१५०
बृहत्कल्प-छेदसूत्रम् -- वृ-'कायैः' पृथिवीकायादिभिसचित्तैर्मित्रैश्चससक्तेउपाश्रये तिष्ठतःप्रायश्चित्तं 'स्वस्थानं' स्वस्थाननिष्पन्नं भवति ।द्यथा-सचित्तैः पृथिवीकायादिभि संसक्ते चतुर्लघु, हरितैरनन्तैश्चतुर्गुरु, प्रत्येकबीजै रात्रिन्दिवपञ्चकं लघु, अननतबीजैर्गुरुकम्, मित्रैः पृथिव्यादिभिर्मासलघु, हरितैरनन्तैर्मिसिगुरु, बीजैः प्रत्येकैरनन्तैश्च मित्रैः सचित्तैरिव, सकायैश्चत्वारो गुरुकाः। “सागारिय" इत्यादि पश्चिमार्द्धम् । निर्ग्रन्थानां पुरुषसंसक्ते उपाश्रये तिष्ठतां चत्वारो लघुकाः, स्त्रीसंसक्ते चत्वारो गुरुका- । निर्ग्रन्थीनां स्त्रीभिः संसक्ते चतुर्लघु, पुरुषसंसक्ते चतुर्गुरु । ये च यत्राऽऽज्ञाभङ्गादयो दोषास्ते च तत्र सप्रायश्चित्ता वक्तव्याः ॥ [भा.५९०] गुरुगा बंभावाए, आयाए चेव दंसणे लहुगा।
आणादिणो विराधन, भवंति एक्केक्कगपयाओ ।। वृ-'ब्रह्मापाये' ब्रह्मप्रत्यवाये 'आत्मनि चैव' आत्मप्रत्यपाये 'गुरुकाः' चत्वारो गुरवः । 'दर्शने' दर्शनप्रत्यपाये चत्वारो लघवः । 'आज्ञादयश्च' आज्ञाभङ्गादयो विराधना एकैकपदाद् भवन्ति ज्ञातव्याः, द्विविधकरणोपघातादिषु सर्वेष्वपि पदेषु यथायोगमाज्ञाभङ्गादयो विराधनाः सप्रायश्चित्ता योजनीया इत्यर्थः ॥अथ के ब्रह्मप्रत्यवाया आत्मप्रत्यवाया दर्शनप्रत्यवायावा? तत आह[भा.५९१] तिरिय-मनुइत्थियातो, बंभावातो उ तिविह पडिमातो।
अहिबिल-चलंतकुड्डादि एवमादी उ आयाए । वृ-यत्र तिर्यकिस्त्रयो मनुष्यस्त्रियो वा यदि वा यत्र 'त्रिविधाः प्रतिमाः' तिर्यक्स्त्रीप्रतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रतिमा वा सा 'ब्रह्मापाया' ब्रह्मप्रत्यपाया, तस्यां स्थितानां ब्रह्मव्रतविनाशसम्भवात् । यत्र पुनरहबिलानि चलन्ति-चलानि कुड्यानि आदिशब्दाचलवेलीधारणादिपरिग्रहः, एवमादिका ‘आत्मनि' आत्मप्रत्यवाया। [भा.५९२] आगाढमिच्छदिट्ठी, सव्वातिहि मरुग बहुजनट्ठाणा ।
पासंडा य बहुविहा, एसा खलु दंसणावाया। वृतथा यत्राऽऽगाढमिथ्याद्दष्टि, यत्र च सर्वेऽतिथयः समागच्छन्ति सङ्गमित्यर्थः, यत्र 'मरुकाः' बटुकास्तिष्ठन्ति चट्टशाला इति भावः, यच्च बहूनामागन्तुकानां जनानां स्थानं देशिककुटीत्यर्थः, यत्र च बहुविधाः पाषण्डाः, एषा एवंरूपा वसति- खलु ‘दर्शनापाया' दर्शनप्रत्यपाया ।। सम्प्रति शय्याविधिद्वारमाह[भा.५९३] कालातिकतोवट्ठाण अभिकंत अनभिकंता य ।
वजा य महावज्जा, सावज महऽप्पकिरिया य॥ वृ-शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १ उपस्थापना २ अभिक्रान्ता ३ अनभिक्रान्ता ४ वा ५ महावा ६सावद्या ७महासावद्या ८ अल्पक्रिया ९ च ॥
तत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह[भा.५९४] कालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसु ।
___ गुरुगा तिसुजमलपया, अप्पकिरियाए सुद्धो उ॥ वृ-ऋतुबद्धे काले कालातिक्रान्तं तिष्ठति मासलघु, वर्षाकाले चत्वारो लघवः । 'चतुर्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org